"ऋग्वेदः सूक्तं १०.१३३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २७:
 
{{सायणभाष्यम्|
‘प्रो षु' इति सप्तर्चं पञ्चमं सूक्तं पिजवनपुत्रस्य सुदास आर्षमैन्द्रम् । आद्यस्तृचः शाक्वरः । षट्पञ्चाशदक्षरा शक्वरी । द्वितीयस्तृचो महापाङ्क्तः । षळष्टका महापङ्क्तिः । सप्तमी त्रिष्टुप् । तथा चानुक्रान्तं -- प्रो षु सुदाः पैजवनः शाक्वरमहापाङ्क्तावाद्यौ तृचावन्त्या त्रिष्टुप् ' इति । षोळशिशस्त्र आद्यस्तृचः शंसनीयः । सूत्रितं च -- त्रिकद्रुकेषु महिषो यवाशिरं प्रो ष्वस्मै पुरोरथमिति तृचावातिच्छन्दसौ ' ( आश्व. श्रौ. ६. २) इति । महाव्रते माध्यंदिनसवने ब्रह्मशस्त्रेऽनुरूपतृचस्य ‘ प्रो ष्वस्मै ' इत्येका। तथैव पञ्चमारण्यके सूत्रितं च-- ‘ प्रो ष्वस्मै पुरोरथमित्यतोऽनुरूपः । (ऐ. आ. ५. १. १ ) इति ।।
 
 
प्रो ष्व॑स्मै पुरोर॒थमिन्द्रा॑य शू॒षम॑र्चत ।
Line ३९ ⟶ ४१:
 
अभीके । चित् । ऊं इति । लोकऽकृत् । सम्ऽगे । समत्ऽसु । वृत्रऽहा । अस्माकम् । बोधि । चोदिता । नभन्ताम् । अन्यकेषाम् । ज्याकाः । अधि । धन्वऽसु ॥१
 
“अस्मै “इन्द्राय । षष्य् र्थे चतुर्थी । अस्येन्द्रस्य “पुरोरथं रथस्य पुरः पुरतः । ‘पुरोऽव्ययम्' इति गतित्वाद्गतिसमासः । रथस्याग्रतो वर्तमानं "शूषं बलं “सु “प्रो “अर्चत । हे स्तोतारः सुष्ठु प्रपूजयत । प्र उ इति निपातसमुदायः प्रो इति । ‘ओत्' इति प्रगृह्यसंज्ञम् । इन्द्रो विशेष्यते । समत्सु । समानं माद्यन्यत्रेति समदः संग्रामाः । औणादिकोऽधिकरणे क्विप्। समानस्य छन्दसि० इति सभावः । “समत्सु संग्रामेषु “संगे संगमनीये शत्रुबले। ‘डोऽन्यत्रापि दृश्यते ' (पा. सू. ३. २. ४८) इति गमेर्डः। “अभीके “चित् अभ्यर्णेऽपि निकटं प्राप्तेऽपि केशाकेश्यवस्थायामपि “लोककृत् स्थितिकृन्न पलायिता स्थित्वा च “वृत्रहा वृत्राणामावरकाणां हन्ता एवंविधः स इन्द्रः “अस्माकं स्तोतॄणां “चोदिता धनानां प्रेरिता सन् “बोधि । अस्माभिः कृतानि परिचरणानि बुध्यताम् । बुधेश्छान्दसे लुङि ‘ दीपजनबुध°' इत्यादिना कर्तरि च्लेश्चिणादेशः । ‘ बहुलं छन्दस्यमाङ्योगेऽपि इत्यडभावः । अपि च “अन्यकेषां कुत्सितानामन्येषां शत्रूणाम् “अधि “धन्वसु धनुःष्वधिरोपिता “ज्याकाः कुत्सिता ज्या “नभन्तां हिंस्यन्तां नश्यन्तु। ज्याशब्दात् कुत्सायां प्रागिवात्कः ( पा. सू. ५. ३. ७०; ७४ )। ‘नभ तुभ हिंसायाम्' । क्रैयादिकः । व्यत्ययेन शप् ॥
 
 
Line ५२ ⟶ ५६:
 
अशत्रुः । इन्द्र । जज्ञिषे । विश्वम् । पुष्यसि । वार्यम् । तम् । त्वा । परि । स्वजामहे । नभन्ताम् । अन्यकेषाम् । ज्याकाः । अधि । धन्वऽसु ॥२
 
हे “इन्द्र “त्वं “सिन्धून स्यन्दनशीलान् जलपूरान् “अधराचः अधरमधोमुखमञ्चतो गन्तॄन् “अवासृजः मेघान्निरगमयः । यतस्त्वम् “अहिम् अन्तरिक्षे गतं मेघम् “अहन् हतवानसि । यद्वा । अहिमागत्य हन्तारं सर्वस्य जगत आवरकं वृत्रमसुरमहन् हतवानसि । अतो हे “इन्द्र त्वम् “अशत्रुः शत्रुरहितः “जज्ञिषे जायसे । न सन्ति शत्रवोऽस्येति बहुव्रीहौ ‘ नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । जनेर्लिटि ‘ गमहन इत्यादिनोपधालोपः। द्विर्वचनेऽचि' इति स्थानिवद्भावात् द्विर्वचनम् । तथा “विश्व सर्वं “वार्यं वरणीयं संभजनीयं धनं “पुष्यसि वर्धयसि । वृङ् संभक्तौ । ऋहलोर्ण्यत् । ‘ ईडवन्दवृशंसदुहां ण्यतः' इत्याद्युदात्तत्वम् । “तं तादृशं “त्वा त्वां “परि “ष्वजामहे हविर्भिः स्तुतिभिश्चालिङ्गनं कुर्मः । वशीकुर्म इत्यर्थः। ‘ ष्वन्ज परिष्वङ्गे'। दंशसञ्जष्वञ्जां शपि' (पा. सू. ६. ४, २५ ) इत्यनुनासिकलोपः । गतमन्यत् ॥
 
 
Line ६५ ⟶ ७१:
 
अस्ता । असि । शत्रवे । वधम् । यः । नः । इन्द्र । जिघांसति । या । ते । रातिः । ददिः । वसु । नभन्ताम् । अन्यकेषाम् । ज्याकाः । अधि । धन्वऽसु ॥३
 
“विश्वाः सर्वाः “अरातयः अदात्र्यः “अर्यः अभिगन्त्र्यः “नः अस्माकं शत्रुभूताः प्रजाः “सु सुष्ठु “वि “नशन्त विनश्यन्तु । हे इन्द्र त्वदर्थं “धियः कर्माणि स्तुतयो वा प्रवर्तन्ताम् । हे “इन्द्र “यः “नः अस्मान् “जिघांसति हन्तुमिच्छति । हन्तेः सनि अज्झनगमां सनि' इति दीर्घः । अभ्यासाच्च' इति कुत्वम् । तस्मै “शत्रवे “वधं हननसाधनमायुधम् “अस्तासि क्षेप्ता भवसि । असु क्षेपणे । ताच्छीलिकस्तृन् । “ते तव “या “रातिः धनप्रदानहेतुर्हस्तः । रा दाने । करणे क्तिन् । ‘ मन्त्रे वृषेषपचमनविदभूवीरा उदात्त: ' इति क्तिन उदात्तत्वम् । सा रातिः “वसु धनं “ददिः अस्मभ्यं दाता भवतु । ‘ आदृगमहन' इति ददातेः किप्रत्ययः । ‘ न लोकाव्यय°' इति वसुशब्दात् षष्ठ्यभावः । सिद्धमन्यत् ॥
 
 
Line ७९ ⟶ ८७:
अधःऽपदम् । तम् । ईम् । कृधि । विऽबाधः । असि । ससहिः । नभन्ताम् । अन्यकेषाम् । ज्याकाः । अधि । धन्वऽसु ॥४
 
हे “इन्द्र “यः “जनः “वृकायुः । वृको हिंसकोऽरण्यश्वा स्तेनो वा । स इवाचरन् “नः अस्मान् “अभितः सर्वतः “आदिदेशति अभिलक्ष्य आयुधान्यतिसृजति । दिशतेर्लेट्यडागमः । छान्दसः शपः श्लुः । नाभ्यस्तस्याचि पिति' इत्यत्र ‘ बहुलं छन्दसीति वक्तव्यम्' इति वचनात् प्रतिषेधाभावे लघूपधगुणः । ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । “तमीं तमिमं जनम् “अधस्पदं पादस्याधस्ताद्वर्तमानं “कृधि कुरु। करोतेश्छान्दसो विकरणस्य लुक् ।' श्रुशृणुपॄकृवृभ्यः' इति हेर्धिः। यतस्त्वं “विबाधः विशेषेण बाधिता शत्रूणां “सासहिः “अभिभविता च “असि। सिद्धः शेषः ॥
 
 
Line ९२ ⟶ १०१:
 
अव । तस्य । बलम् । तिर । महीऽइव । द्यौः । अध । त्मना । नभन्ताम् । अन्यकेषाम् । ज्याकाः । अधि । धन्वऽसु ॥५
 
हे “इन्द्र “यः “सनाभिः समानजन्मा शत्रुः “नः अस्मान् “अभिदासति उपक्षयति “यश्च “निष्ट्यः निकृष्टजन्मा अस्मानुपक्षयति ॥ जातार्थे निकृष्टवाचिनो निःशब्दादव्ययात्त्यप् (पा. सू. ४० २. १०४ )। ह्रस्वात्तादौ तद्धिते ' (पा. सू. ८. ३. १०१ ) इति षत्वम् ॥ “अध अनन्तरमेव “महीव “द्यौः महती द्यौरिव विस्तृतं “तस्य शत्रोः "बलं "त्मना आत्मना। ‘ मन्त्रेष्वाङ्यादेरात्मनः इत्याकारलोपः । स्वयमेव “अव “तिर जहि अवतिरतिर्वधकर्मा । गतमन्यत् ॥
 
 
Line १०५ ⟶ ११६:
 
ऋतस्य । नः । पथा । नय । अति । विश्वानि । दुःऽइता । नभन्ताम् । अन्यकेषाम् । ज्याकाः । अधि । धन्वऽसु ॥६
 
हे “इन्द्र “त्वायवः त्वामात्मन इच्छन्तः “वयं “सखित्वं सखिकर्म यज्ञात्मकम्, “आ “रभामहे उपक्रमामहे। “ऋतस्य सत्यस्य यज्ञस्य “पथा मार्गेण । भस्य टेर्लोपः । उदात्तनिवृत्तिस्वरेण तृतीयाया उदात्तत्वम् । “विश्वानि सर्वाणि “दुरिता दुरितानि दुर्गमनानि पापानि तत्फलानि च “नः अस्मान “अति नय अतिपारय । गतमन्यत् ॥
 
 
Line ११९ ⟶ १३२:
अच्छिद्रऽऊध्नी । पीपयत् । यथा । नः । सहस्रऽधारा । पयसा । मही । गौः ॥७
 
हे “इन्द्र “त्वं “तां गाम् “अस्मभ्यं स्तोतृभ्यः “सु “शिक्ष प्रदेहि । शिक्षतिर्दानकर्मा । “या गौः “जरित्रे स्तोत्रे “वरं वरणीयं पयः “प्रति “दोहते प्रतिदिनं नैरन्तर्येण दुग्धे ॥ दुहेः ' बहुलं छन्दसि' इति शपो लुगभावः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे शपः पित्त्वादनुदात्तत्वम् । धातुस्वरः शिष्यते । वरम् । वृञ् वरणे' इत्यस्मात् ' ग्रहवृदृनिश्चिगमश्च ' इति कर्मण्यप् ॥ सा प्रत्ता “गौः “अच्छिद्रोध्नी निबिडोधस्का अत एव “सहस्रधारा बहुभिः क्षीरधाराभिरुपेता “मही महती सती “यथा “नः अस्मान् “पयसा क्षीरेण “पीपयत् प्रवर्धयेत् तथा तां कुर्विति शेषः ॥ ‘ ओप्यायी वृद्धौ । ण्यन्ताच्छान्दसो लुङ् । व्यत्ययेन धातोः पीभावः । अडभावश्छान्दसः ॥ ॥२१॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१३३" इत्यस्माद् प्रतिप्राप्तम्