"ऋग्वेदः सूक्तं १०.१५३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २३:
 
{{सायणभाष्यम्|
‘ईङ्खयन्तीः' इति पञ्चर्चं गायत्रमैन्द्रं द्वितीयं सूक्तम् । देवानां स्वसृभूता इन्द्रमातरो नामर्षिकाः । तथा चानुक्रान्तम्--- ईङ्खयन्तीर्देवजामय इन्द्रमातरो गायत्रम्' इति । द्वितीये पर्याये प्रशास्तुः शस्त्र इदं सूक्तम् । सूत्रितं च -- ईङ्खयन्तीरहं दां पाता सुतम्' (आश्व. श्रौ. ६. ४) इति (सूत्रितं च -- ईंखयंतीरपस्युव इति ब्राह्मणाच्छंस्यावपेत (ऐ. आ. ५. १. १) इति पाठभेदः)। महाव्रतेऽपि प्रातः सवनिके ब्रह्मशस्त्र एतत्सूक्तम् ॥
 
 
ई॒ङ्खय॑न्तीरप॒स्युव॒ इन्द्रं॑ जा॒तमुपा॑सते ।
Line ३५ ⟶ ३७:
 
भेजानासः । सुऽवीर्यम् ॥१
 
“ईङ्खयन्तीः गच्छन्त्यः स्तुत्यादिभिरिन्द्रं प्राप्नुवत्यः “अपस्युवः अपः कर्म आत्मन इच्छन्त्य इन्द्रमातरोऽस्य सूक्तस्य द्रष्ट्र्यः "जातं प्रादुर्भूतम् “इन्द्रम् "उपासते परिचरन्ति । “सुवीर्यं शोभनवीर्योपेतं धनं च “भेजानासः । तस्मादिन्द्रात् संभक्तवत्यो भवन्ति ।।
 
 
Line ४८ ⟶ ५२:
 
त्वम् । वृषन् । वृषा । इत् । असि ॥२
 
हे “इन्द्र “त्वं “सहसः परेषामभिभावुकात् “बलात् “अधि “जातः असि । अधिः पञ्चम्यर्थानुवादकः । वृत्रादिवधहेतुभूताद्बलाद्धेतोस्त्वं प्रख्यातो भवसीत्यर्थः । अपि च “ओजसः। ओजो नाम बलहेतु हृदयगतं धैर्यम् । तस्मादपि त्वं जातोऽसि । हे “वृषन् वर्षितः “त्वं “वृषेदसि कामानां वर्षितैव भवसि ॥
 
 
Line ६१ ⟶ ६७:
 
उत् । द्याम् । अस्तभ्नाः । ओजसा ॥३
 
हे “इन्द्र “त्वं “वृत्रहा “असि । शत्रूणां हन्ता भवसि । “अन्तरिक्षं मध्यमस्थानं च “वि “अतिरः । आवरकापनोदनेन प्रावर्धयः । “द्यां द्युलोकं च “ओजसा बलेन “उत् “अस्तभ्नाः । ऊर्ध्वमस्तम्भीः । यथाधो न पतति तथोपर्यवस्थापितवानित्यर्थः ॥
 
 
Line ७४ ⟶ ८२:
 
वज्रम् । शिशानः । ओजसा ॥४
 
हे "इन्द्र “त्वं “सजोषसं सह प्रीयमाणम् “अर्कं स्तुत्यं “वज्रम् आत्मीयमायुधम् “ओजसा बलेन “शिशानः निश्यंस्तीक्ष्णीकुर्वन् "बाह्वोः हस्तयोः “बिभर्षि धारयसि शत्रूणां वधार्थम् ॥
 
 
Line ८८ ⟶ ९८:
सः । विश्वाः । भुवः । आ । अभवः ॥५
 
हे "इन्द्र "त्वं "विश्वा सर्वाणि "जातानि जनिमन्ति भूतानि "ओजसा बलेन "अभिभूरसि अभिभविता भवसि। तथा "सः तादृशस्त्वं "विश्वा "भुवः सर्वा भूमीः प्राप्तव्यानि सर्वाण्यपि स्थानानि "आभवः अभितः प्राप्नोः। भू प्राप्तौ।।
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१५३" इत्यस्माद् प्रतिप्राप्तम्