"ऋग्वेदः मण्डल ४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८७:
ब्राह्मणेषु सार्वत्रिकरूपेण (जै १.१३८) कथनमस्ति यत् यावत् प्राणाः, चेतना खण्डिताः सन्ति, तेषु अन्तःसंवादं नास्ति, तावत् स वामदेवः नास्ति। यदा प्राणेषु मध्ये अन्तःसंबंधं स्थापितं भविष्यति, तदा तत् वामदेवं भविष्यति। पुराणेषु अस्य कथनस्य रूपं एकादशी अस्ति। दश प्राणाः सन्ति। तेषां उपरि एकादशी दशप्राणानां व्यूहरूपा भवति। पुराणेषु वामदेवऋषिः पापानां शोधनाय एकादशी-द्वादशी तिथीनां महत्त्वं वर्णयति। अतीतकाले महर्षि महेशयोगी सामूहिकध्यानस्य पक्षधरः आसीत्।
ब्राह्मणग्रन्थेषु वामदेव्यस्य साम्नः सम्बन्धं योनिना सह अपि कथितं भवति(जै ३.३०१)। सर्वासां प्राणानां योनिः वामदेव्यं सामं अस्ति। यदा प्राणाः संवत्सरस्य दशमासपर्यन्तं योन्यां वसिष्यन्ति, तदा तेषां नवीनरूपे उत्पादनं भविष्यति। संवत्सरः मन, प्राण एवं वाचः सम्बन्धकरणतः सूचकः अस्ति। पुराणेषु वामदेव शिवस्य लक्षणरूपेण ओंकारस्य अ, उ, म अक्षरत्रय मध्ये उकारेण सह वामदेवशिवस्य सम्बद्धता कथितमस्ति। उकारः योनिरस्ति। अ अक्षरः ब्रह्मणा आदानस्य प्रतीकमस्ति, उकारः विष्णुना आधृतप्राणानां धारणस्य, मकारः शिवेन विसर्जनस्य। ब्राह्मणग्रन्थेषु (जै ३.३०१) वामदेवस्य साम्नः विशेषणं सद् अपि अस्ति। अयं सदः योनिरेव प्रतीयते।
जैमिनीयब्राह्मणः १,३३३ संकेतं करोति यत् ब्रह्माण्डे या वैश्वामैत्री विकृता सृष्टिः अस्ति, यथा अविपशोः स्थाने उष्ट्रस्य (उष्ट्रोपरि टिप्पणी द्रष्टव्यः), गौस्थाने महिषी आदि, वामदेव्यतन्त्रे तस्याः निषेधमस्ति।
मूर्तिकलासु वामदेवशिवस्य या मूर्तिरस्ति, तस्यां स्त्रीतत्त्वस्य, प्रकृतेः प्रधानता अस्ति। वामपक्षः अपि स्त्रीतत्त्वप्रधानएव भवति। अग्निपुराण ३०४.२६ अनुसारेण वामदेवशिवस्य स्वरूपं स्त्रीविलासी अस्ति। किन्तु गोपथब्राह्मणे २.३.२३ वामदेवेन दक्षिण दिशायाः गोपायनस्य उल्लेखं भवति। दक्षिणः पक्षः पुरुषप्रधानः भवति। अस्मिन् संदर्भे पुराणेषु वामनअवतारः उल्लेखनीयं अस्ति। वामनस्य आरंभिक स्थितिः अल्पाकारः अस्ति, किन्तु सैव विष्णुः उरुक्रमः भवितुं शक्यते।
वामदेवसम्बन्धि एतेषां सर्वेषां लक्षणानां प्रस्फुटनं वैदिकऋचासु केन प्रकारेण भवति, अयं अन्वेषणीयः।
"https://sa.wikisource.org/wiki/ऋग्वेदः_मण्डल_४" इत्यस्माद् प्रतिप्राप्तम्