"जैमिनीयं ब्राह्मणम्/काण्डम् १/२९१-३००" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १८:
 
यो वै बृहद्रथन्तरयोस् स्तोम्यां च स्तोत्रियां च वेद स्तोम्यो ह भवति स्तुवत एनेन स्वा अयं नश् श्रेष्ठ इति।
<poem>अभि त्वा शूर नोनुमो ऽदुग्धा इव धेनवः।
ईशानम् अस्य जगतस् स्वर्दृशम् ईशानम् इन्द्र तस्थुषः॥</poem>
इति स्तोम्या।
<poem>न त्वावं अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते।</poem>
इति स्तोत्रिया।
<poem>अश्वायन्तो मघवन्न् इन्द्र वाजिनो गव्यन्तस् त्वा हवामहे॥</poem>
इति याचितम् इवैतया वीर्यम् इव प्रोक्तम्। स य एवम् एते बृहद्रथन्तरयोस् स्तोम्यां च स्तोत्रियां च वेद स्तोम्यो ह भवति स्तुवत एनेन स्वा अयं नश् श्रेष्ठ इति। अथो हास्यैतेनैव विज्ञानेन सर्वे तृचा विज्ञाता भवन्ति॥1.293॥