"ऋग्वेदः सूक्तं १०.११६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ८:
| notes = दे. इन्द्रः । त्रिष्टुप्
}}
<poem><span style="font-size: 14pt; line-height:200%">
 
 
<div class="verse">
<pre>
पिबा सोमं महत इन्द्रियाय पिबा वृत्राय हन्तवे शविष्ठ ।
पिब राये शवसे हूयमानः पिब मध्वस्तृपदिन्द्रा वृषस्व ॥१॥
Line ३१ ⟶ २८:
अया इव परि चरन्ति देवा ये अस्मभ्यं धनदा उद्भिदश्च ॥९॥
 
</prespan></poem>
 
</div>
 
{{सायणभाष्यम्|
'पिब' इति नवर्चं चतुर्थं सूक्तं त्रैष्टुभमैन्द्रम् । स्थूरनाम्नः पुत्रोऽग्नियुताख्यं ऋषिरग्नियूपाख्यो वा । तथा चानुक्रम्यते- पिब स्थौरोऽग्नियुतोऽग्नियूपो वा' इति । गतो विनियोगः ।।
 
 
पिबा॒ सोमं॑ मह॒त इ॑न्द्रि॒याय॒ पिबा॑ वृ॒त्राय॒ हन्त॑वे शविष्ठ ।
 
पिब॑ रा॒ये शव॑से हू॒यमा॑न॒ः पिब॒ मध्व॑स्तृ॒पदि॒न्द्रा वृ॑षस्व ॥१
 
पिब॑ । सोम॑म् । म॒ह॒ते । इ॒न्द्रि॒याय॑ । पिब॑ । वृ॒त्राय॑ । हन्त॑वे । श॒वि॒ष्ठ॒ ।
 
पिब॑ । रा॒ये । शव॑से । हू॒यमा॑नः । पिब॑ । मध्वः॑ । तृ॒पत् । इ॒न्द्र॒ । आ । वृ॒ष॒स्व॒ ॥१
 
पिब । सोमम् । महते । इन्द्रियाय । पिब । वृत्राय । हन्तवे । शविष्ठ ।
 
पिब । राये । शवसे । हूयमानः । पिब । मध्वः । तृपत् । इन्द्र । आ । वृषस्व ॥१
 
हे इन्द्र त्वं “महते प्रभूताय “इन्द्रियाय इन्द्रस्यात्मनो जुष्टाय वीर्याय “सोमम् अस्माभिर्दीयमानं “पिब ।। ‘ इन्द्रियमिन्द्रलिङ्ग°' (पा. सू. ५, २. ९३ ) इत्यादिनेन्द्रियशब्दो यजन्तत्वेन निपातितः ॥ हे “शविष्ठ अतिशयेन प्रवृद्ध “वृत्राय “हन्तवे वृत्रं हन्तुं सोमं “पिब ॥ ‘ क्रियाग्रहणं कर्तव्यम्' इति वृत्रस्य संप्रदानत्वम् । तथा “हूयमानः अस्माभिराहूयमानस्त्वं “राये धनाय ।। 'ऊडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् ।। “शवसे अन्नाय । धनान्नयोः प्रदानाय सोमं “पिब । “मध्वः मदकरान् सर्वान् सोमान् “पिब ॥ ‘ वा छन्दसि ' इति पूर्वसवर्णदीर्घभावः । अनन्तरं हे “इन्द्र “तृपत् तृप्तो भवन् “आ “वृषस्व । अस्मदभिलषितान्यासिञ्च । ददस्व ॥ तृपत्। ‘ तृम्प तृप्तौ' । तौदादिकः । ‘ अनित्यमागमशासनम्' इति नुमभावः ।।
 
 
अ॒स्य पि॑ब क्षु॒मत॒ः प्रस्थि॑त॒स्येन्द्र॒ सोम॑स्य॒ वर॒मा सु॒तस्य॑ ।
 
स्व॒स्ति॒दा मन॑सा मादयस्वार्वाची॒नो रे॒वते॒ सौभ॑गाय ॥२
 
अ॒स्य । पि॒ब॒ । क्षु॒ऽमतः॑ । प्रऽस्थि॑तस्य । इन्द्र॑ । सोम॑स्य । वर॑म् । आ । सु॒तस्य॑ ।
 
स्व॒स्ति॒ऽदाः । मन॑सा । मा॒द॒य॒स्व॒ । अ॒र्वा॒ची॒नः । रे॒वते॑ । सौभ॑गाय ॥२
 
अस्य । पिब । क्षुऽमतः । प्रऽस्थितस्य । इन्द्र । सोमस्य । वरम् । आ । सुतस्य ।
 
स्वस्तिऽदाः । मनसा । मादयस्व । अर्वाचीनः । रेवते । सौभगाय ॥२
 
हे “इन्द्र “क्षुमतः स्तुतियुक्तस्य यद्वा हवीरूपान्नवतः “प्रस्थितस्य हविर्धानादुत्तरवेदिं प्रति प्रस्थापितस्य “सुतस्य अभिषुतस्य “अस्य “सोमस्य “वरं वरणीयं त्वदीयं भागम् “आ आभिमुख्येन “पिब ।। प्रस्थितस्य । तिष्ठतेः कर्मणि निष्ठा । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । ततः “स्वस्तिदाः कल्याणस्य दाता त्वं “मनसा अन्तःकरणेन “मादयस्व हृष्टो भव । यद्वा । अस्मानपि हृष्टान् कुरु। तदेवोच्यते । “रेवते धनवते सौभगाय सौभाग्याय तदस्मभ्यं दातुम् अर्वाचीनः अभिमुखाञ्चनो भव ॥ ‘ विभाषाञ्चेरदिक्स्त्रियाम्' इति खः । रयिशब्दात मतुपः ‘ छन्दसीरः । इति वत्वम् । ‘ रयेर्मतौ बहुलम्' इति संप्रसारणम् । पूर्वरूपत्वे गुणः । सौभगाय । उद्गात्रादिषु सुभगमन्त्र इति पठ्यते । तस्योत्तरपदस्य ‘ हृद्भग° ' इति वृद्धिर्नेष्यते सर्वविधीनां छन्दसि विकल्पितत्वात् । ञित्स्वरेणाद्युदात्तत्वम् ।।
 
 
म॒मत्तु॑ त्वा दि॒व्यः सोम॑ इन्द्र म॒मत्तु॒ यः सू॒यते॒ पार्थि॑वेषु ।
 
म॒मत्तु॒ येन॒ वरि॑वश्च॒कर्थ॑ म॒मत्तु॒ येन॑ निरि॒णासि॒ शत्रू॑न् ॥३
 
म॒मत्तु॑ । त्वा॒ । दि॒व्यः । सोमः॑ । इ॒न्द्र॒ । म॒मत्तु॑ । यः । सू॒यते॑ । पार्थि॑वेषु ।
 
म॒मत्तु॑ । येन॑ । वरि॑वः । च॒कर्थ॑ । म॒मत्तु॑ । येन॑ । नि॒ऽरि॒णासि॑ । शत्रू॑न् ॥३
 
ममत्तु । त्वा । दिव्यः । सोमः । इन्द्र । ममत्तु । यः । सूयते । पार्थिवेषु ।
 
ममत्तु । येन । वरिवः । चकर्थ । ममत्तु । येन । निऽरिणासि । शत्रून् ॥३
 
हे “इन्द्र “त्वा त्वां “दिव्यः दिवि भवः “सोमः “ममत्तु । आत्मीयकलाप्रदानेन मादयतु । देवा ह्यपरपक्षे सोमस्य कलां पिबन्ति ॥ मदेर्लोटि व्यत्ययेन श्लुः । ‘ भीह्री ' ( पा. सू. ६. १. १९२ ) इत्यादिना पितः पूर्वस्योदात्तत्वम् । तथा “पार्थिवेषु पृथिव्यां भवेषु देवयजनेषु “यः सोमोऽस्माभिः “सूयते अभिषूयते सोऽप्यस्माभिर्दत्तः “ममत्तु त्वां हर्षयतु । “येन सोमेन “वरिवः वरणीयं धनं “चकर्थ कृतवानसि स च “ममत्तु ।। करीतेर्लिट् । यद्योगादनिघाते लित्व्चरः ॥ किंच "येन “शत्रून् “निरिणासि निर्गमयसि सोऽपि “ममत्तु त्वां मादयतु । रिणासि। ‘ री गतिरेषणयोः' । क्र्यादिः । प्वादीनां ह्रस्वत्वम् ॥
 
 
आ द्वि॒बर्हा॑ अमि॒नो या॒त्विन्द्रो॒ वृषा॒ हरि॑भ्यां॒ परि॑षिक्त॒मन्ध॑ः ।
 
गव्या सु॒तस्य॒ प्रभृ॑तस्य॒ मध्व॑ः स॒त्रा खेदा॑मरुश॒हा वृ॑षस्व ॥४
 
आ । द्वि॒ऽबर्हाः॑ । अ॒मि॒नः । या॒तु॒ । इन्द्रः॑ । वृषा॑ । हरि॑ऽभ्याम् । परि॑ऽसिक्तम् । अन्धः॑ ।
 
गवि॑ । आ । सु॒तस्य॑ । प्रऽभृ॑तस्य । मध्वः॑ । स॒त्रा । खेदा॑म् । अ॒रु॒श॒ऽहा । आ । वृ॒ष॒स्व॒ ॥४
 
आ । द्विऽबर्हाः । अमिनः । यातु । इन्द्रः । वृषा । हरिऽभ्याम् । परिऽसिक्तम् । अन्धः ।
 
गवि । आ । सुतस्य । प्रऽभृतस्य । मध्वः । सत्रा । खेदाम् । अरुशऽहा । आ । वृषस्व ॥४
 
“द्विबर्हा: द्वयोर्लोकयोः परिवृढः । यद्वा । द्वाभ्यां स्तुतशस्त्राभ्यां वर्धनीयः ॥ वृहेर्वर्धनार्थस्य कर्तरि कर्मणि वा असुन् । “अमिनः । अमतेर्गत्यर्थादौणादिक इनच् । सर्वत्र गन्ता । यद्वा । कान्त्यर्थात् । सर्वैः काम्यमानः । अत एव “वृषा अभिलषितानां वर्षकः “इन्द्रः “परिषिक्तं वसतीवरीभिः परितः सिक्तम् “अन्धः अस्मदीयं सोमलक्षणमन्नं प्रति “हरिभ्याम् एतन्नामकाभ्यामश्वभ्यां सह “आ “यातु आगच्छतु । अथ प्रत्यक्षः ।। हे इन्द्र “अरुशहा । अरुशाः शत्रवः । तेषां हन्ता । अर्तेरौणादिक उशन् । ‘ बहुलं छन्दसि ' इति हन्तेः क्विप् ।। “सत्रा । सप्तम्या डादेशः । अस्मदीये सत्रे यज्ञे “गवि आनड़ुहे चर्मणि “सुतस्य अभिषुतस्य “प्रभृतस्य पात्रेषु प्रहृतस्य । हृग्रहोर्भः । ईदृशस्य “मध्वः मदकरस्य सोमस्य पानेन हृष्टः सन् “खेदां खिद्यमानानां शत्रूणामुत्खित्तये आभिमुख्येन “वृषस्व वृष इवाचर ।। वृषशब्दादाचारार्थे क्विप् । व्यत्ययेनात्मनेपदम् । खेदाम् । खिद दैन्ये । कर्मणि घञन्तस्यामि नुडभावश्छान्दसः । ।
 
 
नि ति॒ग्मानि॑ भ्रा॒शय॒न्भ्राश्या॒न्यव॑ स्थि॒रा त॑नुहि यातु॒जूना॑म् ।
 
उ॒ग्राय॑ ते॒ सहो॒ बलं॑ ददामि प्र॒तीत्या॒ शत्रू॑न्विग॒देषु॑ वृश्च ॥५
 
नि । ति॒ग्मानि॑ । भ्रा॒शय॑न् । भ्राश्या॑नि । अव॑ । स्थि॒रा । त॒नु॒हि॒ । या॒तु॒ऽजूना॑म् ।
 
उ॒ग्राय॑ । ते॒ । सहः॑ । बल॑म् । द॒दा॒मि॒ । प्र॒ति॒ऽइत्य॑ । शत्रू॑न् । वि॒ऽग॒देषु॑ । वृ॒श्च॒ ॥५
 
नि । तिग्मानि । भ्राशयन् । भ्राश्यानि । अव । स्थिरा । तनुहि । यातुऽजूनाम् ।
 
उग्राय । ते । सहः । बलम् । ददामि । प्रतिऽइत्य । शत्रून् । विऽगदेषु । वृश्च ॥५
 
हे इन्द्र “भ्राश्यानि प्रकाश्यानि “तिग्मानि तीक्ष्णान्यायुधानि नितरां “भ्राशयन् प्रकाशयन् ।। ‘ भ्राशृ दीप्तौ' । स त्वं “यातुजूनाम् ॥ जु इति सौत्रो धातुः । ‘ भ्राजभास' इत्यत्र जवतेर्दीर्घः (का, ३. ३. १७७. १ )। ‘ क्विप्च' इति क्विप् । दीर्घस्यामि नुडागमछान्दसः ॥ यातुधानानां “स्थिरा स्थिराणि दृढान्यपि शरीराणि “अव “तनुहि । अवस्तात्तनुभूतान् पातथ । “उग्राय उद्गूर्णबलाय “ते तुभ्यं “सहः शत्रुसहनसमर्थं “बलं बलहेतुकं हविः “ददामि अहं प्रयच्छामि । ततः “विगदेषु । विविधं गदन्ति शब्दायन्ते ।। गदेः ‘ घञर्थे कविधानम्' इत्यधिकरणे कः ।। “शत्रून् “प्रतीत्य प्रतिगम्य प्रतिकूलं गत्वा “वृश्च तांश्छिन्धि ।। ओव्रश्चू छेदने । तौदादिकस्य लोट् ।। ।।२०।।
 
 
व्य१॒॑र्य इ॑न्द्र तनुहि॒ श्रवां॒स्योज॑ः स्थि॒रेव॒ धन्व॑नो॒ऽभिमा॑तीः ।
 
अ॒स्म॒द्र्य॑ग्वावृधा॒नः सहो॑भि॒रनि॑भृष्टस्त॒न्वं॑ वावृधस्व ॥६
 
वि । अ॒र्यः । इ॒न्द्र॒ । त॒नु॒हि॒ । श्रवां॑सि । ओजः॑ । स्थि॒राऽइ॑व । धन्व॑नः । अ॒भिऽमा॑तीः ।
 
अ॒स्म॒द्र्य॑क् । व॒वृ॒धा॒नः । सहः॑ऽभिः । अनि॑ऽभृष्टः । त॒न्व॑म् । व॒वृ॒ध॒स्व॒ ॥६
 
वि । अर्यः । इन्द्र । तनुहि । श्रवांसि । ओजः । स्थिराऽइव । धन्वनः । अभिऽमातीः ।
 
अस्मद्र्यक् । ववृधानः । सहःऽभिः । अनिऽभृष्टः । तन्वम् । ववृधस्व ॥६
 
हे “इन्द्र “अर्यः स्वामी त्वं “श्रवांसि अन्नानि । श्रव इत्यन्ननाम । अस्मभ्यं “वि “तनुहि विस्तारय । प्रयच्छ ।। तनोतेर्लोटि उतश्च प्रत्ययाच्छन्दसि वावचनम् (पा. सू. ६. ४.१०६. १ ) इति हेर्लुगभावः ।। तथा “अभिमातीः । अभितो मातिर्मानं येषां तेऽभिमातयः शत्रवः । तान् प्रति “ओजः आत्मीयं वीर्यं “स्थिरेव स्थिराण्येव “धन्वनः धनूंषि च विस्तारय । तैः शत्रूञ्जहीत्यर्थः । अपि च “अस्मद्र्यक् अस्मदभिमुखाञ्चनः ।। ‘ विष्वग्देवयोश्च टेरद्र्यञ्चतौ° १ ( पा. सू. ६, ३, ९२ ) इत्यद्र्यादेशः अद्रिसध्र्योरन्तोदात्तत्वेन निपातनात् ( पा, सू, ६, ३, ९५, १ ) उदात्तस्वरितयोर्यणः०' इति धातोरकास्यानुदात्तस्य स्वरितत्वम् ।। “सहोभिः आत्मीयैर्बलैः “वावृधानः प्रवृद्धः अत एव अनिभृष्टः शत्रुभिरपरिभवनीयस्त्वं “तन्वम् आत्मीयं शरीरं वावृधस्छव वर्धय । यद्वा । तन्वम् । तन्यत इति तनूर्यज्ञः । तं वर्धय । त्वदागमनेन हि यज्ञो वर्धते ।।
 
 
इ॒दं ह॒विर्म॑घव॒न्तुभ्यं॑ रा॒तं प्रति॑ सम्रा॒ळहृ॑णानो गृभाय ।
 
तुभ्यं॑ सु॒तो म॑घव॒न्तुभ्यं॑ प॒क्वो॒३॒॑ऽद्धी॑न्द्र॒ पिब॑ च॒ प्रस्थि॑तस्य ॥७
 
इ॒दम् । ह॒विः । म॒घ॒ऽव॒न् । तुभ्य॑म् । रा॒तम् । प्रति॑ । स॒म्ऽरा॒ट् । अहृ॑णानः । गृ॒भा॒य॒ ।
 
तुभ्य॑म् । सु॒तः । म॒घ॒ऽव॒न् । तुभ्य॑म् । प॒क्वः॑ । अ॒द्धि । इ॒न्द्र॒ । पिब॑ । च॒ । प्रऽस्थि॑तस्य ॥७
 
इदम् । हविः । मघऽवन् । तुभ्यम् । रातम् । प्रति । सम्ऽराट् । अहृणानः । गृभाय ।
 
तुभ्यम् । सुतः । मघऽवन् । तुभ्यम् । पक्वः । अद्धि । इन्द्र । पिब । च । प्रऽस्थितस्य ॥७
 
हे “मघवन् धनवन् “सम्राट् सम्यग्राजमान सर्वेषामीश्वरेति वा “इदं सोमादिलक्षणं “रातम् अस्माभिर्दत्तं “हविः हे इन्द्र “तुभ्यम् “अहृणानः अक्रुध्यन् “प्रति “गृभाय प्रतिगृहाण ।। ग्रहेर्लोटि श्नाप्रत्ययस्य ‘ छन्दसि शायजपि ' इति शायजादेशः । हृग्रहोर्भः । संनिपातपरिभाषाया अनित्यत्वाद्धेर्लुक् ॥ हे “मघवन् "तुभ्यम् एव अयं सोमः “सुतः ।। ङयि च ' ( पा. सू. ६. १, २१२ ) इत्याद्युदात्तत्वम् ।। “तुभ्यम् एवायं पुरोड़ाशादिः “पक्वः । हे इन्द्र तं पुरोङाशम् “अद्धि भक्षय । किंच “प्रस्थितस्थ हविर्धानादुत्तरवेदिं प्रति प्रस्थापितं सोमं पिब । वाक्यभेदादनिघातः । यद्वा । आमन्त्रितस्याविद्यमानत्वेन तिङ उत्तरत्वादनिघातः ।।
 
 
अ॒द्धीदि॑न्द्र॒ प्रस्थि॑ते॒मा ह॒वींषि॒ चनो॑ दधिष्व पच॒तोत सोम॑म् ।
 
प्रय॑स्वन्त॒ः प्रति॑ हर्यामसि त्वा स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामा॑ः ॥८
 
अ॒द्धि । इत् । इ॒न्द्र॒ । प्रऽस्थि॑ता । इ॒मा । ह॒वींषि॑ । चनः॑ । द॒धि॒ष्व॒ । प॒च॒ता । उ॒त । सोम॑म् ।
 
प्रय॑स्वन्तः । प्रति॑ । ह॒र्या॒म॒सि॒ । त्वा॒ । स॒त्याः । स॒न्तु॒ । यज॑मानस्य । कामाः॑ ॥८
 
अद्धि । इत् । इन्द्र । प्रऽस्थिता । इमा । हवींषि । चनः । दधिष्व । पचता । उत । सोमम् ।
 
प्रयस्वन्तः । प्रति । हर्यामसि । त्वा । सत्याः । सन्तु । यजमानस्य । कामाः ॥८
 
हे इन्द्र “प्रस्थिता प्रस्थितान्युत्तरवेदिं प्रति “इमा इमानि । उभयत्र डादेशः । हवींषि “अद्धीत् । इदवधारणे । भक्षयैव । “चनः । चन इत्यन्ननाम । तत् “दधिष्व धारय । उदरे प्रक्षिप ।। दधातेर्लोटि ‘ छन्दस्युभयथा' इति थास आर्धधातुकत्वादिडागमः ॥ “पचता पचतानि सवनीयपुरोडाशादीनि च धारय ।। पचेः ‘ भृमृदृशि° ' इत्यादिना कर्मण्यतच्प्रत्ययः ॥ “उत अपि च “सोमं पिब । ततः “प्रयस्वन्तः । प्रीणयतीति प्रयोऽन्नम् । तेन तद्वन्तः सन्तः “त्वा त्वां “प्रति “हर्यामसि हर्यामः । कामयामहे धनादीनि ॥ हर्यतिः प्रेप्साकर्मा । इदन्तो मसिः ॥ तस्मात् “यजमानस्य यागं कुर्वाणस्थ “कामाः धनादिविषया अभिलाषा: “सत्याः यथार्थाः “सन्तु ॥ ‘ पूङ्यजोः शानन्' (पा, सू. ३. २. १२८) इति यजेः शानन्प्रत्ययः । नित्त्वादाद्युदात्तः ॥
 
 
प्रेन्द्रा॒ग्निभ्यां॑ सुवच॒स्यामि॑यर्मि॒ सिन्धा॑विव॒ प्रेर॑यं॒ नाव॑म॒र्कैः ।
 
अया॑ इव॒ परि॑ चरन्ति दे॒वा ये अ॒स्मभ्यं॑ धन॒दा उ॒द्भिद॑श्च ॥९
 
प्र । इ॒न्द्रा॒ग्निऽभ्या॑म् । सु॒ऽव॒च॒स्याम् । इ॒य॒र्मि॒ । सिन्धौ॑ऽइव । प्र । ई॒र॒य॒म् । नाव॑म् । अ॒र्कैः ।
 
अयाः॑ऽइव । परि॑ । च॒र॒न्ति॒ । दे॒वाः । ये । अ॒स्मभ्य॑म् । ध॒न॒ऽदाः । उ॒त्ऽभिदः॑ । च॒ ॥९
 
प्र । इन्द्राग्निऽभ्याम् । सुऽवचस्याम् । इयर्मि । सिन्धौऽइव । प्र । ईरयम् । नावम् । अर्कैः ।
 
अयाःऽइव । परि । चरन्ति । देवाः । ये । अस्मभ्यम् । धनऽदाः । उत्ऽभिदः । च ॥९
 
“इन्द्राग्निभ्यां देवाभ्यां “सुवचस्याम् । 'छन्दसि च ' इति यत्प्रत्ययः । सुवचनार्हा स्तुतिमहं “प्र “इयर्मि प्रेरयामि ॥ ‘ऋ ‘ गतौ ' । जौहोत्यादिकः। “अर्तिपिपर्त्योश्च ' इत्यभ्यासस्येत्वम् । देवताद्वन्द्वे च' इतीन्द्राग्न्योरुभयपदप्रकृतिस्वरत्वे प्राप्ते ‘नोत्तरपदेऽनुदात्तादौ° ' इति प्रतिषेधः ॥ “सिन्धाविव सिन्धौ नद्यां यथा “नावं प्रेरयन्ति तद्वत् “अर्कैः अर्चनीयैर्मन्त्रैः सहितां स्तुतिं “प्रेरयं प्रावादिषम् ॥ ‘ ईर गतौ ' । ण्यन्तस्य लङयुत्तमस्यामादेशः ॥ स्तुतास्ते "देवाः “अयाइव । अयन्ति कर्मकरणार्थं गच्छन्तीत्या ऋत्विजः कर्मकरा वा । तद्वत् “परि “चरन्ति । अस्मान् धनादिदानेन पूजयन्ति । “ये देवाः “अस्मभ्यं “धनदाः धनस्य दातारः “उद्भिदः अस्मच्छत्रूणामुद्भेत्तारः “च ये सन्ति ।। ॥ २१ ॥
 
}}
 
{{ऋग्वेदः मण्डल १०}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.११६" इत्यस्माद् प्रतिप्राप्तम्