"ऋग्वेदः सूक्तं १०.१३१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २६:
 
{{सायणभाष्यम्|
‘ अप प्राचः' इति सप्तर्चं तृतीयं सूक्तं कक्षीवतः पुत्रस्य सुकीर्तेरार्षम् । चतुर्थ्यनुष्टुप् शिष्टाः षट् त्रिष्टुभः । चतुर्थीपञ्चम्यावश्विदेवत्ये शिष्टा ऐन्द्र्यः । तथा चानुक्रान्तम्--- ‘ अप प्राचः सुकीर्तिः काक्षीवतो मध्येऽनुष्टुप्सोत्तरा चाश्विन्यौ ' इति । षष्ठेऽहनि ब्राह्मणाच्छंसिन उक्थशस्त्र एतत्सूक्तम् । सूत्रितं च --‘सुकीर्तिं ब्राह्मणाच्छंसी वृषाकपिं च पङ्क्तिशंसम् ' ( आश्व. श्रौ. ८.४) इति । चातुर्विंशिकेऽहनि माध्यंदिने सवने मैत्रावरुणस्य ‘ अप प्राचः' इत्येषारम्भणीया कद्वत्प्रगाथानन्तरं शंसनीया । सूत्रितं च----‘कद्वन्तः प्रगाथा अप प्राच इन्द्र विश्वाँ अमित्रान्' (आश्व. श्रौ. ७.४) इति । अहर्गणेष्वपि द्वितीयादिष्वहःसु तस्यैव तस्मिन्नेव शस्त्र आरम्भणीया । सूत्रितं च ----- ‘ आरम्भणीयाः पर्यासान् कद्वतोऽहरहःशस्यानीति होत्रका द्वितीयादिष्वेव' (आश्व. श्रौ. ७.१) इति ॥
 
 
अप॒ प्राच॑ इन्द्र॒ विश्वाँ॑ अ॒मित्रा॒नपापा॑चो अभिभूते नुदस्व ।
Line ३८ ⟶ ४०:
 
अप । उदीचः । अप । शूर । अधराचः । उरौ । यथा । तव । शर्मन् । मदेम ॥१
 
हे “इन्द्र “प्राचः प्रमुखमञ्चतः प्राग्देशे वर्तमानान् । अस्मत्तः पूर्वभागे वर्तमानानित्यर्थः । प्रपूर्वादञ्चतेः ‘ ऋत्विक् इत्यादिना क्विन् । ‘ अनिदिताम्' इति, नलोपः । शसि ‘ अचः । इत्यकारलोपे ' चौ ' इति दीर्घत्वम् ।“ अनिगन्तोऽञ्चतौ वप्रत्यये' (पा. सू. ६.२.५२) इति गतेः प्रकृतिस्वरत्वम् । तादृशान् “विश्वान् सर्वान् “अमित्रान् शत्रून् “अप “नुदस्व अस्मत्तोऽपगमय । तथा हे “अभिभूते शत्रूणामभिभवितरिन्द्र “अपाचः अपमुखमञ्चतः पृष्ठभागे वर्तमानान् सर्वान् शत्रून् अप नुदस्व । अपि च “उदीचः ऊर्ध्वमञ्चतः उपरिवर्तमानान् । उत्पूर्वादञ्चतेः पूर्ववत् क्विनि ‘ उद ईत्' इत्यञ्चतेरकारस्येकारः । पूर्ववत्स्वरः । तथाविधानपि शत्रून “अप नुदस्व। तथा हे “शूर शौर्यवन्निन्द्र “अधराचः अधरदेशमधोभागमञ्चतश्च अधस्तनानपि शत्रून् “अप नुदस्व । अधरशब्दोपपदादञ्चतेः शसि पूर्ववत् प्रक्रिया । “चौ ' इति पूर्वपदस्यान्तोदात्तः । “उरौ विस्तीर्णे “तव संबन्धिनि त्वया दत्ते “शर्मन् शर्मणि गृहे सुखे वा “यथा वयं “मदेम निरुपद्रवाः सन्तो हृष्येम तथा त्वं सर्वत्र वर्तमानानस्मदीयान् शत्रून् विनाशयेत्यर्थः ॥
 
 
Line ५१ ⟶ ५५:
 
इहऽइह । एषाम् । कृणुहि । भोजनानि । ये । बर्हिषः । नमःऽवृक्तिम् । न । जग्मुः ॥२
 
“अङ्ग हे इन्द्र “यवमन्तः यवादिधान्ययुक्ताः कर्षकाः “यवं “चित् । उपलक्षणमेतत् । यवगोधूमादीन् “अनुपूर्वं यो यो धान्यविशेषः प्रथमं पच्यते तेनानुपूर्व्येण “वियूय पृथक्कृत्य “यथा “कुवित् बहुलं "दान्ति लुनन्ति । ‘दाप् लवने ' । आदादिकः । विपूर्वात् यौतेर्ल्यपि ‘युप्लुवोर्दीर्घश्छन्दसि ( पा. सू. ६.४.५८ ) इति दीर्घः । एवम् “इहेह अस्मिन्नस्मिन् देशे सर्वस्मिन् “एषां यजमानानां “भोजनानि । धननामैतत् । भोगसाधनानि धनानि “कृणुहि कुरु। यस्मिन् यस्मिन् देशे यद्धनमपेक्षितं तदनुगुणं प्रयच्छेत्यर्थः ॥ ‘उतश्च प्रत्ययाच्छन्दसि वावचनम् ' (पा. सू. ६.४. १०६.१) इति हेर्लुगभावः । एषामित्युक्तं के पुनरिमे इत्यत आह । “ये यजमानाः “बर्हिषः यज्ञस्य “नमोवृक्तिं नमसो हविर्लक्षणस्यान्नस्य नमस्कारात्मकस्य स्तोत्रस्य वा वर्जनमकरणं “न “जग्मुः न प्राप्नुवन्ति किंतु सर्वदा हविर्भिर्यजन्ति स्तुतिभिः स्तुवन्ति च । एषां कृणुहीत्यन्वयः ॥
 
 
Line ६५ ⟶ ७१:
गव्यन्तः । इन्द्रम् । सख्याय । विप्राः । अश्वऽयन्तः । वृषणम् । वाजयन्तः ॥३
 
एकेन धुर्येण युक्तमनः स्थूरि इत्युच्यते । "ऋतुथा ऋतौ यद्यस्मिन् काले प्राप्तव्यं तद्योग्यकाले “स्थूरि “अनः “यातं तं देशं प्राप्तं “नहि “अस्ति न हि भवति । एकेन धुर्येण युक्तः शकटः शीघ्रं गन्तव्यं न प्राप्नोतीत्यर्थः । “उत अपि च “संगमेषु संग्रामेषु “श्रवः अन्नं यशो वा “न “विविदे न लभते । इन्द्रस्तु उक्तविलक्षणः । “वृषणं वर्षितारं तम् “इन्द्रं “गव्यन्तः गा इच्छन्तः “विप्राः मेधाविनो वयं “सख्याय सखिकर्मणे आह्वयाम इति शेषः । कथंभूताः । “अश्वायन्तः अश्वानप्यात्मन इच्छन्तः “वाजयन्तः अन्नकामा बलकामाश्च ॥
 
 
सौत्रामण्यां सुराग्रहाणां पुरोनुवाक्या ‘युवम्' इत्येषा । सूत्रितं च -- युवं सुराममश्विनेति ग्रहाणां पुरोनुवाक्या ' (आश्व. श्रौ. ३.९) इति ॥
 
यु॒वं सु॒राम॑मश्विना॒ नमु॑चावासु॒रे सचा॑ ।
Line ७८ ⟶ ८८:
विऽपिपाना । शुभः । पती इति । इन्द्रम् । कर्मऽसु । आवतम् ॥४
 
हे “अश्विना अश्विनौ हे “शुभस्पती उदकस्य शोभनालंकारस्य वा पती पालयितारौ “सुरामं सुष्ठु रमणसाधनमिदं हविः “विपिपाना विशेषेण पीतवन्तौ “युवं युवां “सचा सन्तौ संगतौ “आसुरे असुरपुत्रे “नमुचौ एतत्संज्ञे असुरे हन्तव्ये सति “कर्मसु योधनकर्मसु “इन्द्रम् “आवतम् अरक्षतम् ॥ विपिपाना।' पा पाने ' इत्यस्मात् लिटः कानच्। ‘ बहुलं छन्दसि ' इत्यभ्यासस्येत्वम् । शुभस्पती इति • सुबामन्त्रिते°' इति षष्ठ्यन्तस्य पराङ्गवद्भावात षष्ठ्यामन्त्रितसमुदायस्याष्टमिकं सर्वानुदात्तत्वम् ॥
 
 
पूर्वोक्तानामेव ग्रहाणां ‘ पुत्रमिव' इति याज्या । सूत्रितं च – ‘पुत्रमिव पितरावश्विनोभेति याज्या' (आश्व. श्रौ. ३.९) इति ॥ ।
 
पु॒त्रमि॑व पि॒तरा॑व॒श्विनो॒भेन्द्रा॒वथु॒ः काव्यै॑र्दं॒सना॑भिः ।
Line ९० ⟶ १०४:
 
यत् । सुरामम् । वि । अपिबः । शचीभिः । सरस्वती । त्वा । मघऽवन् । अभिष्णक् ॥५
 
हे “इन्द्र त्वां “पितरौ मातापितरौ “पुत्रमिव ॥ ‘ पिता मात्रा' (पा. सू. १.२.७०) इति पितुः शेषः । “उभा उभौ अश्विनौ “काव्यैः प्रशस्यैः “दंसनाभिः आत्मीयैः कर्मभिः “आवथुः । मध्यमो व्यत्ययेन । आवतुः ररक्षतुः । त्वं च “सुरामं सुखेन रमणसाधनं हविः “यत् यदा “शचीभिः शक्तिभिः सार्धं “व्यपिबः विशेषेण पीतवानसि तदा हे “मघवन् धनवन्निन्द्र “सरस्वती देवी “त्वा त्वाम् “अभिष्णक् उपासेवत । भिष्णक् उपसेवायाम् । कण्ड्वादिः । छान्दसो यगभावः । लङि ‘ बहुलं छन्दसि' इति शपो लुक् । 'हल्ङ्याब्भ्यः' इति लोपः ॥
 
 
Line ११७ ⟶ १३३:
सः । सुऽत्रामा । स्वऽवान् । इन्द्रः । अस्मे इति । आरात् । चित् । द्वेषः । सनुतः । युयोतु ॥७
 
‘ त्रातारमिन्द्रम्' इत्यस्मिन् वर्गे व्याख्याते ([[ऋग्वेदः सूक्तं ६.४७|ऋ . सं. ६.४७.१२-१३]]) । अक्षरार्थस्तु । सुष्ठु त्राता धनवान् सर्वस्य वेदिता इन्द्रो रक्षणैः सुष्ठु सुखयिता भवतु शत्रूंश्च हिनस्तु भयराहित्यं च करोत्वस्माकम् । अतो वयं शोभनवीर्योप्रेतस्य धनस्य स्वामिनो भवेमेति ॥ सप्तम्यास्तु । तस्य यज्ञार्हस्य इन्द्रस्यानुग्रहबुद्धौ भजनीये सौमनस्ये च वयं विषयभूता भवेम । सुष्ठु त्राता धनवान् स इन्द्रोऽस्मत्तो दूर देशे द्वेष्टॄनन्तर्धानं योजयत्विति ॥ ॥ १९ ॥
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१३१" इत्यस्माद् प्रतिप्राप्तम्