"ऋग्वेदः सूक्तं ७.३०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ८:
| notes = दे. इन्द्रः। त्रिष्टुप्।
}}
<poem><span style="font-size: 14pt; line-height: 200%">
 
 
<div class="verse">
<pre>
आ नो देव शवसा याहि शुष्मिन्भवा वृध इन्द्र रायो अस्य ।
महे नृम्णाय नृपते सुवज्र महि क्षत्राय पौंस्याय शूर ॥१॥
Line २२ ⟶ १९:
वोचेमेदिन्द्रं मघवानमेनं महो रायो राधसो यद्ददन्नः ।
यो अर्चतो ब्रह्मकृतिमविष्ठो यूयं पात स्वस्तिभिः सदा नः ॥५॥
</span></poem>
 
{{सायणभाष्यम्|
‘ आ नो देव' इति पञ्चर्चं त्रयोदशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रम् । ‘आ नो देव' इत्यनुक्रान्तम् । प्रथमे छन्दोमे प्रउगशस्त्रे ‘आ नः' इत्ययमैन्द्रस्तृचः । सूत्र्यते हि-’ आ नो देव शवसा याहि शुष्मिन् प्र वो यज्ञेषु देवयन्तो अर्चन्' (आश्व. श्रौ. ८. ९) इति ॥
 
 
आ नो॑ देव॒ शव॑सा याहि शुष्मि॒न्भवा॑ वृ॒ध इ॑न्द्र रा॒यो अ॒स्य ।
 
म॒हे नृ॒म्णाय॑ नृपते सुवज्र॒ महि॑ क्ष॒त्राय॒ पौंस्या॑य शूर ॥१
 
आ । नः॒ । दे॒व॒ । शव॑सा । या॒हि॒ । शु॒ष्मि॒न् । भव॑ । वृ॒धः । इ॒न्द्र॒ । रा॒यः । अ॒स्य ।
 
म॒हे । नृ॒म्णाय॑ । नृ॒ऽप॒ते॒ । सु॒ऽव॒ज्र॒ । महि॑ । क्ष॒त्राय॑ । पौंस्या॑य । शू॒र॒ ॥१
 
आ । नः । देव । शवसा । याहि । शुष्मिन् । भव । वृधः । इन्द्र । रायः । अस्य ।
 
महे । नृम्णाय । नृऽपते । सुऽवज्र । महि । क्षत्राय । पौंस्याय । शूर ॥१
 
हे देव द्योतमान “शुष्मिन् बलवन् “इन्द्र "नः अस्मान् "शवसा बलेन सार्धम् "आ "याहि । “अस्य अस्मभ्यं देयस्य “रायः धनस्य “वृधः वर्धयिता च "भव । हे "नृपते "सुवज्र "महे महते “नृम्णाय बलाय च भव । “बाधो नृम्णम्' इति बलनामसु पाठात् । हे "शूर “महि महते “क्षत्राय शत्रूणां हिंसकाय । क्षदिर्हिंसाकर्मा । "पौंस्याय वीर्याय च भव ॥
 
 
हव॑न्त उ त्वा॒ हव्यं॒ विवा॑चि त॒नूषु॒ शूरा॒ः सूर्य॑स्य सा॒तौ ।
 
त्वं विश्वे॑षु॒ सेन्यो॒ जने॑षु॒ त्वं वृ॒त्राणि॑ रन्धया सु॒हन्तु॑ ॥२
 
हव॑न्ते । ऊं॒ इति॑ । त्वा॒ । हव्य॑म् । विऽवा॑चि । त॒नूषु॑ । शूराः॑ । सूर्य॑स्य । सा॒तौ ।
 
त्वम् । विश्वे॑षु । सेन्यः॑ । जने॑षु । त्वम् । वृ॒त्राणि॑ । र॒न्ध॒य॒ । सु॒ऽहन्तु॑ ॥२
 
हवन्ते । ऊं इति । त्वा । हव्यम् । विऽवाचि । तनूषु । शूराः । सूर्यस्य । सातौ ।
 
त्वम् । विश्वेषु । सेन्यः । जनेषु । त्वम् । वृत्राणि । रन्धय । सुऽहन्तु ॥२
 
हे इन्द्र "हव्यं ह्वातव्यं "त्वा त्वां "विवाचि विविधा वाचो यस्मिन् प्रादुर्भवन्ति तस्मिन् युद्धे “शूराः पुरुषाः “तनूषु अङ्गेषु रक्षणीयासु "सूर्यस्य "सातौ संभजने। सरति गच्छतीत्यायुरत्र सूर्यो विवक्षितः । तस्य चिरकालं प्राप्त्यर्थं "हवन्ते ह्वयन्ति । "विश्वेषु सर्वेषु "जनेषु “त्वम् एव “सेन्यः सेनार्होऽसि । अपि च “त्वं "वृत्राणि शत्रून् "सुहन्तु सुहन्तुना वज्रेण "रन्धय अस्मभ्यं वशीकुरु ॥
 
 
अहा॒ यदि॑न्द्र सु॒दिना॑ व्यु॒च्छान्दधो॒ यत्के॒तुमु॑प॒मं स॒मत्सु॑ ।
 
न्य१॒॑ग्निः सी॑द॒दसु॑रो॒ न होता॑ हुवा॒नो अत्र॑ सु॒भगा॑य दे॒वान् ॥३
 
अहा॑ । यत् । इ॒न्द्र॒ । सु॒ऽदिना॑ । वि॒ऽउ॒च्छान् । दधः॑ । यत् । के॒तुम् । उ॒प॒ऽमम् । स॒मत्ऽसु॑ ।
 
नि । अ॒ग्निः । सी॒द॒त् । असु॑रः । न । होता॑ । हु॒वा॒नः । अत्र॑ । सु॒ऽभगा॑य । दे॒वान् ॥३
 
अहा । यत् । इन्द्र । सुऽदिना । विऽउच्छान् । दधः । यत् । केतुम् । उपऽमम् । समत्ऽसु ।
 
नि । अग्निः । सीदत् । असुरः । न । होता । हुवानः । अत्र । सुऽभगाय । देवान् ॥३
 
हे "इन्द्र "यत् यदा "अहा अहानि "सुदिना सुदिनानि “व्युच्छान् व्युच्छेयुः "यत् यदा च “समत्सु संग्रामेषु "केतुं ज्ञानम् "उपमम् अन्तिकं "दधः धारयेः तदा "असुरः बलवान् "होता देवानामाह्वाता “अग्निः "सुभगाय अस्माकं शोभनधनप्राप्तये “देवान् "हुवानः ह्वयन् "अत्र अस्मिन् यज्ञे "नि “षीदत् न्यसीदत् ॥
 
 
व॒यं ते त॑ इन्द्र॒ ये च॑ देव॒ स्तव॑न्त शूर॒ दद॑तो म॒घानि॑ ।
 
यच्छा॑ सू॒रिभ्य॑ उप॒मं वरू॑थं स्वा॒भुवो॑ जर॒णाम॑श्नवन्त ॥४
 
व॒यम् । ते । ते॒ । इ॒न्द्र॒ । ये । च॒ । दे॒व॒ । स्तव॑न्त । शू॒र॒ । दद॑तः । म॒घानि॑ ।
 
यच्छ॑ । सू॒रिऽभ्यः॑ । उ॒प॒ऽमम् । वरू॑थम् । सु॒ऽआ॒भुवः॑ । ज॒र॒णाम् । अ॒श्न॒व॒न्त॒ ॥४
 
वयम् । ते । ते । इन्द्र । ये । च । देव । स्तवन्त । शूर । ददतः । मघानि ।
 
यच्छ । सूरिऽभ्यः । उपऽमम् । वरूथम् । सुऽआभुवः । जरणाम् । अश्नवन्त ॥४
 
हे "देव "शूर “इन्द्र "ते तव “वयं वसिष्ठाः स्वभूताः । "ये जना मदीय पुत्रपौत्रादयः "मघानि मंहनीयानि हवींषि "ददतः प्रयच्छन्तः "स्तवन्त स्तुवन्ति "ते अपि तव स्वभूताः । तेभ्य उभयेभ्यः “सूरिभ्यः स्तोतृभ्यः “उपमं श्रेष्ठं “वरूथं गृहं "यच्छ प्रयच्छ । अपि च त उभे "स्वाभुवः सुसमृद्धाः सन्तः "जरणां जराम् "अश्नवन्त प्राप्नुवन्तु ॥
 
 
वो॒चेमेदिन्द्रं॑ म॒घवा॑नमेनं म॒हो रा॒यो राध॑सो॒ यद्दद॑न्नः ।
 
यो अर्च॑तो॒ ब्रह्म॑कृति॒मवि॑ष्ठो यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥५
 
वो॒चेम॑ । इत् । इन्द्र॑म् । म॒घऽवा॑नम् । ए॒न॒म् । म॒हः । रा॒यः । राध॑सः । यत् । दद॑त् । नः॒ ।
 
यः । अर्च॑तः । ब्रह्म॑ऽकृतिम् । अवि॑ष्ठः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥५
 
वोचेम । इत् । इन्द्रम् । मघऽवानम् । एनम् । महः । रायः । राधसः । यत् । ददत् । नः ।
 
यः । अर्चतः । ब्रह्मऽकृतिम् । अविष्ठः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥५
 
एषा सिद्धा ॥ ॥ १४ ॥
 
}}
 
</pre>
</div>
{{ऋग्वेदः मण्डल ७}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.३०" इत्यस्माद् प्रतिप्राप्तम्