"ऋग्वेदः सूक्तं १०.१११" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = इन्द्रः । त्रिष्टुप्।
}}
<poem><span style="font-size: 14pt; line-height:200%">मनीषिणः प्र भरध्वं मनीषां यथायथा मतयः सन्ति नृणाम् ।
 
 
<div class="verse">
<pre>
मनीषिणः प्र भरध्वं मनीषां यथायथा मतयः सन्ति नृणाम् ।
इन्द्रं सत्यैरेरयामा कृतेभिः स हि वीरो गिर्वणस्युर्विदानः ॥१॥
ऋतस्य हि सदसो धीतिरद्यौत्सं गार्ष्टेयो वृषभो गोभिरानट् ।
Line ३३ ⟶ २९:
अस्तमा ते पार्थिवा वसून्यस्मे जग्मुः सूनृता इन्द्र पूर्वीः ॥१०॥
 
</prespan></poem>
 
</div>
 
{{सायणभाष्यम्|
‘ मनीषिणः' इति दशर्चं द्वादशं सूक्तं वैरूपस्याष्ट्रादंष्ट्रस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रम्यते-- ‘ मनीषिणो दशाष्ट्रादंष्ट्रः' इति । गतो विनियोगः ॥
 
 
मनी॑षिण॒ः प्र भ॑रध्वं मनी॒षां यथा॑यथा म॒तय॒ः सन्ति॑ नृ॒णाम् ।
 
इन्द्रं॑ स॒त्यैरेर॑यामा कृ॒तेभि॒ः स हि वी॒रो गि॑र्वण॒स्युर्विदा॑नः ॥१
 
मनी॑षिणः । प्र । भ॒र॒ध्व॒म् । म॒नी॒षाम् । यथा॑ऽयथा । म॒तयः॑ । सन्ति॑ । नृ॒णाम् ।
 
इन्द्र॑म् । स॒त्यैः । आ । ई॒र॒या॒म॒ । कृ॒तेभिः॑ । सः । हि । वी॒रः । गि॒र्व॒ण॒स्युः । विदा॑नः ॥१
 
मनीषिणः । प्र । भरध्वम् । मनीषाम् । यथाऽयथा । मतयः । सन्ति । नृणाम् ।
 
इन्द्रम् । सत्यैः । आ । ईरयाम । कृतेभिः । सः । हि । वीरः । गिर्वणस्युः । विदानः ॥१
 
हे “मनीषिणः स्तोतारः “मनीषां मनस ईशित्रीं स्तुतिमिन्द्राय “प्र “भरध्वं कुरुत। “नृणां कर्मनेतॄणां युष्माकं “यथायथा “मतयः “सन्ति भवन्ति तथा बुद्ध्यनुसारेण स्तुतिं कुरुध्वम् । वयं च “कृतेभिः कृतैः “सत्यैः यथार्थभूतैः स्तोत्रैः “इन्द्रम् “एरयाम यज्ञं प्रत्यागमयाम ॥ ‘ ईर गतौ । ण्यन्तस्य लोट् ॥ “हि यतः “विदानः जानानः समर्थः स इन्द्रः “गिर्वणस्युः । गीर्भिर्वनन्ति संभजन्त इति गीर्वणसः स्तोतारः ॥ वनतेरसुनि रूपम् । उपपदस्य दीर्घाभावश्छान्दसः । तदन्तात् क्यप् । ‘क्याच्छन्दसि' इत्युप्रत्ययः ॥ स्तोतॄन् कामयमानः खलु । अतस्तमभिष्टुत ।।
 
 
ऋ॒तस्य॒ हि सद॑सो धी॒तिरद्यौ॒त्सं गा॑र्ष्टे॒यो वृ॑ष॒भो गोभि॑रानट् ।
 
उद॑तिष्ठत्तवि॒षेणा॒ रवे॑ण म॒हान्ति॑ चि॒त्सं वि॑व्याचा॒ रजां॑सि ॥२
 
ऋ॒तस्य॑ । हि । सद॑सः । धी॒तिः । अद्यौ॑त् । सम् । गा॒र्ष्टे॒यः । वृ॒ष॒भः । गोभिः॑ । आ॒न॒ट् ।
 
उत् । अ॒ति॒ष्ठ॒त् । त॒वि॒षेण॑ । रवे॑ण । म॒हान्ति॑ । चि॒त् । सम् । वि॒व्या॒च॒ । रजां॑सि ॥२
 
ऋतस्य । हि । सदसः । धीतिः । अद्यौत् । सम् । गार्ष्टेयः । वृषभः । गोभिः । आनट् ।
 
उत् । अतिष्ठत् । तविषेण । रवेण । महान्ति । चित् । सम् । विव्याच । रजांसि ॥२
 
“ऋतस्य उदकस्य “सदसः स्थानस्यान्तरिक्षस्य “धीतिः धारकः स इन्द्रः “अद्यौत् द्योतते प्रकाशते । “हि प्रसिद्धौ ॥ ‘ द्युत दीप्तौ । लुङि • द्युद्भ्यो लुङि' इति परस्मैपदम्। च्लेर्लुक् छान्दसः । हलन्तलक्षणा वृद्धिरपि ॥ यद्वा । अद्यौत् । तादृश इन्द्रो यज्ञमभिगच्छति ॥ ‘ द्यु अभिगमे । आदादिकः । लङ् । ‘ उतो वृद्धिर्लुकि हलि ' इति वृद्धिः ॥ “गार्ष्टेयः । सकृत्प्रसूता धेनुर्गृष्टिः । तस्या अपत्यं “वृषभो “गोभिः “सम् “आनट् संव्याप्नोति । तथैषोऽपि सर्वं स्वमहिम्ना व्याप्नोति । तथा. “तविषेण । महन्नामैतत् । महता “रवेण शब्देन “उदतिष्ठत् । उच्छ्रित उन्नतोऽभवत्। अत एव “महान्ति “चित् महान्त्यपि "रजांसि उदकानि भुवनानि वा “सं “विव्याच संव्याप्नोति ॥
 
 
इन्द्र॒ः किल॒ श्रुत्या॑ अ॒स्य वे॑द॒ स हि जि॒ष्णुः प॑थि॒कृत्सूर्या॑य ।
 
आन्मेनां॑ कृ॒ण्वन्नच्यु॑तो॒ भुव॒द्गोः पति॑र्दि॒वः स॑न॒जा अप्र॑तीतः ॥३
 
इन्द्रः॑ । किल॑ । श्रुत्यै॑ । अ॒स्य । वे॒द॒ । सः । हि । जि॒ष्णुः । प॒थि॒ऽकृत् । सूर्या॑य ।
 
आत् । मेना॑म् । कृ॒ण्वन् । अच्यु॑तः । भुव॑त् । गोः । पतिः॑ । दि॒वः । स॒न॒ऽजाः । अप्र॑तिऽइतः ॥३
 
इन्द्रः । किल । श्रुत्यै । अस्य । वेद । सः । हि । जिष्णुः । पथिऽकृत् । सूर्याय ।
 
आत् । मेनाम् । कृण्वन् । अच्युतः । भुवत् । गोः । पतिः । दिवः । सनऽजाः । अप्रतिऽइतः ॥३
 
“अस्य अस्मदीयस्य स्तोत्रस्य “श्रुत्यै श्रवणाय “इन्द्रः “किल इन्द्र एव “वेद जानाति । “स “हि स एव “जिष्णुः शत्रूणां जयशीलः “सूर्याय “पथिकृत् मार्गकर्ता भवति । किंच “अच्युतः शत्रुभिरगन्तव्यो वृषणश्वस्य “मेनाम् आत्मानं “कृण्वन् कुर्वन् इन्द्रः “आत् । आगच्छत्यस्मदीयं यज्ञम् । ‘ मेनाभवो वृषणश्वस्य सुक्रतो' (ऋ. सं. १, ५१. १३) इति मन्त्रान्तरम् ॥ ‘ अस गतिदीप्त्यादानेषु' । भौवादिकः । - - - ॥ “दिवः द्युलोकस्य च “पतिः “भुवत् अभूत् ॥ भवतेर्लेट् । वाक्यभेदादनिघातः ।।
 
 
इन्द्रो॑ म॒ह्ना म॑ह॒तो अ॑र्ण॒वस्य॑ व्र॒तामि॑ना॒दङ्गि॑रोभिर्गृणा॒नः ।
 
पु॒रूणि॑ चि॒न्नि त॑ताना॒ रजां॑सि दा॒धार॒ यो ध॒रुणं॑ स॒त्यता॑ता ॥४
 
इन्द्रः॑ । म॒ह्ना । म॒ह॒तः । अ॒र्ण॒वस्य॑ । व्र॒ता । अ॒मि॒ना॒त् । अङ्गि॑रःऽभिः । गृ॒णा॒नः ।
 
पु॒रूणि॑ । चि॒त् । नि । त॒ता॒न॒ । रजां॑सि । दा॒धार॑ । यः । ध॒रुण॑म् । स॒त्यऽता॑ता ॥४
 
इन्द्रः । मह्ना । महतः । अर्णवस्य । व्रता । अमिनात् । अङ्गिरःऽभिः । गृणानः ।
 
पुरूणि । चित् । नि । ततान । रजांसि । दाधार । यः । धरुणम् । सत्यऽताता ॥४
 
“इन्द्रः “अङ्गिरोभिः ऋषिभिः “गृणानः स्तूयमानः सन् “महतो “अर्णवस्य ॥ ‘ अर्णसः सलोपश्च' (का. ५. २. १०९. ३) इति वप्रत्ययः ॥ उदकवतो मेघस्य “व्रता व्रतानि कर्माणि “मह्ना स्वमहिम्नैव “अमिनात् अहिंसीत् ॥ ‘ मीङ् हिंसायाम्। लङि ' मीनातेर्निगमे ' इति ह्रस्वः ॥ ततः “पुरूणि “चित् बहून्येव “रजांसि उदकानि “नि “ततान नीचीनान्यकरोत् । “यः इन्द्रः “सत्यताता सत्यैर्देवैस्तते । यद्वा । सत्यशब्दादपि स्वार्थिकस्तातिल् द्रष्टव्यः । सत्ये । द्युलोके “धरुणं धारकं बलं “दाधार अधारयत्॥
 
 
इन्द्रो॑ दि॒वः प्र॑ति॒मानं॑ पृथि॒व्या विश्वा॑ वेद॒ सव॑ना॒ हन्ति॒ शुष्ण॑म् ।
 
म॒हीं चि॒द्द्यामात॑नो॒त्सूर्ये॑ण चा॒स्कम्भ॑ चि॒त्कम्भ॑नेन॒ स्कभी॑यान् ॥५
 
इन्द्रः॑ । दि॒वः । प्र॒ति॒ऽमान॑म् । पृ॒थि॒व्याः । विश्वा॑ । वे॒द॒ । सव॑ना । हन्ति॑ । शुष्ण॑म् ।
 
म॒हीम् । चि॒त् । द्याम् । आ । अ॒त॒नो॒त् । सूर्ये॑ण । चा॒स्कम्भ॑ । चि॒त् । स्कम्भ॑नेन । स्कभी॑यान् ॥५
 
इन्द्रः । दिवः । प्रतिऽमानम् । पृथिव्याः । विश्वा । वेद । सवना । हन्ति । शुष्णम् ।
 
महीम् । चित् । द्याम् । आ । अतनोत् । सूर्येण । चास्कम्भ । चित् । स्कम्भनेन । स्कभीयान् ॥५
 
“दिवः द्युलोकस्य “पृथिव्याः च “प्रतिमानं महत्त्वेन प्रतिनिधिः “इन्द्रः “विश्वा सर्वाणि “सवना सवनानि “वेद सोमपानार्थं जानाति । “शुष्णं सर्वस्य शोषकमेतन्नामानमसुरं “हन्ति । वाक्यभेदादनिघातः । अपि च “महीं “चित् महतीमपि “द्यां “सूर्येण “अतनोत् । सर्वत्र प्रकाशयुक्तामकरोत् । “स्कभीयान् स्कम्भथितॄणां मध्ये श्रेष्ठः सः “स्कम्भनेन “चित् निरोधनसाधनेन सामर्थ्येनैव “चास्कम्भ । द्युलोकमवरुद्धमकरोत् ॥ स्कम्भिः सौत्रो धातुः । लिटि “ तुजादीनाम् । इति दीर्घः । चित्कम्भनेन इत्यत्र संहितायां सलोपः। उत्पूर्वस्य स्तम्भेः ‘उदः स्थास्तम्भोः' (पा.सू. ८. ४. ६१ ) इति सलोप उक्तः । चित्पूर्वस्य स्कम्भेरपि भवति छन्दोविषयत्वात् ॥ ॥ १० ॥
 
 
वज्रे॑ण॒ हि वृ॑त्र॒हा वृ॒त्रमस्त॒रदे॑वस्य॒ शूशु॑वानस्य मा॒याः ।
 
वि धृ॑ष्णो॒ अत्र॑ धृष॒ता ज॑घ॒न्थाथा॑भवो मघवन्बा॒ह्वो॑जाः ॥६
 
वज्रे॑ण । हि । वृ॒त्र॒ऽहा । वृ॒त्रम् । अस्तः॑ । अदे॑वस्य । शूशु॑वानस्य । मा॒याः ।
 
वि । धृ॒ष्णो॒ इति॑ । अत्र॑ । धृ॒ष॒ता । ज॒घ॒न्थ॒ । अथ॑ । अ॒भ॒वः॒ । म॒घ॒ऽव॒न् । बा॒हुऽओ॑जाः ॥६
 
वज्रेण । हि । वृत्रऽहा । वृत्रम् । अस्तः । अदेवस्य । शूशुवानस्य । मायाः ।
 
वि । धृष्णो इति । अत्र । धृषता । जघन्थ । अथ । अभवः । मघऽवन् । बाहुऽओजाः ॥६
 
हे इन्द्र “वृत्रहा वृत्रस्य हन्ता “वज्रेण “वृत्रम् “अस्तः अस्तृणाः । अवधीः ॥ स्तृणातेर्लङि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । सिपि गुणः । हियोगादनिघातः ॥ अनन्तरं हे “धृष्णो धर्षणशील त्वम् “अदेवस्य अद्योतमानस्य “शूशुवानस्य स्वबलेन वर्धमानस्य तस्य “मायाः “धृषता समर्थेन वज्रेण “अत्र अस्मिन् काले एव “वि “जघन्थ विनाशितवानसि ॥ हन्तेर्लिटि थलि ‘ अभ्यासाच्च' इति कुत्वम् ॥ “अथ हे मघवन् धनवन्निन्द्र “बाह्वोजाः भुजबलवान् “अभवः ॥
 
 
सच॑न्त॒ यदु॒षस॒ः सूर्ये॑ण चि॒त्राम॑स्य के॒तवो॒ राम॑विन्दन् ।
 
आ यन्नक्ष॑त्रं॒ ददृ॑शे दि॒वो न पुन॑र्य॒तो नकि॑र॒द्धा नु वे॑द ॥७
 
सच॑न्त । यत् । उ॒षसः॑ । सूर्ये॑ण । चि॒त्राम् । अ॒स्य॒ । के॒तवः॑ । राम् । अ॒वि॒न्द॒न् ।
 
आ । यत् । नक्ष॑त्रम् । ददृ॑शे । दि॒वः । न । पुनः॑ । य॒तः । नकिः॑ । अ॒द्धा । नु । वे॒द॒ ॥७
 
सचन्त । यत् । उषसः । सूर्येण । चित्राम् । अस्य । केतवः । राम् । अविन्दन् ।
 
आ । यत् । नक्षत्रम् । ददृशे । दिवः । न । पुनः । यतः । नकिः । अद्धा । नु । वेद ॥७
 
“यत् यदा “उषसः उषःकालाः “सूर्येण सूर्यात्मकेनेन्द्रेण “सचन्त संगच्छन्ते । ‘ सच समवाये । भौवादिकः । तदानीम् “अस्य स्वभूताः “केतवः सर्वस्य प्रज्ञापका रश्मयः “चित्रां नानावर्णां “रां रायं श्रियम् “अविन्दन् अलभन्त । “पुनः उदयानन्तरं “यत् यदा “दिवः “नक्षत्रं “न “ददृशे न दृश्यते ॥ दृशेः कर्मणि लिट् । यद्योगादनिघातः ॥ तदानीं “यतः ॥ इणः शत्रन्तस्य शसि शतुरनुमो नद्यजादी' इति विभक्तेरुदात्तत्वम् ॥ सर्वत्र गच्छतोऽस्य रश्मीन् “नकिः न कश्चित् “नु "वेद जानाति । एतत् “अद्धा सत्यमेव ॥
 
 
दू॒रं किल॑ प्रथ॒मा ज॑ग्मुरासा॒मिन्द्र॑स्य॒ याः प्र॑स॒वे स॒स्रुराप॑ः ।
 
क्व॑ स्वि॒दग्रं॒ क्व॑ बु॒ध्न आ॑सा॒मापो॒ मध्यं॒ क्व॑ वो नू॒नमन्त॑ः ॥८
 
दू॒रम् । किल॑ । प्र॒थ॒माः । ज॒ग्मुः॒ । आ॒सा॒म् । इन्द्र॑स्य । याः । प्र॒ऽस॒वे । स॒स्रुः । आपः॑ ।
 
क्व॑ । स्वि॒त् । अग्र॑म् । क्व॑ । बु॒ध्नः । आ॒सा॒म् । आपः॑ । मध्य॑म् । क्व॑ । वः॒ । नू॒नम् । अन्तः॑ ॥८
 
दूरम् । किल । प्रथमाः । जग्मुः । आसाम् । इन्द्रस्य । याः । प्रऽसवे । सस्रुः । आपः ।
 
क्व । स्वित् । अग्रम् । क्व । बुध्नः । आसाम् । आपः । मध्यम् । क्व । वः । नूनम् । अन्तः ॥८
 
“आसाम् अपां मध्ये “प्रथमाः प्रथमगामिन्यस्ता आपः “दूरं “किल “जग्मुः। दूरमेव गताः । "याः “आपः “इन्द्रस्य “प्रसवे प्रेरणे ॥ ‘षू प्रेरणे'। जवसवौ चेति वक्तव्यम्' ( पा. सू. ३. ३. ५६. ४ ) इत्यबपवादेऽच् । ‘ थाथघञ्क्ताजबित्रकाणाम्' इत्युत्तरपदान्तोदात्तत्वम् ॥ तस्य आज्ञायां “सस्रुः सरन्ति । गच्छन्ति खलु। अथ प्रत्यक्षकृतः । हे “आपः “आसां युष्माकम् “अग्रं “क्व “स्वित् । कुत्र वर्तते । “बुध्नः मूलं च “क्व । तथा “वः युष्माकं “मध्यं च “क्व “नूनम् इदानीं युष्माकम् “अन्तः अवसानं च क्व । सर्वगतत्वादनिर्ज्ञायमानगमना आसन्नित्यर्थः ॥ क्व । किंशब्दात् सप्तम्यर्थे ' किमोऽत् ' इत्यत्प्रत्ययः । क्वाति' इति क्वादेशः । तित्स्वरितः । अन्तः । अमेर्गत्यर्थस्य ‘ असिहसि°' इत्यादिना तन्प्रत्ययः ॥
 
 
सृ॒जः सिन्धूँ॒रहि॑ना जग्रसा॒नाँ आदिदे॒ताः प्र वि॑विज्रे ज॒वेन॑ ।
 
मुमु॑क्षमाणा उ॒त या मु॑मु॒च्रेऽधेदे॒ता न र॑मन्ते॒ निति॑क्ताः ॥९
 
सृ॒जः । सिन्धू॑न् । अहि॑ना । ज॒ग्र॒सा॒नान् । आत् । इत् । ए॒ताः । प्र । वि॒वि॒ज्रे॒ । ज॒वेन॑ ।
 
मुमु॑क्षमाणाः । उ॒त । याः । मु॒मु॒च्रे । अध॑ । इत् । ए॒ताः । न । र॒म॒न्ते॒ । निऽति॑क्ताः ॥९
 
सृजः । सिन्धून् । अहिना । जग्रसानान् । आत् । इत् । एताः । प्र । विविज्रे । जवेन ।
 
मुमुक्षमाणाः । उत । याः । मुमुच्रे । अध । इत् । एताः । न । रमन्ते । निऽतिक्ताः ॥९
 
हे इन्द्र “अहिना अहन्तव्येन वृत्रेण मेघेन वा “जग्रसानान् ॥ ‘ ग्रस अदने'। अनुदात्तेत् । छन्दसि लिटः कानच् ॥ ग्रस्ताः “सिन्धून् स्यन्दमाना अपः “सृजः असृजः निरगमयः । “आदित् । इदवधारणे । अनन्तरमेव “एताः आपः “जवेन वेगेन “प्र “विविज्रे । सर्वत्र अत्यन्तं चलिता बभूवुः ॥ ‘ ओविजी भयचलनयोः । अनुदात्तेत् । लिटि ‘इरयो रे' (पा. सू. ६.४.७६ ) इतीरयो रेआदेशः ॥ “उत अपि च "मुमुक्षमाणाः इन्द्रेण मोचयितुमिष्यमाणाः “याः आपः “मुमुच्रे इन्द्रेण मोचिता अभूवन् । मुचेः कर्मणि लिट् ॥ “अधेत् अनन्तरमेव “नितिक्ताः नितरां शुद्धा आपः “न “रमन्ते । एकत्र न क्रीडन्ति । किंतु सर्वत्र गमनशीला इत्यर्थः ॥
 
 
स॒ध्रीची॒ः सिन्धु॑मुश॒तीरि॑वायन्स॒नाज्जा॒र आ॑रि॒तः पू॒र्भिदा॑साम् ।
 
अस्त॒मा ते॒ पार्थि॑वा॒ वसू॑न्य॒स्मे ज॑ग्मुः सू॒नृता॑ इन्द्र पू॒र्वीः ॥१०
 
स॒ध्रीचीः॑ । सिन्धु॑म् । उ॒श॒तीःऽइ॑व । आ॒य॒न् । स॒नात् । जा॒रः । आ॒रि॒तः । पूः॒ऽभित् । आ॒सा॒म् ।
 
अस्त॑म् । आ । ते॒ । पार्थि॑वा । वसू॑नि । अ॒स्मे इति॑ । ज॒ग्मुः॒ । सू॒नृताः॑ । इ॒न्द्र॒ । पू॒र्वीः ॥१०
 
सध्रीचीः । सिन्धुम् । उशतीःऽइव । आयन् । सनात् । जारः । आरितः । पूःऽभित् । आसाम् ।
 
अस्तम् । आ । ते । पार्थिवा । वसूनि । अस्मे इति । जग्मुः । सूनृताः । इन्द्र । पूर्वीः ॥१०
 
“सध्रीचीः ॥ ‘ सहस्य सध्रिः' इति सध्रीत्यादेशः । ‘ अञ्चतेश्चोपसंख्यानम्' इति ङीप् । अलोपदीर्घौ। ' वा छन्दसि' इति पूर्वसवर्णदीर्घः ॥ सहाञ्चनाः सहगमना आपः “सिन्धुं समुद्रं भर्तारम् “आयन् आगच्छन् । तत्र दृष्टान्तः । “उशतीरिव यथा कामयमानाः स्त्रियः स्वपतिमभिगच्छन्ति तद्वत् । “जारः शत्रूणां जारयिता “पूर्भित् इन्द्रः “सनात् चिरादेव “आसाम् अपाम् “आरितः प्रेरकत्वेन स्वामी भवति । हे “इन्द्र “अस्मे अस्माकं स्वभूतानि “पार्थिवा पार्थिवानि “वसूनि धनवत्प्रीणयितॄणि हवींषि “पूर्वीः बह्व्यः “सूनृताः वाचः स्तुतिलक्षणाश्च “ते त्वदीयम् “अस्तं गृहम् “आ “जग्मुः आगच्छन्तु । यद्वा अस्मदीयाः स्तुतयस्ते गृहं गच्छन्तु । अस्माकं गृहं त्वदीयानि पार्थिवानि धनान्यभिगच्छन्तु ॥ गमेश्छन्दसि सार्वकालिको लिट् ॥ ॥ ११ ॥
 
}}
{{ऋग्वेदः मण्डल १०}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१११" इत्यस्माद् प्रतिप्राप्तम्