"ऋग्वेदः सूक्तं १०.१४७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २२:
 
{{सायणभाष्यम्|
‘श्रत्ते' इति पञ्चर्चमेकोनविंशं सूक्तं शिरीषपुत्रस्य सुवेदस आर्षम् । पञ्चमी त्रिष्टुप् शिष्टा जगत्यः । इन्द्रो देवता । अनुक्रम्यते हि - श्रत्ते पञ्च सुवेदाः शैरीषिस्त्रिष्टुबन्तम्' इति । तृतीये रात्रिपर्याये प्रशास्तुः शस्त्र इदं सूक्तम् । सूत्रितं च - ‘ श्रत्ते दधामीदं त्यत्पात्रमिन्द्रपानमिति याज्या' ( आश्व. श्रौ. ६. ४) इति ।
 
 
श्रत्ते॑ दधामि प्रथ॒माय॑ म॒न्यवेऽह॒न्यद्वृ॒त्रं नर्यं॑ वि॒वेर॒पः ।
Line ३४ ⟶ ३६:
 
उभे इति । यत् । त्वा । भवतः । रोदसी इति । अनु । रेजते । शुष्मात् । पृथिवी । चित् । अद्रिऽवः ॥१
 
हे इन्द्र “ते तव “मन्यवे कोपाय तेजसे वा “प्रथमाय मुख्याथ “श्रत् “दधामि । श्रद्धा नामादरातिशयः । तद्विषयं करोमि । “यत् येन मन्युना त्वं “वृत्रम् आवरकमसुरं मेघं वा नर्यं नेतव्यम् “अहन अवधीः हत्वा च तेनावृताः “अपः उदकानि च “विवेः इमं लोकं प्रत्यागमयः । तस्मै मन्यव इत्यन्वयः। “यत् यदा “उभे “रोदसी द्यावापृथिव्यौ “त्वा त्वामनुसृत्य “भवतः वर्तेते । त्वदधीने अभूतामित्यर्थः । तदानीं “पृथिवी “चित । पृथिवीत्यन्तरिक्षनाम । प्रथितं विस्तीर्णमन्तरिक्षमपि हे “अद्रिवः वज्रवन्निन्द्र “शुष्मात् त्वदीयाद्बलात् "रेजते कम्पते ॥
 
 
Line ४७ ⟶ ५१:
 
त्वाम् । इत् । नरः । वृणते । गोऽइष्टिषु । त्वाम् । विश्वासु । हव्यासु । इष्टिषु ॥२
 
हे “अनवद्य अवद्यरहित प्रशस्येन्द्र “त्वं “मायिनं मायाविनं “वृत्रं “मायाभिः वञ्चनाभिर्बुद्धिविशेषैर्वा “श्रवस्यता श्रवः श्रवणीयं यशोऽन्नं वेच्छता “मनसा “अर्दयः अहिंसीः । अपि च “नरः नेतारोऽङ्गिरसः “त्वामित् त्वामेव “गविष्टिषु गवां पणिभिरपहृतानामेषणेषु प्रापणेषु विषयभूतेषु “वृणते संभजन्ते । तथा “विश्वासु सर्वासु “हव्यासु आह्वातव्यासु प्रार्थनीयासु "इष्टिषु यागक्रियासु “त्वाम् एव “वृणते ॥
 
 
Line ६० ⟶ ६६:
 
अर्चन्ति । तोके । तनये । परिष्टिषु । मेधऽसाता । वाजिनम् । अह्रये । धने ॥३
 
हे “पुरुहूत बहुभिराहूतेन्द्र “एषु “सूरिषु स्तोतृषु “आ “चाकन्धि अत्यर्थमभिदीप्यस्व अभिकामयस्व वा ॥ ‘ कनी दीप्तिकान्तिगतिषु' । अस्माच्चर्करीतमेतत् ।। हे “मघवन् धनवन्निन्द्र “ये सूरयः “वृधासः त्वत्प्रसादाद्वर्धमानाः सन्तः “मघं धनम् “आनशुः प्राप्नुवन्ति। अपि च "मेधसाता मेधसातौ यज्ञे “वाजिनं बलवन्तमन्नवन्तं वेजनवन्तं वा त्वां ये “अर्चन्ति पूजयन्ति “तोके पुत्रे “तनये तत्पुत्रे “परिष्टिषु परित इष्यमाणेष्वन्येष्वपि फलेषु “अह्रये अलज्जाकरे “धने च । एतेषु निमित्तभूतेषु सत्सु त्वामेव स्तुत्यादिभिः पूजयन्तीत्यर्थः ॥
 
 
Line ७३ ⟶ ८१:
 
त्वाऽवृधः । मघऽवन् । दाशुऽअध्वरः । मक्षु । सः । वाजम् । भरते । धना । नृऽभिः ॥४
 
“स “इत् स एव स्तोता “सुभृतस्य सुष्ठु संपादितस्य “रायः धनस्य । द्वितीयार्थे षष्ठी ।। ईदृशं धनं “नु क्षिप्रं “चाकनत् कामयते । लभत इत्यर्थः । “रंह्यम् । रंहो वेगः । तदर्हम् “अस्य इन्द्रस्य “मदं सोमपानजन्यं हर्षं “यः स्तोता “चिकेतति स्तुतिपदैर्जानाति । हे “मघवन् “त्वावृधः त्वया वर्धितः "दाश्वध्वरः दत्तयज्ञो यजमानः “नृभिः नेतृभिर्ऋत्विग्भिर्भृत्यैर्वा “धना धनानि “वाजम् अन्नं च "मक्षु शीघ्रं “भरते संपादयति ॥
 
 
Line ८७ ⟶ ९७:
त्वम् । नः । मित्रः । वरुणः । न । मायी । पित्वः । न । दस्म । दयसे । विऽभक्ता ॥५
 
हे इन्द्र "त्वं "महिना महता स्तोत्रेण “गृणानः स्तूयमानः सन् “शर्धाय शर्धं बलम् “उरु “कृधि विस्तीर्णं कुरु। हे “मघवन “रायः धनानि च “शग्धि अस्मभ्यं प्रयच्छ । हे “दस्म दर्शनीयेन्द्र “विभक्ता विशेषेण धनानां भाजयिता “त्वं “मित्रो “वरुणो “न मित्रवद्वरुणवच्च “मायी प्रज्ञायुक्तः सन् “नः अस्मभ्यम् । नः संप्रत्यर्थे । संप्रति “पित्वः अन्नानि “दयसे प्रयच्छसि ॥ ॥ ५ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१४७" इत्यस्माद् प्रतिप्राप्तम्