"ऋग्वेदः सूक्तं ४.३१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
अग्निष्टोमे चातुर्विंशिकेहनि च माध्यंदिने सवने मैत्रावरुण्सय कया नः इत्याद्स्तृचः स्तोत्रियः(आश्व.श्रौ. [[कल्पः/श्रौतसूत्राणि/आश्वलायन-श्रौतसूत्रम्/अध्यायः ७|७.७]])। वरुणप्रघासेषु कायस्य हविषः अनुवाक्या( आश्व.श्रौ. [[कल्पः/श्रौतसूत्राणि/आश्वलायन-श्रौतसूत्रम्/अध्यायः २|२.१७]])
}}
<poem><span style="font-size: 14pt; line-height:200%">
[[File:वामदेव्यं साम Vamadevyam sama.ogg|thumb|वामदेव्यं साम। स्तोत्राणां प्रतिष्ठापनार्थं।]]
<poem><span style="font-size: 14pt; line-height:200%">
कया नश्चित्र आ भुवदूती सदावृधः सखा ।
कया शचिष्ठया वृता ॥१॥
पङ्क्तिः ६०:
कया । शचिष्ठया । वृता ॥१
 
“सदावृधः सदा वर्धमानः "चित्रः चायनीयः पूजनीयः "सखा मित्रभूत इन्द्रः “कया "उती ऊत्या तर्पणेन "नः अस्मान् “आ “भुवत् आभिमुख्येन भवेत् । "शविष्ठया प्रज्ञावत्तमया प्रज्ञासहितमनुष्ठीयमानेन "कया “वृता केन वर्तनेन कर्मणा चाभिमुखो भवेत् ॥
 
 
Line ७४ ⟶ ७५:
दृळ्हा । चित् । आऽरुजे । वसु ॥२
 
“मंहिष्ठः पूजनीयः “सत्यः सत्यभूतः “मदानां मादयितॄणां मध्ये “कः मदकरः “अन्धसः सोमस्य रसः “दृळ्हा “चित् दृढान्यपि "वसु वसूनि शत्रूणां धनानि "आरुजे आ समन्तात् भङ्क्तुं हे इन्द्र “त्वा त्वां “मत्सत् मादयेत् ॥
 
 
Line ८८ ⟶ ९०:
शतम् । भवासि । ऊतिऽभिः ॥३
 
हे इन्द्र त्वं “सखीनां समानख्यातीनां “जरितॄणां स्तोतॄणाम् “अविता रक्षिता त्वं “शतं शतेन बह्वीभिः "ऊतिभिः रक्षाभिः सह “नः अस्माकं "सु सुष्ठु “अभि “भवासि अभिमुखो भव ॥
 
 
Line १०२ ⟶ १०५:
नियुत्ऽभिः । चर्षणीनाम् ॥४
 
हे इन्द्र त्वं “वृत्तं “चक्रं “न वर्तमानं चक्रमिव “अर्वतः उपगन्तॄन् “नः अस्मान् “चर्षणीनाम् अस्मदीयानां मनुष्याणां “नियुद्भिः स्तुतिभिः "अभि “आ “ववृत्स्व अभ्यावर्तस्व ॥
 
 
Line ११६ ⟶ १२०:
अभक्षि । सूर्ये । सचा ॥५
 
हे इन्द्र त्वं “क्रतूनां कर्मणां यजमानानां संबन्धिनः “प्रवता प्रवतः प्रवणान् देशान् "पदेव पदानि स्वकीयानि स्थानानीव “आ “गच्छसि “हि आगतो भवसि खलु। “ह इति पूरणः । हे इन्द्र त्वामहं “सूर्ये सूर्येण "सचा सह “अभक्षि भजे ॥ ॥ २४ ॥
 
 
Line १३० ⟶ १३५:
अध । त्वे इति । अध । सूर्ये ॥६
 
हे “इन्द्र “ते त्वदर्थं “मन्यवः स्तुतयः “यत् यदा “सं “दधन्विरे अस्माभिरनुमन्यन्ते । “चक्राणि चङ्क्रमणानि कर्माणि च "सं दधन्विरे । “अध तदानीं ताः स्तुतयः तानि कर्माणि च “त्वे त्वयि भवन्ति । “अध तदनन्तरं "सूर्ये च भवन्ति ।।
 
 
Line १४४ ⟶ १५०:
दातारम् । अविऽदीधयुम् ॥७
 
हे “शचीपते कर्मपालकेन्द्र “उत अपि च “मघवानं धनवन्तं “दातारं स्तोतृभ्योऽभीष्टप्रदं त्वा “त्वाम् “अविदीधयुम् । विदीधयुः अदीप्यमानः । न विदीधयुः अविदीधयुः । तं दीप्यमानम् “आहुः “स्म प्रवदन्ति खलु । “हि “इत् इति द्वयं पूरणार्थम् ।।॥३॥
 
 
Line १५८ ⟶ १६५:
पुरु । चित् । मंहसे । वसु ॥८
 
“उत अपि च हे इन्द्र त्वं “सद्य “इत् सद्य एव “शशमानाय स्तुतिं कुर्वते । शशमानः शंसमानः ' ( निरु. ६. ८) इति यास्केनोक्तत्वात् । “सुन्वते सोमाभिषवं कुर्वते यजमानाय “पुरु “चित् पुरूणि बहून्यपि “वसु वसूनि धनानि “परि परितः "मंहसे "स्म प्रयच्छसि खलु ॥
 
 
Line १७२ ⟶ १८०:
न । च्यौत्नानि । करिष्यतः ॥९
 
हे इन्द्र "आमुरः बाधका राक्षसादयः "ते त्वदीयं “शतं “चन शतपरिमितमपि “राधः धनं “नहि “वरन्ते “स्म न वारयन्ति खलु । किंच शत्रूणां हिंसनं “करिष्यतः तव “च्यौत्नानि बलानि “न वारयन्ति ।
 
 
Line १८६ ⟶ १९५:
अस्मान् । विश्वाः । अभिष्टयः ॥१०
 
हे इन्द्र “ते त्वदीयाः “शतं शतसंख्याकाः “ऊतयः रक्षाः “अस्मान् “अवन्तु रक्षन्तु । “सहस्रं सहस्रसंख्याकास्त्वदीया रक्षाः “अस्मान् अवन्तु । “विश्वाः सर्वाणि “अभिष्टयः त्वदीयान्यभिगमनानि "अस्मान् अवन्तु ॥ ॥ २५ ॥
 
 
Line २०० ⟶ २१०:
महः । राये । दिवित्मते ॥११
 
हे इन्द्र त्वम् “इह अस्मिन् यज्ञे “अस्मान् यजमानान् “सख्याय सखिभावाय “स्वस्तये अविनाशाय च “महः महते "दिवित्मते दीप्तिमते "राये धनाय च "वृणीष्व संभजस्व ॥
 
 
Line २१४ ⟶ २२५:
अस्मान् । विश्वाभिः । ऊतिऽभिः ॥१२
 
हे “इन्द्र त्वं “विश्वहा सर्वेष्वहःसु "परीणसा महता “राया धनेन “अस्मान् यजमानान् “अविड्ढि रक्ष । किंच “विश्वाभिः सर्वाभिः “ऊतिभिः रक्षाभिः “अस्मान् अविड्ढि ॥
 
 
Line २२८ ⟶ २४०:
नवाभिः । इन्द्र । ऊतिऽभिः ॥१३
 
हे "इन्द्र त्वं "नवाभिः नूतनाभिः “ऊतिभिः रक्षाभिः "अस्तेव क्षेप्ता शूर इव “गोमतः गोभिः युक्तान “तान् प्रसिद्धान् “व्रजान् गोनिवासान् “अस्मभ्यम् "अपा “वृधि उद्घाटय ॥
 
 
Line २४२ ⟶ २५५:
गव्युः । अश्वऽयुः । ईयते ॥१४
 
हे “इन्द्र “धृष्णुया धृष्णुः शत्रूणां धर्षक: "द्युमान् दीप्तिमान् "अनपच्युतः विनाशरहितः “गव्युः गोमान् “अश्वयुः अश्ववान् “अस्माकम् अस्मत्संबन्धी “रथः “ईयते सर्वत्र गच्छतु । तेन रथेनास्मान् रक्षेत्यर्थः ॥
 
 
‘ अस्माकमुत्तमं कृधि ' इत्यनया आदित्यं दृष्ट्वा रथादवरोहेत् । तथा च सूत्रितम्- अस्माकमुत्तमं कृधीत्यादित्यमीक्षमाणो जपित्वावरोहेत् ' ( आश्व. गृ. २. ६. १२ ) इति ।।
 
अ॒स्माक॑मुत्त॒मं कृ॑धि॒ श्रवो॑ दे॒वेषु॑ सूर्य ।
Line २५६ ⟶ २७२:
वर्षिष्ठम् । द्याम्ऽइव । उपरि ॥१५
 
हे सूर्य सर्वस्य प्रेरकेन्द्र हे आदित्य वा त्वं “देवेषु द्योतमानेषु वह्या“्दिषु मध्ये “अस्माकम् अस्मत्संबन्धि “श्रवः यशः “उत्तमम् उत्कृष्टं “कृधि कुरु । तत्र दृष्टान्तः । “वर्षिष्ठम् अतिशयेन प्रवृद्धं सेसनसमर्थं वा “द्यामिव द्युलोकं यथा सर्वेषां लोकानाम् “उपरि स्थितमुत्कृष्टमकरोस्तद्वत् ॥ ॥ २६ ॥
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.३१" इत्यस्माद् प्रतिप्राप्तम्