"रामायणम्/युद्धकाण्डम्/सर्गः १८" इत्यस्य संस्करणे भेदः

→‎बाहरी कडियाँ: वाल्मीकिरामायणम्, removed: वर्गः:Hinduism using AWB
No edit summary
पङ्क्तिः ५:
<div class="verse">
<pre>
अथ रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्य ह ०१
राघवेन अभये दत्ते सम्नतो रावण अनुजः ।
प्रत्यभाषत दुर्धर्षः श्रुतवानात्मनि स्थितम् 6.18.1 ०१
विभीषणो महाप्राज्ञो भूमिम् समवलोकयत् ॥६-१९-१॥
ममापि तु विवक्षास्ति का चित्प्रति विभीषणम् ०२
श्रुतमिच्छामि तत्सर्वं भवद्भिः श्रेयसि स्थितैः ०२
मित्रभावेन संप्राप्तं न त्यजेयं कथं चन ०३
दोषो यद्यपि तस्य स्यात्सतामेतदगर्हितम् ०३
रामस्य वचनं श्रुत्वा सुग्रीवः प्लवगेश्वरः ०४
प्रत्यभाषत काकुत्स्थं सौहार्देनाभिचोदितः ०४
किमत्र चित्रं धर्मज्ञ लोकनाथशिखामणे ०५
यत्त्वमार्यं प्रभाषेथाः सत्त्ववान् सपथे स्थितः ०५
मम चाप्यन्तरात्मायं शुद्धिं वेत्ति विभीषणम् ०६
अनुमनाच्च भावाच्च सर्वतः सुपरीक्षितः ०६
तस्मात्क्षिप्रं सहास्माभिस्तुल्यो भवतु राघव ०७
विभीषणो महाप्राज्ञः सखित्वं चाभ्युपैतु नः ०७
स सुग्रीवस्य तद्वाक्यय्ं रामः श्रुत्वा विमृश्य च ०८
ततः शुभतरं वाक्यमुवाच हरिपुंगवम् ०८
सुदुष्टो वाप्यदुष्टो वा किमेष रजनीचरः ०९
सूक्ष्ममप्यहितं कर्तुं ममाशक्तः कथं चन ०९
पिशाचान् दानवान् यक्षान् पृथिव्यां चैव राक्षसान् १०
अङ्गुल्यग्रेण तान् हन्यामिच्छन् हरिगणेश्वर १०
श्रूयते हि कपोतेन शत्रुः शरणमागतः ११
अर्चितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः ११
स हि तं प्रतिजग्राह भार्या हर्तारमागतम् १२
कपोतो वानरश्रेष्ठ किं पुनर्मद्विधो जनः १२
ऋषेः कण्वस्य पुत्रेण कण्डुना परमर्षिणा १३
शृणु गाथां पुरा गीतां धर्मिष्ठां सत्यवादिना १३
बद्धाञ्जलिपुटं दीनं याचन्तं शरणागतम् १४
न हन्यादानृशंस्यार्थमपि शत्रुं परं पत १४
आर्तो वा यदि वा दृप्तः परेषां शरणं गतः १५
अरिः प्राणान् परित्यज्य रक्षितव्यः कृतात्मना १५
स चेद्भयाद्वा मोहाद्वा कामाद्वापि न रक्षति १६
स्वया शक्त्या यथातत्त्वं तत्पापं लोकगर्हितम् १६
विनष्टः पश्यतस्तस्य रक्षिणः शरणागतः १७
आदाय सुकृतं तस्य सर्वं गच्छेदरक्षितः १७
एवं दोषो महानत्र प्रपन्नानामरक्षणे १८
अस्वर्ग्यं चायशस्यं च बलवीर्यविनाशनम् १८
करिष्यामि यथार्थं तु कण्डोर्वचनमुत्तमम् १९
धर्मिष्ठं च यशस्यं च स्वर्ग्यं स्यात्तु फलोदये १९
सकृदेव प्रपन्नाय तवास्मीति च याचते २०
अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम २०
आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया २१
विभीषणो वा सुग्रीव यदि वा रावणः स्वयम् २१
ततस्तु सुग्रीववचो निशम्य तद्॑ धरीश्वरेणाभिहितं नरेश्वरः २२
विभीषणेनाशु जगाम संगमं॑ पतत्रिराजेन यथा पुरंदरः २२
 
खात् पपात अवनिम् हृष्टो भक्तैर् अनुचरैः सह ।
स तु रामस्य धर्म आत्मा निपपात विभीषणः ॥६-१९-२॥
 
पादयोः शरण अन्वेषी चतुर्भिः सह राक्षसैः ।
अब्रवीच् च तदा रामम् वाक्यम् तत्र विभीषणः ॥६-१९-३॥
 
धर्म युक्तम् च युक्तम् च साम्प्रतम् सम्प्रहर्षणम् ।
अनुजो रावणस्य अहम् तेन च अस्मि अवमानितः ॥६-१९-४॥
 
भवन्तम् सर्व भूतानाम् शरण्यम् शरणम् गतः ।
परित्यक्ता मया लंका मित्राणि च धनानि च ॥६-१९-५॥
 
भवद् गतम् हि मे राज्यम् च जीवितम् च सुखानि च ।
तस्य तद्वचनम् श्रुत्वा रामो वचनमब्रवीत् ॥६-१९-६॥
 
वचसा सान्त्वयित्वैनम् लोचनाभ्याम् पिबन्निव ।
आख्याहि मम तत्वेन राक्षसानाम् बलाबलम् ॥६-१९-७॥
 
एवमुक्तम् तदा रक्षो रामेणाक्लिष्टकर्मणा ।
रावणस्य बलम् सर्वमाख्यातुमुपचक्रमे ॥६-१९-८॥
 
अवध्यः सर्वभूतानाम् गन्धर्वोरगपक्षिणाम् ।
राजपुत्र दशग्रीवो वरदानात्स्वयम्भुवः ॥६-१९-९॥
 
रावणानन्तरो भ्राता मम ज्येष्ठश्च वीर्यवान् ।
कुम्भकर्णो महातेजाः शक्रप्रतिबलो युधि ॥६-१९-१०॥
 
राम सेनापतिस्तस्य प्रहस्तो यदि ते श्रुतः ।
कैलासे येन सम मणिभद्रः पराजितः ॥६-१९-११॥
 
बद्दगोधाङ्गुलित्रश्च अवध्यकवचो युधि ।
धनुरादाय यस्तिष्ठन्नदृश्यो भवतीन्द्रजित् ॥६-१९-१२॥
 
सम्ग्रामे सुमहद्व्यूहे तर्पयित्वा हुताशनम् ।
अन्तर्धानगतः श्रीमानिन्द्रजिद्धन्ति राघव ॥६-१९-१३॥
 
महोदरमहापार्स्वौ राक्षसश्चाप्यकम्पनः ।
अवीकपास्तु तप्यैते लोकपालसमा युधि ॥६-१९-१४॥
 
दशकोटिसहस्राणि रक्षसाम् कामरूपिणाम् ।
माम्सशोणितभक्ष्याणाम् लङ्कापुरनिवासिनाम् ॥६-१९-१५॥
 
स तैस्तु सहितो राजा लोकपालानयोधयत् ।
सह देवैस्तु ते भग्ना रावणेन दुरात्मना ॥६-१९-१६॥
 
विभीषणस्य तु वचस्तछ्रुत्वा रघुसत्तमः ।
अन्वीक्ष्य मनसा सर्वमिदम् वचनमब्रवीत् ॥६-१९-१७॥
 
यानि कर्मापदानानि रावणस्य विभीषण ।
अख्यातानि च तत्त्वेन ह्यवगच्चामि तान्यहम् ॥६-१९-१८॥
 
अहम् हत्वा दशग्रीवम् सप्रहस्तम् सहात्मजम् ।
राजानम् त्वाम् करिष्यामि सत्यमेतच्छृणोतु मे ॥६-१९-१९॥
 
रसातलम् वा प्रविशेत्पातालम् वापि रावणः ।
पितामहसकाशम् वा न मे जीवन्विमोक्ष्यते ॥६-१९-२०॥
 
अहत्वा रावणम् सम्ख्ये सपुत्रजनबान्धवम् ।
अयोध्याम् न प्रवेक्ष्यामि त्रिभिस्तैर्भ्रतृभिः शपेः ॥६-१९-२१॥
 
श्रुत्वा तु वचनम् तस्य रामस्याक्लिष्टकर्मणः ।
शिरसा वन्द्य धर्मात्मा वक्तुमेव प्रचक्रमे ॥६-१९-२२॥
 
राक्षसानाम् वधे साह्यम् लंकायाः च प्रधर्षणे ।
करिष्यामि यथा प्राणम् प्रवेक्ष्यामि च वाहिनीम् ॥६-१९-२३॥
 
इति ब्रुवाणम् रामस् तु परिष्वज्य विभीषणम् ।
अब्रवील् लक्ष्मणम् प्रीतः समुद्राज् जलम् आनय ॥६-१९-२४॥
 
तेन च इमम् महाप्राज्ञम् अभिषिन्च विभीषणम् ।
राजानम् रक्षसाम् क्षिप्रम् प्रसन्ने मयि मानद ॥६-१९-२५॥
 
एवम् उक्तस् तु सौमित्रिर् अभ्यषिन्चद् विभीषणम् ।
मध्ये वानर मुख्यानाम् राजानम् राम शासनात् ॥६-१९-२६॥
 
तम् प्रसादम् तु रामस्य दृष्ट्वा सद्यः प्लवम् गमाः ।
प्रचुक्रुशुर् महानादान् साधु साध्व् इति च अब्रुवन् ॥६-१९-२७॥
 
अब्रवीच् च हनूमामः च सुग्रीवः च विभीषणम् ।
कथम् सागरम् अक्षोभ्यम् तराम वरुण आलयम् ॥६-१९-२८॥
 
सैन्यैः परिवृताः सर्वे वानराणाम् महौजसाम् ।
उपायैर् अभिगच्चामो यथा नद नदी पतिम् ॥६-१९-२९॥
 
तराम तरसा सर्वे ससैन्या वरुण आलयम् ।
एवम् उक्तस् तु धर्मज्ञः प्रत्युवाच विभीषणः ॥६-१९-३०॥
 
समुद्रम् राघवो राजा शरणम् गन्तुम् अर्हति ।
खानितः सगरेण अयम् अप्रमेयो महाउदधिः ॥६-१९-३१॥
 
कर्तुम् अर्हति रामस्य ज्ञातेः कार्यम् महाउदधिः ।
एवम् विभीषणेन उक्ते राक्षसेन विपश्चिता ॥६-१९-३२॥
 
आजगामथ सुग्रीवो यत्र रामः सलक्ष्मणः ।
ततश्चाख्यातुमारेभे विभीषणवचः शुभम् ॥६-१९-३३॥
 
सुग्रीवो विपुलग्रीवः सागरस्योपवेशनम् ।
प्रकृत्या धर्म शीलस्य राघवस्य अपि अरोचत ॥६-१९-३४॥
 
स लक्ष्मणम् महातेजाः सुग्रीवम् च हरि ईश्वरम् ।
सत् क्रिया अर्थम् क्रिया दक्षः स्मित पूर्वम् उवाच ह ॥६-१९-३५॥
 
विभीषणस्य मन्त्रो अयम् मम लक्ष्मण रोचते ।
सुग्रीवः पण्डितो नित्यम् भवान् मन्त्र विचक्षणः ॥६-१९-३६॥
 
उभाभ्याम् सम्प्रधार्य आर्यम् रोचते यत् तद् उच्यताम् ।
एवम् उक्तौ तु तौ वीराव् उभौ सुग्रीव लक्ष्मणौ ॥६-१९-३७॥
 
समुदाचार सम्युक्तम् इदम् वचनम् ऊचतुः ।
किम् अर्थम् नो नर व्याघ्र न रोचिष्यति राघव ॥६-१९-३८॥
 
विभीषणेन यत् तु उक्तम् अस्मिन् काले सुख आवहम् ।
अबद्ध्वा सागरे सेतुम् घोरे अस्मिन् वरुण आलये ॥६-१९-३९॥
 
लंका न आसादितुम् शक्या स इन्द्रैर् अपि सुर असुरैः ।
विभीषणस्य शूरस्य यथा अर्थम् क्रियताम् वचः ॥६-१९-४०॥
 
अलम् काल अत्ययम् कृत्वा समुद्रो अयम् नियुज्यताम् ।
यथा कालात्ययम् कृत्वा सागराय नियुज्यताम् ॥६-१९-४१॥
 
एवम् उक्तः कुश आस्तीर्णे तीरे नद नदी पतेः ।
सम्विवेश तदा रामो वेद्याम् इव हुत अशनः ॥६-१९-४२॥
</pre>
</div>