"ऋग्वेदः सूक्तं १०.१७९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २०:
 
{{सायणभाष्यम्|
‘उत्तिष्ठत ' इति तृचमष्टाविंशं सूक्तमैन्द्रम् । आद्यानुष्टुप् शिष्टे त्रिष्टुभौ । उशीनरपुत्रः शिबिर्नाम राजा प्रथमाया ऋषिः । काशीनामधिपतिः प्रतर्दनो नाम द्वितीयायाः । रोहिदश्वपुत्रो वसुमना नाम तृतीयायाः। तथा चानुक्रान्तम्- उत्तिष्ठतैकर्चाः शिबिरौशीनरः काशिराजः प्रतर्दनो रौहिदश्वो वसुमना आद्यानुष्टुप्' इति । दधिधर्म आद्या वक्तव्या । सूत्रितं च- ‘ होतर्वदस्वेत्युक्त उत्तिष्ठताव पश्यतेत्याह' ( आश्व. श्रौ. ५. १३) इति ॥
 
 
उत्ति॑ष्ठ॒ताव॑ पश्य॒तेन्द्र॑स्य भा॒गमृ॒त्विय॑म् ।
Line ३३ ⟶ ३५:
यदि । श्रातः । जुहोतन । यदि । अश्रातः । ममत्तन ॥१
 
हे ऋत्विजः "उत्तिष्ठत । आसनादूर्ध्वमुत्तिष्ठत । नोपविशत । ऊर्ध्वकर्मत्वादात्मनेपदाभावः (पा. सू. १. ३. २४ )। उत्थाय “ऋत्वियम् ऋतौ वसन्तादिकाले भवम् “इन्द्रस्य “भागं भजनीयं दधिघर्मं पच्यमानम् “अव “पश्यत निरीक्षध्वम् ॥ ऋतुशब्दाद्भवार्थे छन्दसि घस् । 'सिति च ( पा. सू. १, ४, १६ ) इति पदसंज्ञया भसंज्ञाया बाधादोर्गुणाभावः। भजेः कर्मणि घञन्तो भागशब्दः । ‘ कर्षात्वतः०० इत्यन्तोदात्तत्वम् ॥ “यदि स भागः “श्रातः पक्वस्तर्हि “जुहोतन । इन्द्रार्थमग्नौ जुहुत । तप्तनप्तनथनाश्च' इति तस्य तनबादेशः । ‘भीह्री' (पा. सू. ६. १. १९२ ) इत्यादिना पिति प्रत्ययात्पूर्वस्योदात्तत्वम् । “यद्यश्रातः अपक्वः तर्हि “ममत्तन माद्यत । यद्वा । स्तुतिभिर्मादयत । अत्र तेनैव सूत्रेण तनबादेशः ॥
 
 
तस्यैव दधिघर्मस्य ‘श्रातं हविः' इत्येषानुवाक्या । सूत्रितं च- ‘ श्रातं हविरित्युक्तः श्रातं हविरित्यन्वाह ' ( आश्व. श्रौ. ५. १३) इति ॥
 
श्रा॒तं ह॒विरो ष्वि॑न्द्र॒ प्र या॑हि ज॒गाम॒ सूरो॒ अध्व॑नो॒ विम॑ध्यम् ।
Line ४६ ⟶ ५२:
परि । त्वा । आसते । निधिऽभिः । सखायः । कुलऽपाः । न । व्राजऽपतिम् । चरन्तम् ॥२
 
हे “इन्द्र “हविः दधिघर्माख्यं त्वदीयं “श्रातं पक्वम् ॥ ‘ श्रीञ् पाके' इत्यस्मान्निष्टायाम् ‘ अपस्पृधेथाम्' इत्यादौ श्राभावो निपात्यते । “ओ अ उ “सु सुष्ठु “प्र “याहि प्रकर्षेण शीघ्रमागच्छ । “सूरः सूर्यः “अध्वनः गन्तव्यस्य मार्गस्य “विमध्यं विकल मध्यमीषदूनं मध्यभागं “जगाम गतवान् । तव यागार्थं मध्याह्नो जात इत्यर्थः । “सखायः समानख्याना ऋत्विजश्च “निधिभिः निहितैः अभिन्यासादितैः सोमैः सार्धं “त्वा त्वां “परि "आसते पर्युपासते । तत्र दृष्टान्तः । “कुलपा “न कुलस्य वंशस्य रक्षकाः पुत्रा यथा “व्राजपतिम् । व्राजा गन्तव्या गृहाः। तेषां पतिं "चरन्तं गच्छन्तमुपासते तथेत्यर्थः ॥ ‘ व्रज गतौ । अस्मात्कर्मणि घञ् । 'अजिव्रज्योश्च' (पा. सू. ७.३.६०) । इति कुत्वनिषेधः । ‘कर्षांत्वतः” इत्यन्तोदात्तत्वे ‘ पत्यावैश्वर्ये ' इति पूर्वपदप्रकृतिस्वरत्वम् ।
 
 
तस्यैव दधिघर्मस्य ‘ श्रातं मन्ये ' इत्येषा याज्या । सूत्र्यते हि- ‘ श्रातं मन्य ऊधनि श्रातमग्नाविति यजति' (आश्व. श्रौ. ५. १३ ) इति
 
श्रा॒तं म॑न्य॒ ऊध॑नि श्रा॒तम॒ग्नौ सुश्रा॑तं मन्ये॒ तदृ॒तं नवी॑यः ।
Line ५९ ⟶ ६९:
माध्यन्दिनस्य । सवनस्य । दध्नः । पिब । इन्द्र । वज्रिन् । पुरुऽकृत् । जुषाणः ॥३
 
“ऊधनि गोरूधस्येतद्दधिघर्माख्यं हविः पयोरूपेण “श्रातं पक्कमिति “मन्ये जाने । पुनश्च दुग्धं पयः “अग्नौ अपि “श्रातं पक्वम् । इदानीं दध्यवस्थमप्यग्नौ पच्यते । अतः “सुश्रातं सुपक्वमिति “मन्ये जाने । अत एतद्धविः “ऋतं सत्यभूतं "नवीयः नवतरं प्रत्यग्रतरं भवति । हे “वज्रिन् वज्रवन् हे “पुरुकृत् बहुकर्मकृत् “इन्द्र "जुषाणः प्रीयमाणस्त्वं “माध्यंदिनस्य मध्यंदिने भवस्य “सवनस्य सोमस्य संबन्धिनः “दध्नः । कर्मणि षष्ठी । दधिघर्माख्यं हविः “ पिब ॥ ॥ ३७॥
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१७९" इत्यस्माद् प्रतिप्राप्तम्