"ऋग्वेदः सूक्तं १०.१६१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २३:
 
{{सायणभाष्यम्|
'मुञ्चामि' इति पञ्चर्चं दशमं सूक्तं प्रजापतिपुत्रस्य यक्ष्मनाशनाख्यस्यार्षम् । अन्त्यानुष्टुप् शिष्टास्त्रिष्टुभः । अनादेशे त्विन्द्र देवता । तथा चानुक्रान्तं-- मुञ्चामि प्राजापत्यो यक्ष्मनाशनो राजयक्ष्मघ्नमन्त्यानुष्टुप् ' इति । हृदयरोगप्रमुखस्य व्याधिजातस्योपशमनार्थमनेन सूक्तेन होतब्यम् । सूत्र्यते हि - व्याधितस्यातुरस्य यक्ष्मगृहीतस्य वा षळाहुतिश्चरुर्मुंञ्चामि त्वा हविषा जीवनाय कमित्येतेन' (आश्व. गृ. ३. ६. ४-५) इति ॥
 
 
मु॒ञ्चामि॑ त्वा ह॒विषा॒ जीव॑नाय॒ कम॑ज्ञातय॒क्ष्मादु॒त रा॑जय॒क्ष्मात् ।
Line ३५ ⟶ ३७:
 
ग्राहिः । जग्राह । यदि । वा । एतत् । एनम् । तस्याः । इन्द्राग्नी इति । प्र । मुमुक्तम् । एनम् ॥१
 
हे यक्ष्माभिभूत “हविषा अनेन चरुणा साधनेन होमेन “त्वा त्वाम् “अज्ञातयक्ष्मात् । अयमेतत्संज्ञ इत्यप्रज्ञातः शरीरगतो रोगोऽज्ञातयक्ष्मः । तादृशाद्रोगात् “मुञ्चामि विश्लेषयामि । किमर्थम् । “जीवनाय "कं जीवनार्थम् । इह लोके चिरकालावस्थानार्थमित्यर्थः । कमिति पूरकः ।
“उत अपि च “राजयक्ष्मात् । यक्ष्माणां राजा यक्ष्मरोगो राजयक्ष्मः । राजदन्तादित्वादुपसर्जनस्य परनिपातः (पा. सू. २, ३, ३१)। तस्मादपि त्वां मुञ्चामि। “यदि “वा यदि च “एतत् एतस्मिन् समये “एनं व्याधितं पुरुषं “ग्राहिः ग्रहणशीला ग्रहरूपा देवता “जग्राह गृहीतवती “तस्याः देवतायाः सकाशाद्धे “इन्द्राग्नी “एनं “प्र “मुमुक्तं प्रमोचयतम् ॥
 
 
Line ४८ ⟶ ५३:
 
तम् । आ । हरामि । निःऽऋतेः । उपऽस्थात् । अस्पार्षम् । एनम् । शतऽशारदाय ॥२
 
“यदि स रोगग्रस्तः “क्षितायुः क्षीणायुर्भवति “यदि “वा “परेतः अस्माल्लोकात् परागतो भवति “यदि च “मृत्योः वैवस्वतस्य “अन्तिकं निकटं “नीतः नितरां प्राप्तः “एव भवति एवंभूतमपि “तं पुरुषं “निऋतेः पापदेवताया आयुषः क्षयकारिण्याः “उपस्थात् उपस्थानात “आ “हरामि आनाययामि आवर्तयामि । आहृत्य च “एनं “शतशारदाय शतसंवत्सरजीवनार्थम् “अस्पार्षं प्रबलं करोमि ।' स्पृ प्रीतिबलनयोः ।
 
 
Line ६१ ⟶ ६८:
 
शतम् । यथा । इमम् । शरदः । नयाति । इन्द्रः । विश्वस्य । दुःऽइतस्य । पारम् ॥३
 
“सहस्राक्षेण । सहस्रमिति बहुनाम । सहस्रमक्षीणि चक्षूंषि यस्य हविषः फलत्वेन विद्यन्ते तत् सहस्राक्षम् ॥ ‘ बहुव्रीहौ सक्थ्यक्ष्णोः ' (पा. सू. ५, ४. ११३) इति पच् समासान्तः । शरदः संबन्धी शारदः संवत्सरः। शतं शारदा यस्य तत्तथोक्तम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अत एव “शतायुषा शतसंवत्सरपरिमितमायुर्जीवनं फलभूतं यस्य तादृशेन “हविषा । यद्वा । सहस्राक्ष इन्द्रः । तेन शतशारदेन शरदां संवत्सराणां शतस्य दातृत्वेन संबन्धिना कर्त्रा शतायुषा हविषा करणभूतेन । “एनं यक्ष्मगृहीतम् “आहार्षं रोगादनैषम् । “यथा येन प्रकारेण “इमं पुरुषं या “शतं “शरदः संवत्सरान् । अत्यन्तसंयोगे द्वितीया । एतावन्तं कालम् “इन्द्रो “विश्वस्य सर्वस्व “दुरितस्य दुःखस्य “पारम् अवसानं दुःखराहित्यं “नयाति नयेत् तथाहार्षमित्यर्थः ॥
 
 
Line ७४ ⟶ ८३:
 
शतम् । इन्द्राग्नी इति । सविता । बृहस्पतिः । शतऽआयुषा । हविषा । इमम् । पुनः । दुः ॥४
 
हे यक्ष्माद्विमुक्त “वर्धमानः अहरहरभिवृद्धिं प्राप्नुवंस्त्वं “शतं “शरदः शतसंख्याकान् शरदृतून् “जीव प्राणान् धारय । पूर्ववत्यन्तसंयोगे द्वितीया । “शतं “हेमन्तान हेमन्तर्तूंश्च जीव “शतं “वसन्तान् च । उशब्दः समुच्चये । अपि च “इन्द्राग्नी इन्द्रश्चाग्निश्च “सविता प्रेरको देवश्च “बृहस्पतिः बृहतां देवानां पालयिता देवश्व “शतायुषा शतसंवत्सरपरिमितस्यायुषो हेतुभूतेन “हविषा तर्प्यमाणाः सन्तः “इमं जनं “पुनर्दुः पुनरस्मभ्यं प्रादुः ।।
 
 
Line ८८ ⟶ ९९:
सर्वऽअङ्ग । सर्वम् । ते । चक्षुः । सर्वम् । आयुः । च । ते । अविदम् ॥५
 
हे व्याधिगृहीत “त्वा त्वाम् “आहार्षं मृत्योः सकाशादाहृतवानस्मि । अत एव “त्वा त्वाम् “अविदम् अलप्सि । है “पुनर्नव पुनरभिनव “पुनरागाः पुनरस्मत्समीपमागच्छ । हे “सर्वाङ्ग सर्वैरविकलैरङैरुपेत “ते तव “सर्वं “चक्षुः । उपलक्षणमेतत् । इन्द्रियवर्गं सकलम् “अविदं लब्धवानस्मि । “ते तव “आयुः जीवनं “च “सर्वं संपूर्णमविदम् ॥ ॥ १९ ॥
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१६१" इत्यस्माद् प्रतिप्राप्तम्