"ऋग्वेदः सूक्तं ८.३६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २९:
 
{{सायणभाष्यम्|
‘ अवितासि ' इति सप्तर्चं षष्ठं सूक्तमात्रेयस्य श्यावाश्वस्यार्षम् । अत्रेयमनुक्रमणिका ‘ अविता सप्त शाक्करं महापङ्क्त्यन्तम्' इति । षट्पञ्चाशदक्षरा शक्वरी छन्दः । ‘श्यावाश्वस्य' इति सप्तमी महापङ्क्तिः ‘ षळष्टका वा महापङ्क्तिः ' (अनु. १०. ३) इति लक्षणसद्भावात् । दशरात्रे पञ्चमेऽहनि मरुत्वतीय इदं सूक्तम् । सूत्रितं च- अवितासीत्था हि ' (आश्व. श्रौ. ७. १२) इति ।।
 
 
अ॒वि॒तासि॑ सुन्व॒तो वृ॒क्तब॑र्हिष॒ः पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो ।
Line ४१ ⟶ ४३:
 
यम् । ते । भागम् । अधारयन् । विश्वाः । सेहानः । पृतनाः । उरु । ज्रयः । सम् । अप्सुऽजित् । मरुत्वान् । इन्द्र । सत्ऽपते ॥१
 
हे “शतक्रतो बहुकर्मन्निन्द्र “सुन्वतः सोमाभिषवं कुर्वतः “वृक्तबर्हिषः स्तीर्णबर्हिषो यजमानस्य “अविता रक्षिता “असि भवसि । “मदाय मदार्थं “सोमं “पिब । हे “सत्पते सतां पते “इन्द्र “ते तुभ्यं “यं सोमस्य “भागमधारयन् सर्वे देवा अकल्पयन् । तथा च यजुर्ब्राह्मणं---' स एतं माहेन्द्रमुद्धारमुदहरत वृत्रं हत्वान्यासु देवतास्वधि' ( तै. सं. ६. ५. ५. ३ ) इति । तं भागं “विश्वाः “पृतनाः शत्रूणां सर्वाः सेनाः “उरु बहु “ज्रयः वेगं च “सं “सेहानः सम्यगभिभवन् “अप्सुजित् अप्सु जेता च सन् पिब ॥
 
 
Line ५४ ⟶ ५८:
 
यम् । ते । भागम् । अधारयन् । विश्वाः । सेहानः । पृतनाः । उरु । ज्रयः । सम् । अप्सुऽजित् । मरुत्वान् । इन्द्र । सत्ऽपते ॥२
 
हे "मघवन् "स्तोतारं "प्राव प्ररक्ष । “त्वां च "अव सोमपानेन रक्ष । सिद्धमन्यत् ॥
 
 
Line ६७ ⟶ ७३:
 
यम् । ते । भागम् । अधारयन् । विश्वाः । सेहानः । पृतनाः । उरु । ज्रयः । सम् । अप्सुऽजित् । मरुत्वान् । इन्द्र । सत्ऽपते ॥३
 
हे इन्द्र त्वं “देवान् “ऊर्जा अन्नेन हविषा “अवसि रक्षसि । “त्वाम् अपि “ओजसा बलेन अवसि । सिद्धमन्यत् ॥
 
 
Line ८० ⟶ ८८:
 
यम् । ते । भागम् । अधारयन् । विश्वाः । सेहानः । पृतनाः । उरु । ज्रयः । सम् । अप्सुऽजित् । मरुत्वान् । इन्द्र । सत्ऽपते ॥४
 
हे इन्द्र त्वं “दिवः द्युलोकस्य “जनिता जनकोऽसि । “पृथिव्याः च "जनिता असि । सिद्धमन्यत् ॥
 
 
Line ९३ ⟶ १०३:
 
यम् । ते । भागम् । अधारयन् । विश्वाः । सेहानः । पृतनाः । उरु । ज्रयः । सम् । अप्सुऽजित् । मरुत्वान् । इन्द्र । सत्ऽपते ॥५
 
हे इन्द्र त्वम् “अश्वानां “जनिता जनकः “असि । “गवां च "जनिता असि । सिद्धमन्यत् ॥
 
 
Line १०६ ⟶ ११८:
 
यम् । ते । भागम् । अधारयन् । विश्वाः । सेहानः । पृतनाः । उरु । ज्रयः । सम् । अप्सुऽजित् । मरुत्वान् । इन्द्र । सत्ऽपते ॥६
 
हे "अद्रिवः अद्रिमन् “अत्रीणां “स्तोमं “महस्कृधि पूजितं कुरु । सिद्धमन्यत् ॥
 
 
Line १२० ⟶ १३४:
प्र । त्रसदस्युम् । आविथ । त्वम् । एकः । इत् । नृऽसह्ये । इन्द्र । ब्रह्माणि । वर्धयन् ॥७
 
हे “इन्द्र त्वं "सुन्वतः सोमाभिषवं कुर्वतः “श्यावाश्वस्य मम स्तुतिं “कर्माणि “कृण्वतः कुर्वतः "अत्रेः “यथाशृणोः अश्रौषीः “तथा “शृणु । अपि च “त्वमेक “इत् एक एव “नृषाह्ये युद्धे “ब्रह्माणि स्तोत्राणि कामैः “वर्धयन् “त्रसदस्युं “प्र “आविथ ।। ॥ १८ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.३६" इत्यस्माद् प्रतिप्राप्तम्