"छान्दोग्योपनिषद्/अध्यायः २" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २:
 
=== ॥ द्वितीयॊऽध्यायः ॥ ===
::::2.1 ॥ प्रथमः खण्डः॥
 
::::समस्तस्य खलु साम्न उपासनँ साधु यत्खलु साधु तत्सामेत्याचक्षते यदसाधु तदसामेति ॥ १ ॥
पङ्क्तिः १६:
 
 
::::2.2 ॥ द्वितीयः खण्डः ॥
 
::::लोकेषु पञ्चविधँ सामोपासीत पृथिवी हिङ्कारोऽग्निः प्रस्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारो द्यौर्निधनमित्यूर्ध्वेषु ॥ १ ॥
पङ्क्तिः २७:
 
 
::::2.3 ॥ तृतीयः खण्डः ॥
 
::::वृष्टौ पञ्चविधँ सामोपासीत पुरोवातो हिङ्कारो मेघो जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तनयति स प्रतिहार ॥ ४ ॥
पङ्क्तिः ३४:
 
 
::::2.4 ॥ चतुर्थः खण्डः ॥
 
::::सर्वास्वप्सु पञ्चविधँ सामोपासीत मेघो यत्संप्लवते स हिङ्कारो यद्वर्षति स प्रस्तावो याः प्राच्यः स्यन्दन्ते स उद्गीथो याः प्रतीच्यः स प्रतिहारः समुद्रो निधनम् ॥ १ ॥
पङ्क्तिः ४२:
 
 
::::2.5 ॥ पञ्चमः खण्डः ॥
 
::::ऋतुषु पञ्चविधँसामोपासीत वसन्तो हिङ्कारः ग्रीष्मः प्रस्तावो वर्षा उद्गीथः शरत्प्रतिहारो हेमन्तो निधनम् ॥ १ ॥
पङ्क्तिः ५०:
 
 
::::2.6 ॥ षष्ठः खण्डः ॥
 
::::पशुषु पञ्चविधँ सामोपासीताजा हिङ्कारोऽवयः प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः पुरुषो निधनम् ॥ १ ॥
पङ्क्तिः ५८:
 
 
::::2.7 ॥ सप्तमः खण्डः ॥
 
::::प्राणेषु पञ्चविधं परोवरीयः सामोपासीत प्राणो हिङ्कारो वाक्प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारो मनो निधनं परोवरीयाँसि वा एतानि ॥ १ ॥
पङ्क्तिः ६६:
 
 
::::2.8 ॥ अष्टमः खण्डः ॥
 
::::अथ सप्तविधस्य वाचि सप्तविधँसामोपासीत यत्किञ्च वाचो हुमिति स हिङ्कारो यत्प्रेति स प्रस्तावो यदेति स आदिः ॥ १ ॥
पङ्क्तिः ७८:
 
 
::::2.9 ॥ नवमः खण्डः ॥
 
::::अथ खल्वमुमादित्यँ सप्तविधँ सामोपासीत सर्वदा समस्तेन साम मां प्रति मां प्रतीति सर्वेण समस्तेन साम ॥ १ ॥
पङ्क्तिः १०४:
 
 
::::2.10 ॥ दशमः खण्डः ॥
 
::::अथ खल्वात्मसंमितमतिमृत्यु सप्तविधँ सामोपासीत हिङ्कार इति त्र्यक्षरं प्रस्ताव इति त्र्यक्षरं तत्समम् ॥ १ ॥
पङ्क्तिः १२४:
 
 
::::2.11 ॥ एकादशः खण्डः ॥
 
::::मनो हिङ्कारो वाक्प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारः प्राणो निधनमेतद्गायत्रं प्राणेषु प्रोतम् ॥ १ ॥
पङ्क्तिः १३२:
 
 
::::2.12 ॥ द्वादशः खण्डः ॥
 
::::अभिमन्थति स हिङ्कारो धूमो जायते स प्रस्तावो ज्वलति स उद्गीथोऽङ्गारा भवन्ति स प्रतिहार उपशाम्यति तन्निधनँसँशाम्यति तन्निधनमेतद्रथन्तरमग्नौ प्रोतम् ॥ १ ॥([http://vedastudy.tripod.com/pur_index25/rathantara.htm रथन्तरोपरि टिप्पणी])
पङ्क्तिः १४०:
 
 
::::2.13 ॥ त्रयोदशः खण्डः ॥
 
::::उपमन्त्रयते स हिङ्कारो ज्ञपयते स प्रस्तावः स्त्रिया सह शेते स उद्गीथः प्रति स्त्रीं सह शेते स प्रतिहारः कालं गच्छति तन्निधनं पारं गच्छति तन्निधनमेतद्वामदेव्यं मिथुने प्रोतम् ॥ १ ॥
पङ्क्तिः १४८:
 
 
::::2.14 ॥ चतुर्दशः खण्डः ॥
 
::::उद्यन्हिङ्कार उदितः प्रस्तावो मध्यन्दिन उद्गीथोऽपराह्णः प्रतिहारोऽस्तं यन्निधनमेतद्बृहदादित्ये प्रोतम् ॥ १ ॥
पङ्क्तिः १५६:
 
 
::::2.15 ॥ पञ्चदशः खण्डः ॥
 
::::अभ्राणि संप्लवन्ते स हिङ्कारो मेघो जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तनयति स प्रतिहार उद्गृह्णाति तन्निधनमेतद्वैरूपं पर्जन्ये प्रोतम् ॥ १ ॥
पङ्क्तिः १६४:
 
 
::::2.16 ॥ षोडशः खण्डः ॥
 
::::वसन्तो हिङ्कारो ग्रीष्मः प्रस्तावो वर्षा उद्गीथः शरत्प्रतिहारो हेमन्तो निधनमेतद्वैराजमृतुषु प्रोतम् ॥ १ ॥
पङ्क्तिः १७२:
 
 
::::2.17 ॥ सप्तदशः खण्डः ॥
 
::::पृथिवी हिङ्कारोऽन्तरिक्षं प्रस्तावो द्यौरुद्गीथो दिशः प्रतिहारः समुद्रो निधनमेताः शक्वर्यो लोकेषु प्रोताः ॥ १ ॥
पङ्क्तिः १८०:
 
 
::::2.18 ॥ अष्टादशः खण्डः ॥
 
::::अजा हिङ्कारोऽवयः प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः पुरुषो निधनमेता रेवत्यः पशुषु प्रोताः ॥ १ ॥
पङ्क्तिः १८८:
 
 
::::2.19 ॥ एकोनविंशः खण्डः ॥
 
::::लोम हिङ्कारस्त्वक्प्रस्तावो माँसमुद्गीथोस्थि प्रतिहारो मज्जा निधनमेतद्यज्ञायज्ञीयमङ्गेषु प्रोतम् ॥ १ ॥
पङ्क्तिः १९६:
 
 
::::2.20 ॥ विंशः खण्डः ॥
 
::::अग्निर्हिङ्कारो वायुः प्रस्ताव आदित्य उद्गीथो नक्षत्राणि प्रतिहारश्चन्द्रमा निधनमेतद्राजनं देवतासु प्रोतम् ॥ १ ॥
पङ्क्तिः २०४:
 
 
::::2.21 ॥ एकविंशः खण्डः ॥
 
::::त्रयी विद्या हिङ्कारस्त्रय इमे लोकाः स प्रस्तावोऽग्निर्वायुरादित्यः स उद्गीथो नक्षत्राणि वयाँसि मरीचयः स प्रतिहारः सर्पा गन्धर्वाः पितरस्तन्निधनमेतत्साम सर्वस्मिन्प्रोतम् ॥ १ ॥
पङ्क्तिः २१८:
 
 
::::2.22 ॥ द्वाविंशः खण्डः ॥
 
::::विनर्दि साम्नो वृणे पशव्यमित्यग्नेरुद्गीथोऽनिरुक्तः प्रजापतेर्निरुक्तः सोमस्य मृदु श्लक्ष्णं वायोः श्लक्ष्णं बलवदिन्द्रस्य क्रौञ्चं बृहस्पतेरपध्वान्तं वरुणस्य तान्सर्वानेवोपसेवेत वारुणं त्वेव वर्जयेत् ॥ १ ॥
पङ्क्तिः २३५:
 
 
::::2.23 ॥ त्रयोविंशः खण्डः ॥
 
::::त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथमस्तप एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन्सर्व एते पुण्यलोका भवन्ति ब्रह्मसँस्थोऽमृतत्वमेति ॥ १ ॥
पङ्क्तिः २४६:
 
 
::::2.24 ॥ चतुर्विंशः खण्डः ॥
 
::::ब्रह्मवादिनो वदन्ति यद्वसूनां प्रातः सवनँरुद्राणां माध्यन्दिनँसवनमादित्यानां च विश्वेषां च देवानां तृतीयसवनम् ॥ १ ॥
"https://sa.wikisource.org/wiki/छान्दोग्योपनिषद्/अध्यायः_२" इत्यस्माद् प्रतिप्राप्तम्