"ऋग्वेदः सूक्तं ७.१९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३५:
 
{{सायणभाष्यम्|
‘यस्तिग्मशृङ्गः' इत्येकादशर्चं द्वितीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रान्तं’ यस्तिग्मशृङ्ग एकादश' इति । आभिप्लविके पञ्चमेऽहन्येतन्निविद्धानम् । सूत्रितं च---‘कया शुभा यस्तिग्मशृङ्ग इति मध्यंदिनः ' ( आश्व. श्रौ. ७. ७ ) इति । विषुवति निष्केवल्यशस्त्रेऽप्येतत्सूक्तम् । सूत्रितं च--’ यस्तिग्मशृङ्गोऽभि त्यं मेषम् ' (आश्व. श्रौ. ८. ६) इति । महाव्रते निष्केवल्येऽप्येतत् सूक्तम् । सूत्रितं च-’ यस्तिग्मशृङ्गो वृषभो न भीम उग्रो जज्ञे वीर्याय स्वधावान्' (ऐ. आ. ५. २. २ ) इति । आयुष्कामेष्ट्यां ‘मा ते अस्याम्' इतीन्द्रस्य त्रातुर्याज्या । सूत्रितं च – ' मा ते अस्यां सहसावन्परिष्टौ पाहि नो अग्ने पायुभिः' (आश्व. श्रौ. २. १०) इति ॥
 
 
यस्ति॒ग्मशृ॑ङ्गो वृष॒भो न भी॒म एक॑ः कृ॒ष्टीश्च्या॒वय॑ति॒ प्र विश्वा॑ः ।
Line ४७ ⟶ ४९:
 
यः । शश्वतः । अदाशुषः । गयस्य । प्रऽयन्ता । असि । सुस्विऽतराय । वेदः ॥१
 
“यः इन्द्रः “तिग्मशृङ्गः तीक्ष्णशृङ्गः “वृषभो “न वृषभ इव “भीमः भयंकरः सन् “एकः असहाय एव “विश्वाः सर्वान् “कृष्टीः शत्रुजनान् स्थानात् “प्र “च्यावयति । “यः चेन्द्रः “अदाशुषः अयजमानस्य “शश्वतः बहोः “गयस्य गृहस्य धनस्य वा । अपहर्ता भवतीति शेष: । हे इन्द्र स त्वं "सुष्वितराय अतिशयेन सोमाभि<वं कुर्वते जनाय "वेदः धनं “प्रयन्ता प्रदाता "असि ॥ तृन्नन्तत्वादत्र षष्ठ्या अभावः । असि इत्यस्याख्यातस्यानुदात्तत्वात् यद्वृत्तयोगाच्चानुदात्तत्वासंभवात् यद्वृत्तयुक्तमाख्यातान्तरमध्याहृत्य योजना कृता ।।
 
 
Line ६० ⟶ ६४:
 
दासम् । यत् । शुष्णम् । कुयवम् । नि । अस्मै । अरन्धयः । आर्जुनेयाय । शिक्षन् ॥२
 
हे “इन्द्र “त्वं “ह त्वं खलु “त्यत् तदा "तन्वा शरीरेण “शुश्रूषमाणः उपचरन् "समर्ेा मर्यैर्मर्त्यैर्योद्धभिः सहिते युद्धे “कुत्सम् "आवः अरक्षः । कदेत्यत्राह । "यत् यदा "आर्जुनेयाय अर्जुन्याः पुत्राय “अस्मै कुत्साय "शिक्षन् धनं प्रयच्छन् "दासं दासनामकमसुरं “शुष्णं च "कुयवं च “नि "अरन्धयः नितरां वशमानयः ॥
 
 
Line ७३ ⟶ ७९:
 
प्र । पौरुऽकुत्सिम् । त्रसदस्युम् । आवः । क्षेत्रऽसाता । वृत्रऽहत्येषु । पूरुम् ॥३
 
हे “धृष्णो शत्रूणां धर्षकेन्द्र "धृषता धर्षकेण वज्रेण बलेन वा "वीतहव्यं दत्तहविष्कं प्रजनितहविष्कं वा "सुदासं राजानं "विश्वाभिः सर्वाभिः “ऊतिभिः रक्षाभिः "प्रावः प्रकर्षेणारक्षः । किंच “वृत्रहत्येषु युद्धेषु "क्षेत्रसाता क्षेत्रसातौ क्षेत्रस्य भूमेर्भजने निमित्ते पौरुकुत्सिं पुरुकुत्सस्यापत्यं “त्रसदस्युं “पूरुं च “प्र “आवः ॥
 
 
Line ८६ ⟶ ९४:
 
त्वम् । नि । दस्युम् । चुमुरिम् । धुनिम् । च । अस्वापयः । दभीतये । सुऽहन्तु ॥४
 
हे "नृमणः नृभिर्यज्ञानां नेतृभिः स्तोतृभिर्मननीय स्तोतव्येन्द्र । नृषु मनो यस्येति बहुव्रीहिर्वा । “देववीतौ यज्ञे क्रियमाणे सति संग्रामे वा । देवा विजिगीषवो यस्मिन् वियन्ति गच्छन्तीति संग्रामो देववीतिः। "नृभिः मरुद्भिः सह "भूरीणि बहूनि "वृत्रा वृत्राणि शत्रून् "हंसि मारितवानसि । किंच हे "हर्यश्व इन्द्र “त्वं “दभीतये दभीतिनामकाय राजर्षये । तदर्थमित्यर्थः । “दस्युं “चुमुरिं च “धुनिं च "सुहन्तु सुहन्तुना वज्रेण "नि नितराम् "अस्वापयः । मारितवानसीत्यर्थः ॥
 
 
Line ९९ ⟶ १०९:
 
निऽवेशने । शतऽतमा । अविवेषीः । अहन् । च । वृत्रम् । नमुचिम् । उत । अहन् ॥५
 
हे "वज्रहस्त “तव “च्यौत्नानि बलानि "तानि तादृशानि । "यत् यदा त्वं शम्बरस्य "नव “नवतिं "च “पुरः "सद्यः युगपदेव विदारितवानसीति शेषः । तदा "निवेशने निवेशनार्थं “शततमा शततमीं पुरम् "अविवेषीः व्याप्नोः । "वृत्रं "च "अहन् । "उत अपि च "नमुचिम् “अहन् ॥ ॥ २९ ॥
 
 
Line ११२ ⟶ १२४:
 
वृष्णे । ते । हरी इति । वृषणा । युनज्मि । व्यन्तु । ब्रह्माणि । पुरुऽशाक । वाजम् ॥६
 
हे "इन्द्र "ते तव "रातहव्याय दत्तहव्याय "दाशुषे यजमानाय "सुदासे "ता तानि त्वया दत्तानि “भोजनानि भोग्यानि धनानि “सना सनानि सनातनानि बभूवुरिति शेषः । हे "पुरुशाक बहुकर्मन्निन्द्र "वृष्णे कामानां वर्षित्रे "ते तुभ्यम् । त्वामानेतुमित्यर्थः । "वृषणा वृषणौ “हरी अश्वौ “युनज्मि रथे योजयामि । “ब्रह्माणि अस्मदीयानि स्तोत्राणि "वाजं बलिनं त्वां “व्यन्तु गच्छन्तु ॥
 
 
Line १२५ ⟶ १३९:
 
त्रायस्व । नः । अवृकेभिः । वरूथैः । तव । प्रियासः । सूरिषु । स्याम ॥७
 
हे "सहसावन् बलवन् "हरिवः हरिवन्निन्द्र "ते तव "अस्यां स्तोत्रेणास्माभिः क्रियमाणायां “परिष्टौ अन्वेषणायां "परादै परादानाय "अघाय अ(आ?)हन्त्रे वयं "मा "भूम । किंच "नः अस्मान् “अवृकेभिः अबाधैः "वरूथैः । वारयन्त्युपद्रवेभ्य इति वरूथानि रक्षणानि । तैः “त्रायस्व पाहि । “तव "सूरिषु स्तोतृषु मध्ये वयं "प्रियासः प्रियाः स्याम भूयास्म ॥
 
 
Line १३८ ⟶ १५४:
 
नि । तुर्वशम् । नि । याद्वम् । शिशीहि । अतिथिऽग्वाय । शंस्यम् । करिष्यन् ॥८
 
हे "मघवन् धनवन्निन्द्र “ते तव "अभिष्टौ अभ्येषणे "नरः स्तोत्राणां नेतारो वयं "सखायः समानख्यातयः “प्रियासः प्रियाश्च सन्तः “शरणे "इत् गृह एव “मदेम मोदेम । किंच “अतिथिग्वाय । पूजयातिथीन् गच्छतीत्यतिथिग्वः । तस्मै सुदासे दिवोदासाय वास्मदीयाय राज्ञे “शंस्यं शंसनीयं सुखं "करिष्यन् कुर्वन् "तुर्वशं राजानं "नि "शिशीहि वशं कुरु । "याद्वं च राजानं “नि शिशीहीत्यर्थः ॥
 
 
Line १५१ ⟶ १६९:
 
ये । ते । हवेभिः । वि । पणीन् । अदाशन् । अस्मान् । वृणीष्व । युज्याय । तस्मै ॥९
 
हे "मघवन् धनवन्निन्द्र "ते तव “नु अद्य "अभिष्टौ अभ्येषणे "ये "नरः “उक्थशासः उक्थानां शंसितारः “उक्था उक्थानि शस्त्राणि "सद्यश्चित् सद्य एव “शंसन्ति । किंच "ते तव "हवेभिः स्तोत्रैः "पणीन् अप्रदानशीलान् वणिजोऽपि “वि “अदाशन् । धनानि विशेषेणादापयन्नित्यर्थः । तान् "अस्मान् "तस्मै "युज्याय सख्याय तत्सख्यमनुवर्तयितुं "वृणीष्व परिगृहाण ॥
 
 
Line १६४ ⟶ १८४:
 
तेषाम् । इन्द्र । वृत्रऽहत्ये । शिवः । भूः । सखा । च । शूरः । अविता । च । नृणाम् ॥१०
 
हे "नृतम नेतृतम "इन्द्र "तुभ्यं "नरां नेतॄणां ये “एते "स्तोमाः संघाः "मघानि मंहनीयानि - हवींषि “ददतः ददन्तः "अस्मद्र्यञ्चः अस्मदभिमुखाः अभूवन्निति शेषः । "तेषां "नृणां "वृत्रहत्ये संग्रामे "शिवः कल्याणकृत् 'भूः भव। "सखा “च भूः । “अविता' रक्षिता “च भूः ॥
 
 
Line १७८ ⟶ २००:
उप । नः । वाजान् । मिमीहि । उप । स्तीन् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥११
 
हे "शूर “इन्द्र “नु अद्य "स्तवमानः अस्माभिः स्तूयमानः “ब्रह्मजूतः ब्रह्मणा स्तोत्रेण प्रेरितः “तन्वा शरीरेण ऊत्या रक्षणेन’ “ववृधस्व । अपि च "नः अस्मभ्यं “वाजान् अन्नानि “उप “मिमीहि । प्रयच्छेत्यर्थः । "स्तीन गृहांश्च “उप मिमीहि । स्पष्टमन्यत् ॥ ॥ ३० ॥
 
 
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
 
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
 
 
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये
पञ्चमाष्टके द्वितीयोऽध्यायः समाप्तः ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.१९" इत्यस्माद् प्रतिप्राप्तम्