"वामनपुराणम्/तृतीयोऽध्यायः" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
'''पुलस्त्य उवाच।।'''
ततः करतले रुद्रः कपाले दारुणे स्थिते।
संतापमगमद् ब्रह्मंश्चिन्तया व्याकुलेन्द्रियः।। ३-१
 
ततः समागता रौद्रा नीलाञ्चनचयप्रभा।
सरक्तमूर्द्धजा भीमा ब्रह्महत्या हरान्तिकम्।। ३-२
 
तामागतां हरो दृष्ट्वा पप्रच्छ विकरालिनीम्।
काऽसि त्वमागता रौद्रे केनाप्यर्थेन तद्वद।। ३-३
 
कपालिनमथोवाच ब्रह्महत्या सुदारुणा।
ब्रह्मवध्याऽस्मि संप्राप्तां मां प्रतीच्छ त्रिलोचन।। ३-४
 
इत्येवमुक्त्वा वचनं ब्रह्महत्या विवेश ह।
त्रिशूलपाणिनं रुद्रं संप्रतापितविग्रहम्।। ३-५
 
ब्रह्महत्याभिभूतश्च शर्वो बदरिकाश्रमम्।
आगच्छन्न ददर्शाथ नरनारायणावृषी।। ३-६
 
अदृष्ट्वा धर्मतनयौ चिन्ता शोकसमन्वितः।
जगाम यमुनां स्नातुं साऽपि शुष्कजलाऽभवत्।। ३-७
 
कालिन्दीं शुष्कसलिलां निरीक्ष्य वृषकेतनः।
प्लक्षजां स्नातुमगमदन्तर्द्धानं च सा गता।। ३-८
 
ततो नु पुष्करारण्यं मागधारण्यमेव च।
सैन्धवारण्यमेवासौ गत्वा स्नातो यथेच्छया।। ३-९
 
तथैव नैमिषारण्यं धर्मारण्यं तथेश्वरः।
स्नातो नैव च सा रौद्रा ब्रह्महत्या व्यमुञ्चत।। ३-१०
 
सरित्सु तीर्थेषु तथाश्रमेषु पुण्येषु देवायतनेषु शर्वः।
समायुतो योगयुतोऽपि पापान्नावाप मोक्षं जलदध्वजोऽसौ।। ३-११
 
ततो जगाम निर्विण्णः शंकरः कुरुजाङ्गलम्।
तत्र गत्वा ददर्शाथ चक्रपाणिं खगध्वजम्।। ३-१२
 
तं दृष्ट्वा पुण्डरीकाक्षं शङ्खचक्रगदाधरम्।
कृताञ्जलिपुटो भूत्वा हरः स्तोत्रमुदीरयत्।। ३-१३
 
''' हर उवाच।।'''
नमस्ते देवतानाथ नमस्ते गरुडध्वज।
शङ्खचक्रगदापाणे वासुदेव नमोऽस्तु ते।। ३-१४
 
नमस्ते निर्गुणानन्त अप्रतर्क्याय वेधसे
ज्ञानाज्ञान निरालम्ब सर्वालम्ब नमोऽस्तु ते।। ३-१५
 
रजोयुक्त नमस्तेऽस्तु ब्रह्ममूर्ते सनातन।
त्वया सर्वमिदं नाथ जगत्सृष्टं चराचरम्।। ३-१६
 
सत्त्वाधिष्ठित लोकेश विष्णुमूर्ते अधोक्षज।
प्रजापाल महाबाहो जनार्दन नमोऽस्तु ते।। ३-१७
 
तमो मूर्त्ते अहं ह्येष त्वदंशक्रोधसंभवः।
गुणाभियुक्त देवेश सर्वव्यापिन् नमोऽस्तु ते।। ३-१८
 
भूरियं त्वं जगन्नाथ जलाम्बरहुताशनः।
वायुर्बुद्धिर्मनश्चापि शर्वरी त्वं नमोऽस्तु ते।। ३-१९
 
धर्मो यज्ञस्तपः सत्यमहिंसा शौचमार्जवम्।
क्षमा दानं दया लक्ष्मीर्ब्रह्मचर्यं त्वमीश्वर।। ३-२०
 
त्वं साङ्गाश्चतुरो वेदास्त्वं वेद्यो वेदपारगः।
उपवेदा भवानीश सर्वोऽसि त्वं नमोऽस्तु ते।। ३-२१
 
नमो नमस्तेऽच्युत चक्रपाणे नमोऽस्तु ते माधव मीनमूर्ते।
लोके भवान् कारुणिको मतो मे त्रायस्व मां केशव पापबन्धात्।। ३-२२
 
ममाशुभं नाशय विग्रहस्थं यद् ब्रह्महत्याऽभिभवं बभूव।
दग्धोऽस्मि नष्टोऽस्म्यसमीक्ष्यकारी पुनीहि तीर्थोऽसि नमो नमस्ते।। ३-२३
 
'''पुलस्त्य उवाच।।'''
इत्थं स्तुतश्चक्रधरः शंकरेण महात्मना।
प्रोवाच भगवान् वाक्यं ब्रह्महत्याक्षयाय हि।। ३-२४
 
'''गिरिरुवाच।।'''
महेश्वर श्रृणुष्वेमां मम वाचं कलस्वनाम्।
ब्रह्महत्याक्षयकरीं शुभदां पुण्यवर्धनीम्।। ३-२५
 
योऽसौ प्राङ्मण्डले पुण्ये मदंशप्रभवोऽव्ययः।
प्रयागे वसते नित्यं योगशायीति विश्रुतः।। ३-२६
 
चरणाद् दक्षिणात्तस्य विनिर्याता सरिद्वरा।
विश्रुता वरणेत्येव सर्वपापहरा शुभा।। ३-२७
 
सव्यादन्या द्वितीया च असिरित्येव विश्रुता।
ते उभे सरितच्छ्रेष्ठे लोकपूज्ये बभूवतुः।। ३-२८
 
ताभ्यां मध्ये तु यो देशस्तत्क्षेत्रं योगशायिनः।
त्रैलोक्यप्रवरं तीर्थं सर्वपापप्रमोचनम्।३-२९
 
न तादृशोऽस्ति गगने न भूभ्यां न रसातले।
तत्रास्ति नगरी पुण्या ख्याता वाराणसी शुभा।
यस्यां हि भोगिनोऽपीश प्रयान्ति भवतो लयम्।। ३-३०
 
विलासिनीनां रशनास्वनेन श्रुतिस्वनैर्ब्रह्मणपुंगवानाम्।
शुचिस्वरत्वं गुरवो निशम्य हास्यादशासन्त मुहुर्मुहुस्तान्।। ३-३१
 
व्रजत्सु योषित्सु चतुष्पथेषु पदान्यलक्तारुणितानि दृष्ट्वा।
ययौ शशी विस्मयमेव यस्यां किंस्वित् प्रयाता स्थलपद्मिनीयम्।। ३-३२
 
तुङ्गनि यस्यां सुरमन्दिराणि रुन्धन्ति चन्द्रं रजनीसुखेषु।
दिवाऽपि सूर्यं पवनाप्लुताभिर्दीर्घाभिरेवं सुपताकिकाभिः।। ३-३३
 
भृङ्गाश्च यस्यां शशिकान्तभित्तौ प्रलोभ्यमानाः प्रतिबिम्बितेषु।
आलेख्ययोषिद्विमलाननाब्जेष्वीयुर्भ्रमान्नैव च पुष्पकान्तम्।। ३-३४
 
परिश्रमश्चापि पराजितेषु नरेषु संमोहनखेलनेन।
यस्यां जलक्रीडनसंगतासु न स्त्रीषु शंभो गृहदीर्घकासु।। ३-३५
 
न चैव कश्चित् परमन्दिराणि रुणद्धि शंभो सहसा ऋतेऽक्षन्।
न चाबलानां तरसा पराक्रमं करोति यस्यां सुरतं हि मुक्त्वा।। ३-३६
 
पाशग्रन्थिर्गजेन्द्राणां दानच्छेदो मदच्युतौ।
यस्यां मानमदौ पुंसां करिणां यौवनागमे।। ३-३७
 
प्रियदोषाः सदा यस्यां कौशिका नेतरे जनाः।
तारागणेऽकुलीनत्वं गद्ये वृत्तच्युतिर्विभो।। ३-३८
 
भृतिलुब्धा विलासिन्यो भुजंगपरिवारिताः।
चन्द्रभूषितदेहाश्च यस्यां त्वमिव शंकर।। ३-३९
 
ईदृशायां सुरेशान वाराणस्यां महाश्रमे।
वसते भगवाँल्लोलः सर्वपापहरो रविः।। ३-४०
 
दशाश्वमेधं यत्प्रोक्तं मदंशो यत्र केशवः।
तत्र गत्वा सुरश्रेष्ठ पापमोक्षमवाप्स्यसि।। ३-४१
 
इत्येवमुक्तो गरु-डध्वजेन वृषध्वजस्तं शिरसा प्रणम्य।
जगाम वेगाद् गरुडो यथाऽसौ वाराणसीं पापविमोचनाय।। ३-४२
 
गत्वा सुपुण्यां नगरीं सुतीर्थां दृष्ट्वा च लोलं सदशाश्वमेधम्।
स्नात्वा च तीर्थेषु विमुक्तपापः स केशवं द्रष्टुमुपाजगाम।। ३-४३
 
केशवं शंकरो दृष्ट्वा प्रणिपत्येदमब्रवीत्।
त्वत्प्रसादाद् हृषीकेश ब्रह्महत्या क्षयं गता।। ३-४४
 
नेदं कपालं देवेश मद्धस्तं परिमुञ्चति।
कारणं वेद्मि न च तदेतन्मे वक्तुमर्हसि।। ३-४५
 
'''पुलस्त्य उवाच।।'''
महादेववचः श्रुत्वा केशवो वाक्यमब्रवीत्।
विद्यते कारणं रुद्र तत्सर्वं कथयामि ते।। ३-४६
 
योऽसौ ममाग्रतो दिव्यो ह्रदः पद्मोत्पलैर्युतः।
एष तीर्थवरः पुण्यो देवगन्धर्वपूजितः।। ३-४७
 
एतस्मिन्प्रवरे तीर्थे स्नानं शंभो समाचर।
स्नातमात्रस्य चाद्यैव कपालं परिमोक्ष्यति।। ३-४८
 
ततः कपाली लोके च ख्यातो रुद्र भविष्यसि।
कपालमोचनेत्येवं तीर्थं चेदं भविष्यति।। ३-४९
 
'''पुलस्त्य उवाच।।'''
एवमुक्तः सुरेशेन केशवेन महेश्वरः।
कपालमोचने सस्नौ वेदोक्तविधिना मुने।। ३-५०
 
स्नातस्य तीर्थे त्रिपुरान्तकस्य परिच्युतं हस्ततलात् कपालम्।
नाम्ना बभूवाथ कपालमोचनं तत्तीर्थवर्यं भगवत्प्रसादात्।। ३-५१
 
इति श्रीवामपुराणे तृतीयोऽध्ययः ।। ३ ।।
 
 
</poem>
"https://sa.wikisource.org/wiki/वामनपुराणम्/तृतीयोऽध्यायः" इत्यस्माद् प्रतिप्राप्तम्