"ऋग्वेदः सूक्तं १०.७३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३६:
 
{{सायणभाष्यम्|
‘ जनिष्ठाः' इत्येकादशर्चं पञ्चमं सूक्तं शक्तिपुत्रस्य गौरिवीतरार्षं मारुतं त्रैष्टुभम् । तथा चानुक्रान्तं— जनिष्ठा एकादश गौरिवीतिः' इति । अग्निष्टोमे मरुत्वतीयशस्त्र इदं सूक्तं निविद्धानम् । सूत्रितं च -- ‘ जनिष्ठा उग्र इत्येकभूयसीः शस्त्वा मरुत्वतीयां निविदं दध्यात् ' ( आश्व. श्रौ. ५, १४ ) इति । सौमिकचातुर्मास्येषु वैश्वदेवेऽप्येतन्मरुत्वतीयं निविद्धानम् । सूत्रितं च-- ‘ जनिष्ठा उग्र उग्रो जज्ञ इति माध्यंदिनः ' ( आश्व. श्रौ. ९.२ ) इति । महाव्रतेऽपि निष्केवल्य एतत्सूक्तम् । तथैव पञ्चमारण्यके सूत्रितं- जनिष्ठा उग्रः सहसे तुरायेति निविद्धानम् ' ( ऐ. आ. ५.१.१ ) इति ॥
 
 
जनि॑ष्ठा उ॒ग्रः सह॑से तु॒राय॑ म॒न्द्र ओजि॑ष्ठो बहु॒लाभि॑मानः ।
Line ४८ ⟶ ५०:
 
अवर्धन् । इन्द्रम् । मरुतः । चित् । अत्र । माता । यत् । वीरम् । दधनत् । धनिष्ठा ॥१
 
हे इन्द्र “सहसे बलाय “तुराय शत्रूणां हिंसनाय त्वम् “उग्रः उद्गूर्णबलः “जनिष्ठाः अजायथाः । कीदृशस्त्वम् । “मन्द्रः स्तुत्यः “ओजिष्ठः । ओजः शरीरबलम्। अतिशयेन तद्वान् । “बहुलाभिमानः भूयिष्ठाभिमानी । ईदृशं महानुभावम् “इन्द्रम् “अत्र वृत्रवधे “मरुतश्चित् मरुतोऽपि “अवर्धन् स्तुत्या साहाय्येन वा वर्धितवन्तः । “यत् यदा “धनिष्ठा धारयित्रीन्द्रमाता “वीरं “दधनत् अधारयत् ॥
 
 
Line ६१ ⟶ ६५:
 
अभिवृताऽइव । ता । महाऽपदेन । ध्वान्तात् । प्रऽपित्वात् । उत् । अरन्त । गर्भाः ॥२
 
“द्रुहः द्रोग्धुरिन्द्रस्य “पृशनी “चित् सेनापि “निषत्ता तत्संनिधौ निषण्णाभूत् । “एवैः गन्तृभिर्मरुद्भिः सहितमिन्द्रं निषण्णेति संबन्धः । “ते अपि मरुतः “पुरु प्रभूतेन “शंसेन स्तोत्रेण “इन्द्रं “ववृधुः अवर्धयन् वृत्रं जिघांसन्तम् । अथ “महापदेन महता व्रजेन “अभीवृतेव परिवृतानीव गवादीनि तानि यथावरणापगमे निर्गच्छन्ति तद्वत् तान्युदकानि “ध्वान्तात् अन्धकाररूपात “प्रपित्वात् आसन्नात्प्राप्ताद्वृत्रात् “गर्भाः गर्भभूतान्युदकानि “उदरन्त उदगच्छन् ।
 
 
Line ७४ ⟶ ८०:
 
त्वम् । इन्द्र । सालावृकान् । सहस्रम् । आसन् । दधिषे । अश्विना । आ । ववृत्याः ॥३
 
हे इन्द्र “ते “पादा पादौ “ऋष्वा महान्तौ । तादृशस्त्वं “यत् यदा “जिगासि गच्छसि तदानीं “वाजाः ऋभवः “अवर्धन अवर्धयन् । “उत अपि च “ये “चित् ये कैचन देवाः सन्ति तेऽप्यवर्धयन् । हे “इन्द्र “त्वं “सहस्रं सालावृकान् “आसन् आस्ये दधिषे धारयसि । तदानीम् “अश्विना अश्विनावपि “आ “ववृत्याः आवर्तयेः ॥
 
 
Line ८७ ⟶ ९५:
 
वसाव्याम् । इन्द्र । धारयः । सहस्रा । अश्विना । शूर । ददतुः । मघानि ॥४
 
हे इन्द्र “समना संग्रामे “तूर्णिः त्वरमाणोऽपि “यज्ञम् “उप यासि उपगच्छसि । तदानीं “नासत्या अश्विनौ “सख्याय “वक्षि वहसि । हे “इन्द्र “वसाव्यां वसुसमूहं “सहस्रा सहस्रां बहुसंख्यां “धारयः धारयस्यस्माकमर्थाय । हे “शूर “अश्विना अश्विनावपि तवानुचरौ “मघानि धनानि “ददतुः अस्मभ्यं प्रयच्छतः ॥
 
 
Line १०० ⟶ ११०:
 
आ । आभिः । हि । मायाः । उप । दस्युम् । आ । अगात् । मिहः । प्र । तम्राः । अवपत् । तमांसि ॥५
 
“इन्द्रः “ऋतात् यज्ञात् “अधि “इषिरेभिः गमनशीलैः “सखिभिः मरुद्भिः सह “मन्दमानः माद्यन् “प्रजायै यजमानाय “अर्थं धनं प्रयच्छति । स चेन्द्रः “आभिः प्रजाभिर्निमित्तभूताभिः “मायाः दस्युसंबन्धिनीर्विनाशयितुं “दस्युम् “उप “आगात् । स दस्युः “तम्राः अवर्षणेन ग्लापयित्रीः “मिहः वृष्टीः “प्र “अवपत् व्यनाशयदित्यर्थः । तमांसि - - - ॥ ॥ ३ ॥
 
 
Line ११३ ⟶ १२५:
 
ऋष्वैः । अगच्छः । सखिऽभिः । निऽकामैः । साकम् । प्रतिऽस्था । हृद्या । जघन्थ ॥६
 
अयमिन्द्रो वृत्रं हन्तुं “सनामाना “चित् समाननामानौ “नि “ध्वसयः न्यगमयत् । अथ “इन्द्रः तं “वृत्रम् “अवाहन अवहतवान् । “यथा “उषसः “अनः शकटमवनाशितवान् तद्वत् । अथ प्रत्यक्षेणोच्यते । हे इन्द्र त्वम् “ऋष्वैः दीप्तैः महद्भिर्वा “निकामैः नितरां वृत्रवधं कामयमानैः “सखिभिः मरुद्भिः “साकं वृत्रं हन्तुम् “अगच्छः । आगत्य च प्रतिष्ठा प्रतिष्ठानानि शरीराणि “हृद्या हृद्यानि रमणीयानि “जघन्थ हतवानसि । हन्तेस्थलि ‘ उपदेशेऽत्वतः' इतीट्प्रतिषेधः ॥
 
 
Line १२६ ⟶ १४०:
 
त्वम् । चकर्थ । मनवे । स्योनान् । पथः । देवऽत्रा । अञ्जसाऽइव । यानान् ॥७
 
हे इन्द्र “त्वं “नमुचिम् एतत्संज्ञकमसुरं “जघन्थ हतवानसि। कीदृशम् । “मखस्युम् ऋषेर्यज्ञं विधातुमिच्छन्तं यद्वा त्वदीयं धनमिच्छन्तम्। किं कुर्वन् । "दासम् उपक्षपयितारं नमुचिमसुरम् “ऋषये मनवे “विमायं विगतमायं “कृण्वानः कुर्वन्। “किंच त्वं “देवत्रा देवेषु मध्ये “मनवे ऋषये सामान्येन मनुष्याय वा "पथः मार्गान् “स्योनान् “चकर्थ कृतवानसि । अथवा “देवत्रा देवेषु मध्ये गन्तव्यान् मार्गानिति वा संबन्धः। स्योनांश्चकर्थेत्युक्तमेव विवृणोति । अञ्जसेव “यानान् इति । इवेत्येवकारार्थे । अञ्जसैवाकुटिलेनैव यानान् गन्तॄन् मार्गानकरोः अथवा मार्गेणाकुटिलेनैव गन्तॄंश्चकर्थं । यथा लोकेस्रुघ्नं गतो मार्गः काञ्चीं गतो मार्ग इति मार्गस्य गन्तृत्वोपचारः तद्वदत्रापि यातृत्वं द्रष्टव्यम् ॥
 
 
Line १३९ ⟶ १५५:
 
अनु । त्वा । देवाः । शवसा । मदन्ति । उपरिऽबुध्नान् । वनिनः । चकर्थ ॥८
 
हे इन्द्र “त्वमेतानि “नाम नामानि नामकान्युदकानि “वि “पप्रिषे विपूरयसि । हे “इन्द्र “ईशानः सर्वस्येश्वरस्त्वं “गभस्तौ हस्ते “दधिषे धारयसि वज्रं धनं वा । किंच “त्वा त्वां “शवसा बलेनोपेतं “देवाः सर्वे “अनु “मदन्ति अनुष्टुवन्ति । स त्वं “वनिनः उदकवतो मेघान् रश्मीन्वा “उपरिबुध्नान् उपरिमूलान् अधोमुखान् “चकर्थ कृतवानसि ॥
 
 
Line १५२ ⟶ १७०:
 
पृथिव्याम् । अतिऽसितम् । यत् । ऊधः । पयः । गोषु । अदधाः । ओषधीषु ॥९
 
ग१.२-अस्येंद्रस्य चक्रमायुधं यदप्सु अंतरिक्षे निषण्णं उतो अपि च तदायुधमस्मा इंद्राय मधु चच्छद्यात् वशं नयति । यत् पृथिव्यामतिषितं निमित्तं ऊधः ऊधसो मेघात् तदुदकं पयः गोष्वोषधीषु चादधाः स्थापितवानसि; ग४- ---- पृथिव्यामतिषितं विमुक्तं यदूधः उदरमस्ति तत् त्वया गोष्वोषधीषु चादधा इति; त१.२-मु-परामासित्वे हननार्थं उतो चित् अपि वा अस्मा इंद्राय मध्वित् ( मध्वितत्-मु ) उदकमपि चच्छद्यात् वरान् प्रति ( ‘वरान्प्रति' नास्ति-मु ) पृथिव्यामतिषितं विमुक्तं यदुधर्मस्ति ( यदधर्मस्ति-मु ) उदकमस्ति ननापो गोष्ठादिषु वादधा इति; त७-हे इंद्र अस्य सूर्यरूपस्य तव यत् चक्रं रश्मिवृंदं अप्सूदकेषु आ निषत्तं आ समंतात् निषण्णं भवति रात्रौ उतो अनंतरं तत् रश्मिवृंदं अस्मै तुभ्यं मधु जलं चच्छद्यात् समर्पयति किंच यच्चक्रं ऊधः रात्रिरूपं सत् पृथिव्यां अतिषितं अतिशयेन बद्धं भवति तेन चक्रेण गोषु ओषधीषु च पयः क्षीरं अंबु च अदधाः धृतवानसि । अयमर्थः कृष्णं नियानं ( ऋ. सं. १. १६४. ४७ ) इति मंत्रे व्यक्तीकृतः । इदिति पूरणः ।। सामवेदसंहितासायणभाष्ये ( १. ४.१.४.९ ) अस्य मन्त्रस्य भाष्यमुपलभ्यते तद्यथा-अस्येन्द्रस्य चक्रमायुधमप्स्वन्तरिक्ष आ सर्वतो निषत्तं निषण्णमासीन्मेघहननार्थमुतो तदपि चास्मा इन्द्राय मध्विदुदकमपि चच्छद्यात् वशं नयति । पृथिव्यामतिषितं विमुक्तं यदूधरुदकमस्ति तत्पयो गोष्वोषधीषु चादधाः आदधाति ।।
 
 
Line १६५ ⟶ १८५:
 
मन्योः । इयाय । हर्म्येषु । तस्थौ । यतः । प्रऽजज्ञे । इन्द्रः । अस्य । वेद ॥१०
 
१०. इन्द्रसामर्थ्यं दृष्ट्वा केचिदेनम् अश्वात्“अश्वात् आदित्यात् इयाय“इयाय उदितवान् इति वदन्ति“वदन्ति यत्,“यत यद्यपि उत“उत तथापि अहम् एनं“एनं ओजसः“ओजसः बलात् जातं“जातं मन्ये“मन्ये जानामि । अस्य तेजस्वित्वं दृष्ट्वा सूर्यादुत्पन्न इति तेषां मतिः । अहं त्वोजःपदार्थाज्जात इति मन्ये यतोऽयं वृत्रादीन् हतवानिति । अथवायं मन्योः“मन्योः क्रोधात् इयाय“इयाय उदितवान् । अतः हर्म्येषु“हर्म्येषु शत्रुसंबन्धिषु युद्धेषु हर्म्येष्वेव वा तस्थौ“तस्थौ तिष्ठति । यतः“यतः अयं प्रजज्ञे“प्रजज्ञे उत्पन्न इति इन्द्रः“इन्द्रः एव अस्य“अस्य । स्वस्येत्यर्थः । सामर्थ्यं वेद“वेद जानाति न ह्यन्यो ज्ञातुमीष्टे ।।
 
 
Line १७८ ⟶ २००:
 
अप । ध्वान्तम् । ऊर्णुहि । पूर्धि । चक्षुः । मुमुग्धि । अस्मान् । निधयाऽइव । बद्धान् ॥११
 
“वयः गन्तारः “सुपर्णाः सुपतना आदित्यरश्मयः “इन्द्रम् . "उप “सेदुः उपसन्ना अभवन् । कीदृशाः । “प्रियमेधाः प्रिययज्ञाः “ऋषयः दृष्टारः “नाधमानाः प्रज्ञां याचमानाः । याचनप्रकार उच्यते। हे इन्द्र “ध्वान्तम् अन्धकारम् “अप “ऊर्णुहि परिहर पूर्धि पूरय च “चक्षुः तेजः । “मुमुग्धि मोचय च “अस्मान् “निधयेव “बद्धान्। निधा पाश्यो भवति । पाश्या पाशसमूहः । पाशसमूहेन बद्धान् यथा मुञ्चन्ति तद्वत् । अत्र वयो वेर्बहुवचनम्' (निरु. ४. ३) इत्यादि निरुक्तं द्रष्टव्यम् ॥ ॥ ४ ॥
 
}}
 
 
== ==
{{भाष्यम्|सायणभाष्यम्॥
१०. इन्द्रसामर्थ्यं दृष्ट्वा केचिदेनम् अश्वात् आदित्यात् इयाय उदितवान् इति वदन्ति यत्, यद्यपि उत तथापि अहम् एनं ओजसः बलात् जातं मन्ये जानामि । अस्य तेजस्वित्वं दृष्ट्वा सूर्यादुत्पन्न इति तेषां मतिः । अहं त्वोजःपदार्थाज्जात इति मन्ये यतोऽयं वृत्रादीन् हतवानिति । अथवायं मन्योः क्रोधात् इयाय उदितवान् । अतः हर्म्येषु शत्रुसंबन्धिषु युद्धेषु हर्म्येष्वेव वा तस्थौ तिष्ठति । यतः अयं प्रजज्ञे उत्पन्न इति इन्द्रः एव अस्य । स्वस्येत्यर्थः । सामर्थ्यं वेद जानाति न ह्यन्यो ज्ञातुमीष्टे ।।
 
}}
 
== ==
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.७३" इत्यस्माद् प्रतिप्राप्तम्