"ऋग्वेदः सूक्तं १.७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३२:
 
{{सायणभाष्यम्|
‘इन्द्रम्' इत्यादिकं दशर्चं यत् सूक्तं तत् ‘सुरूपकृत्नुम्' इत्यादिषु चतुर्थम्। ऋषिच्छन्दोदेवता विनियोगश्च पूर्ववत् । विशेषविनियोगस्तूच्यते । महाव्रते निष्केवल्यशस्त्रे ‘इन्द्रमिद्गाथिनः' इति सूक्तम् । तथा च पञ्चमारण्यके सूत्रितं- शिरो गायत्रमिन्द्रमिद्गाथिनः' (ऐ. आ. ५. २. १ ) इति । तथा चतुर्विंशेऽहनि ब्राह्मणाच्छंसिनः शस्त्रे ‘इन्द्रमिद्गाथिनः ' इति षळहस्तोत्रियस्तृचः । चतुर्विंशे होताजनिष्ट' इत्युपक्रम्य ' आ याहि सुषुमा हि त इन्द्रमिद्गाथिनो बृहत् ' (आश्व. श्रौ. ७. २) इति सूत्रितत्वात् । अतिरात्रे प्रथमे पर्यायेऽच्छावाकशस्त्रेऽयमेव तृचोऽनुरूपः । सूत्रितं च - इन्द्राय मद्वने सुतमिन्द्रमिद्गाथिनो बृहत् ' ( आश्व. श्रौ. ६. ४ ) इति ॥
 
 
इन्द्र॒मिद्गा॒थिनो॑ बृ॒हदिन्द्र॑म॒र्केभि॑र॒र्किण॑ः ।
 
Line ४३ ⟶ ४६:
 
इन्द्रम् । वाणीः । अनूषत ॥१
 
“गाथिनः गीयमानसामयुक्ता उद्गातारः “इन्द्रमित् इन्द्रमेव "बृहत् ‘त्वामिद्धि हवामहे ( ऋ. सं. ६. ४६. १ ) इत्यस्यामृचि उत्पन्नेन बृहन्नामकेन साम्ना “अनूषत स्तुतवन्तः । “अर्किणः अर्चनहेतुमन्त्रोपेता होतारः “अर्केभिः ऋग्रूपैर्मन्त्रैः “इन्द्रम् एव अनूषत । ये त्ववशिष्ट अध्वर्यवस्ते “वाणीः वाग्भिर्यजूरूपाभिः “इन्द्रम् एव अनूषत । अर्कशब्दस्य मन्त्रपरत्वं यास्केनोक्तम्- अर्को मन्त्रो भवति यदेनेनार्चन्ति' (निरु. ५. ४ ) इति। ‘ श्लोकः' इत्यादिषु सप्तपञ्चाशत्सु वाङ्नामसु ‘वाशी वाणी ( नि. १. ११. १२ ) इति पठितम् ॥ गाथिनः । ‘ उषिकुषिगार्तिभ्यस्थन् ' ( उ. सू. २. १६१ ) इति गायतेः थन्प्रत्ययः । नित्त्वादाद्युदात्तः । गाथा एषां सन्तीति गाथिनः । ‘ व्रीह्यादिभ्यश्च ' (पा. सू. ५. २. ११६) इति इनिः । प्रत्ययस्वरेण इकार उदात्तः । स च सति शिष्टः । बृहत् बृहता। तृतीयैकवचनस्य ‘सुपां सुलुक्° ' इति लुक् । • पृषद्बृहन्महज्जगच्छतृवच्च' ( उ. सू. २. २४१ ) इत्यन्तोदात्तो निपातितः । अर्केभिः । ‘ अर्च पूजायाम् । अर्च्यते एभिः इति अर्का मन्त्राः । ' पुंसि संज्ञायां घः प्रायेण ' (पा. सू. ३. ३. ११८ ) इति घः । ‘ चजोः कु घिण्ण्यतोः (पा. सू. ७. ३. ५२ ) इति कुत्वम् । प्रत्ययस्वरेणान्तोदात्तः । ‘ बहुलं छन्दसि ' ( पा. सू. ७. १. १०) इति भिस ऐसादेशो न भवति । अर्काः स्तुतिसाधनभूता मन्त्रा एषां सन्तीति अर्किणः । वाणीः । ‘वृषादीनां च' ( पा. सू. ६. १. २०३ ) इत्याद्युदात्तः । दीर्घाज्जसि च' ( पा. सू. ६. १. १०५ ) इति पूर्वसवर्णदीर्घनिषेधस्य ' वा छन्दसि ' ( पा. सू. ६. १. १०६ ) इति विकल्पितत्वात् दीर्घत्वम् । तृतीयार्थे प्रथमा । अनूषत । ‘णु स्तुतौ ।' णो नः ' ( पा. सू. ६. १. ६५ ) इति नत्वम् । लुङि व्यत्ययेनात्मनेपदम् । झस्य अदादेशः (पा. सू. ७. १. ५)। सिचः इडभावः उकारस्य दीर्घत्वं च छान्दसम् । धातोः कुटादित्वात् सिचो ङित्त्वेन (पा. सू. १.२.१) गुणाभावः (पा. सू. १. १. ५) ॥
 
 
Line ५६ ⟶ ६१:
 
इन्द्रः । वज्री । हिरण्ययः ॥२
 
“इन्द्र “इत् इन्द्र एव “हर्योः हरिनामकयोरश्वयोः “सचा सह युगपत् “आ "संमिश्लः सर्वतः सम्यग्मिश्रयिता । कीदृशोर्हर्योः । “वचोयुजा । इन्द्रस्य वचनमात्रेण रथे युज्यमानयोः सुशिक्षितयोरित्यर्थः। अयम् “इन्द्रः वज्री वज्रयुक्तः “हिरण्ययः हिरण्मयः सर्वाभरणभूषित इत्यर्थः ॥ हर्योः । हरतः इति हरी । इन् । नित्त्वादाद्युदात्तः । 'सचा सह' ( निरु. ५. ५) इत्युक्तम् । संमिश्लः । मिश्रणं मिश्रः । मिश्रयतेर्घञ् (पा. सू. ३. ३. १८ ) । सम्यक् मिश्रो यस्यासौ संमिश्रः । लत्वं छान्दसम् । सम्यक् मिश्रयितेत्यर्थः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वचोयुजा ।। वचसा युज्येते इति वचोयुजौ । तयोः षष्ठीद्विवचनस्य ‘सुपां सुलुक्' इति आकारादेशः । युज्शब्दो धातुस्वरेणान्तोदात्तः । कृदुत्तरपदप्रकृतिस्वरेण स एव शिष्यते । वज्री । वज्रमस्यास्ति । अत इनिठनौ' (पा. सू. ५. २. ११५) प्रत्ययस्वरः । हिरण्ययः । ‘ ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि च्छन्दसि' (पा. सू. ६. ४. १७५ ) इति हिरण्यमयशब्दस्य मकारलोपो निपात्यते । अकारः प्रत्ययस्वरेण उदात्तः । पूर्वेण अनुदात्तेन सह ‘ एकादेश उदात्तेनोदात्तः' इत्युदात्तः ।।
 
 
Line ६९ ⟶ ७६:
 
वि । गोभिः । अद्रिम् । ऐरयत् ॥३
 
अयम् “इन्द्रः “दीर्घाय प्रौढाय निरन्तराय “चक्षसे दर्शनाय दिवि द्युलोके "सूर्यम् "आ "रोहयत् । पुरा वृत्रासुरेण जगति यत् आपातितं तमस्तन्निवारणेन प्राणिनां दृष्टिसिद्धयर्थमादित्यं द्युलोके स्थापितवानित्यर्थः । स च सूर्यः "गोभिः स्वकीयरश्मिभिः “अद्रिं पर्वतप्रमुखं सर्वं जगत् “वि “ऐरयत् विशेषेण दर्शनार्थं प्रेरितवान् प्रकाशितवानित्यर्थः । अथवा इन्द्रः एव गोभिः जलैर्निमित्तभूतैः अद्रिं मेघं व्यैरयत् विशेषेण प्रेरितवान् । पञ्चदशसंख्याकेषु रश्मिनामसु ' खेदयः किरणाः गावः ' ( नि. १. ५. ३ ) इति पठितम् । त्रिंशत्संख्याकेषु मेघनामसु ‘अद्रिः ग्रावा' (नि. १. १०.१ ) इति पठितम् ॥ दीर्घाय । प्रातिपदिकस्वरेणान्तोदात्तः । चक्षसे । चक्षेः ‘ सर्वधातुभ्योऽसुन्' ( उ. सू. ४. ६२८ ) इति असुन् । बहुलग्रहणात् ख्याञादेशाभावः । नित्त्वादाद्युदात्तः । सूर्यम् । सुवति प्रेरयतीति सूर्यः । ‘ षू प्रेरणे'। ‘धात्वादेः षः सः' । ‘राजसूयसूर्य ' (पा. सू. ३. १. ११४) इत्यादिना क्यप्प्रत्ययः, तस्य रुडागमश्च निपात्यते । क्यपः कित्त्वाद्गुणाभावः । पित्त्वादनुदात्तत्वम् । धातुस्वर एव शिष्यते । रोहयत् । रुहेः ण्यन्तात् लङि ‘बहुलं छन्दस्यमाङयोगेऽपि' ( पा. सू. ६. ४. ७५ ) इत्यडभावो निघातश्च । दिवि । ऊडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् । अद्रिम् । अदिशदिभूशुभिभ्यः क्रिन्' (उ. सू. ४. ५०५) इति क्रिन्प्रत्ययः । अदन्ति पशवस्तृणादिकमत्र इति अद्रिः । नित्त्वादाद्युदात्तत्वम् । ऐरयत् ।' ईर गतौ' । ण्यन्तात् लङ् । निघातः ॥
 
 
Line ८२ ⟶ ९१:
 
उग्रः । उग्राभिः । ऊतिऽभिः ॥४
 
हे “इन्द्र “उग्रः शत्रुभिरप्रधृष्यस्त्वम् “उग्राभिः अप्रधृष्याभिः “ऊतिभिः अस्मद्विषयरक्षाभिः “वाजेषु युद्धेषु “नः अस्मान् “अव रक्ष। तथा “सहस्रप्रधनेषु “च । सहस्रसंख्याकगजाश्वादिलाभयुक्तेषु महायुद्धेष्वपि रक्ष ॥ वाजेषु ।' वृषादीनां च ' (पा. सू. ६. १. २०३) इत्याद्युदात्तत्वम् । नोऽव । नसः सकारस्य रुत्वोत्वगुणेषु ' प्रकृत्यान्तःपादम् ' ( पा. सू. ६. १. ११५) इति प्रकृतिभावो न भवति अव्यपरे ' इति निषेधात् । अव । 'अव रक्षणे'। “ तिङ्ङतिङः' इति निघातः । यद्यपि सहस्रप्रधनेषु च अव इति अध्याहृतां क्रियामपेक्ष्य प्रथमायाः श्रूयमाणाया अव इति क्रियायाः ‘चवायोगे प्रथमा ' (पा. सू. ८. १. ५९) इति निघातनिषेधः प्राप्तः, तथापि वाजेषु इत्यत्र चकारस्य लुप्तत्वात् ' चादिलोपे विभाषा ' ( पा. सू. ८. १. ६३ ) इति निषेधस्य विकल्पितत्वादत्र निघातः प्रवर्तते । सहस्रशब्दः ‘ कर्दमादीनां च ' ( फि. सू. ५९ ) इति मध्योदात्तः । सहस्रप्रधनेषु वाजेषु । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । उग्रः।' उच समवाये । चस्य गः। ‘ ऋज्रेन्द्रा ' ( उ. सू. २. १८६ ) इति रन् । व्यत्ययेनान्तोदात्तः । ऊतिभिः । ऊतियूति° ' इत्यादिना क्तिन् उदात्तः ॥
 
 
Line ९५ ⟶ १०६:
 
युजम् । वृत्रेषु । वज्रिणम् ॥५
 
“वयम् अनुष्ठातारः “महाधने प्रभूतधननिमित्तम् “इन्द्रं “हवामहे आह्वयामः । “अर्भे अर्भके स्वल्पेऽपि धने निमित्तभूते सति “इन्द्रं हवामहे । कीदृशमिन्द्रम् । “युजं सहकारिणं समाहितं वा “वृत्रेषु शत्रुषु धनलाभविरोधिषु प्राप्तेषु तन्निवारणाय “वज्रिणं वज्रोपेतम् ॥ महाधनशब्दो यद्यपि संग्रामनामसु पठितस्तथापि महत् धनम् अत्र संग्रामे इति बहुव्रीहित्वे सति अन्तोदात्तत्वासिद्धेः नात्र तत् गृहीतम् । महाधने । महच्च तद्धनं चेति ‘समासस्य ' ( पा. सू. ६. १. २२३) इत्यन्तोदात्तः । अर्भे । “अर्तिगॄभ्यां भन्' (उ. सू. ३. ४३२ )। नित्त्वादाद्युदात्तः । हवामहे । 'ह्वेञ् स्पर्धायां शब्दे च ' । ञित्त्वात् कर्त्रभिप्राये ( पा. सू. १. ३. ७२ ) आत्मनेपदम् । लटः स्थाने महिङ् (पा. सू. ३. ४. ७८ )। ‘टित आत्मनेपदानाम् ' (पा. सू. ३. ४. ७९ ) इति टेः एत्वम् । कर्तरि शप् ( पा. सू. ३. १. ६८)। ‘ह्वः संप्रसारणम्' ( पा. सू. ६. १. ३२ ) इत्यनुवृत्तौ बहुलं छन्दसि' (पा. सू. ६. १. ३४ ) इति संप्रसारणं वकारस्य उकारः । परपूर्वत्वम् । गुणावादेशौ । अतो दीर्घो यञि ' ( पा. सू. ७. ३. १०१ ) इति दीर्घत्वम् । तिङ्ङतिङः' इति निघातः । युजम् । युज समाधौ ' इत्यस्य क्विप् ।' युजेरसमासे' (पा. सू. ७. १. ७१ ) इति नुम् न भवति । स हि युजेः इति निर्देशात् इकाररहितस्य न भवति । ‘अनित्यमागमशासनम् ' ( परिभा. ९३. २ ) इति वा ‘ युजिर् योगे' इत्यस्यापि नुम् न भवति । वृत्रेषु । ' वृतु वर्तने' । प्रतिकूलतया वर्तन्ते इति वृत्राणि शत्रुकुलानि ।' स्फायितञ्चि°' (उ. सू. २. १७०) इत्यादिना रक्प्रत्ययः । कित्त्वाद्गुणाभावः । प्रत्ययस्वरः । वज्रिणम् । अत इनिठनौ' ( पा. सू. ५. २. ११५ ) इति इनिः। प्रत्ययस्वरः ॥ ॥ १३ ॥
 
 
Line १०८ ⟶ १२१:
 
अस्मभ्यम् । अप्रतिऽस्कुतः ॥६
 
हे “सत्रादावन् अस्मदभीष्टानां सर्वेषां फलानां सह प्रदातः अतो व्रीह्यादिनिष्पत्यर्थं हे “वृषन् वृष्टिप्रदेन्द्र “नः अस्मदर्थम् “अमुं दृश्यमानं “चरुं मेघम् “अपा “वृधि उद्घाटय । तथैव “अस्मभ्यम् अस्मदर्थम् “अप्रतिष्कुतः प्रतिशब्दरहितः । यद्यत् अस्माभिर्याच्यते तत्र सर्वत्र नेति प्रतिशब्दं नोच्चारयति । अतोऽस्मद्विषये कदाचिदपि अप्रतिस्खलितः । एतदेवाभिप्रेत्य यास्क आह - ‘ अप्रतिष्कुतोऽप्रतिष्कृतोऽप्रतिस्खलितो वा ' ( निरु. ६. १६) इति । वृषन् । आमन्त्रितनिघातः । अमुम् । प्रातिपदिकस्वरेणान्तोदात्तः । चरुम् । चरतीति चरुः ।“ भृमृशीतॄचरित्सरितनिधनिमिमस्जिभ्य उः' ( उ. सू. १. ७ ) इति उप्रत्ययः । प्रत्ययस्वरेणान्तोदात्तः । सत्रादावन् । सत्राशब्दः सहार्थे । अभिमतफलजातं सकलं सह ददातीति सत्रादावा। ‘ आतो मनिन्क्वनिब्बनिपश्च' (पा. सू. ३. २. ७४) इति वनिप् । ‘ आमन्त्रितस्य च ' ( पा. सू. ६. १. १९८) इत्याद्युदात्तत्वम् । पादादित्वान्न निघातः । अप । 'निपातस्य च' (पा. सू. ६. ३. १३६ ) इति दीर्घः । निपात आद्युदात्तः । वृधि। ‘वृञ् वरणे '। लोटः सिप् । तस्य ‘सेर्ह्यपिच्च' ( पा. सू. ३. ४. ८७ ) इति हिः । ‘ स्वादिभ्यः श्नुः ' (पा. सू. ३. १. ७३) । तस्य ‘बहुलं छन्दसि' ( पा. सू. २. ४. ७३ ) इति लुक् ।' श्रुशृणुपॄकृबृभ्यश्छन्दसि' ( पा. सू. ६. ४. १०२ ) इति हेर्धिरादेशः । तस्य ङित्त्वात् पूर्वस्य गुणाभावः । निघातः । अस्मभ्यम् । अस्मच्छब्दात् 'भ्यसो भ्यम्' ( पा. सू. ७. १. ३० ) इति भ्यमादेशः । शेषे लोपः' (पा. सू. ७. २.९०) इति दकारलोपः। ‘ बहुवचने झल्येत्' ( पा. सू. ७. ३. १०३ ) इति एत्वं न भवति । अङ्गवृत्ते पुनर्वृत्तावविधिर्निष्ठितस्य' ( पा. म. ७.१. ३० ) इत्युक्तम् । प्रातिपदिकस्वरेण स्म इत्यकार उदात्तः । ‘भ्यसोऽभ्यम्' इति अभ्यमादेशपक्षे “ शेषे लोपः' इति मपर्यन्तशेषस्य अद्शब्दस्य लोपः । तदा उदात्तनिवृत्तिस्वरेण अभ्यमः आदेः अकारस्योदात्तत्वम् ( पा. सू. ६. १. १६१ ) । अप्रतिष्कुतः केनचिदप्रतिशब्दितः । ‘ कुङ् शब्दे'। निष्ठा' ( पा. सू. ३. २. १०२ ) इति कर्मणि क्तप्रत्ययः । प्रतेः प्राक्प्रयोगः । पारस्करादेराकृतिगणत्वात् सुडागमः (पा. सू. ६. १. १५७ )। सुषामादेराकृतिगणत्वात् षत्वम् (पा. सू. ८. ३. ९८)। नञ्समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् ।।
 
 
Line १२१ ⟶ १३६:
 
न । विन्धे । अस्य । सुऽस्तुतिम् ॥७
 
“तुञ्जेतुञ्जे तस्मिंस्तस्मिन् फलदातरि देवान्तरे “ये “स्तोमाः स्तोत्रविशेषाः "उत्तरे उत्कृष्टाः सन्ति तैः स्तोमैः सर्वैरपि “वज्रिणः वज्रयुक्तस्य “अस्य “इन्द्रस्य “सुष्टुतिं योग्यां शोभनस्तुतिं “न “विन्धे न विन्दामि । इन्द्रस्यात्यन्तगुणबाहुल्येन देवान्तरेषूत्तमत्वेन प्रसिद्धान्यपि स्तोत्राणि न पर्याप्तानीत्यर्थः । एतामृचं यास्क एवं व्याचष्टे – तुञ्जस्तुञ्जतेर्दानकर्मणः। दाने दाने य उत्तरे स्तोमा इन्द्रस्य वज्रिणो नास्य तैर्विन्दामि समाप्तिं स्तुतेः' ( निरु. ६. १७-१८) इति ॥ तुञ्जेतुञ्जे । तुञ्जतिर्दानकर्मा इत्युक्तम् । ततः कर्तरि पचाद्यच् ( पा. सू. ३. १. १३४ )। ‘चितः' (पा. सू. ६. १.१६३ ) इत्यन्तोदात्तत्वम् । नित्यवीप्सयोः' (पा. सू. ८. १. ४ ) इति द्विर्भावः। तस्य परमाम्रेडितम्' ( पा. सू. ८. १. २ ) इति द्वितीयस्याम्रेडितसंज्ञा । ‘ अनुदात्तं च ' ( पा. सू. ८. १. ३ ) इत्यनुदात्तत्वम् । दातरि दातरीत्यर्थः । निरुक्ते तु • दाने दाने' इत्यर्थतो व्याख्यानम् । उत्तरे । ‘ तॄ प्लवनतरणयोः '। भावे ‘ऋदोरप्' (पा. सू. ३. ३. ५७) । उच्छब्द उत्कृष्टवचनः । उत्कृष्टः तरो यस्येति बहुव्रीहिः । उच्छब्दो ‘निपाता आद्युदात्ताः' (फि. सू. ८० ) इत्याद्युदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । स्तोमाः ।' अर्तिस्तुसु° ' (उ. सू. १. १३७) इत्यादिना स्तोमशब्दो मनन्तो नित्त्वादाद्युदात्तः । विन्धे । “वि लाभे'। लट् । स्वरितेत्त्वादात्मनेपदम् । उत्तमैकवचनमिट् (पा. सू. ३. ४. ७८ )। तुदादिभ्यः शः ' (पा. सू. ३. १. ७७)। ‘शे मुचादीनाम् ' ( पा. सू. ७. १. ५९ ) इति नुम् । दकारस्य व्यत्ययेन धकारः । अस्य । प्रकृतस्येन्द्रस्य परामर्शादन्वादेशे इदमोऽश् (पा. सू. २. ४. ३२)। शित्त्वात् सर्वादेशोऽनुदात्तः । सुष्टुतिम् । ‘ ष्टुञ् स्तुतौ'।' धात्वादेः षः सः । इति सत्वम् । ‘ स्त्रियां क्तिन् ' ( पा. सू. ३. ३. ९४ ) इति भावे क्तिन् । सु इति उदात्तेनोपसर्गेण प्रादिसमासः (पा. सू. २. २. १८)। ' उपसर्गात्सुनोति' (पा. सू. ८. ३. ६५) इत्यादिना षत्वम् । अत्र अव्ययपूर्वपदप्रकृतिस्वरत्वेन सोः प्राप्तमुदात्तत्वं बाधित्वा ‘ गतिकारकोपपदात्कृत्' इत्युत्तरपदप्रकृतिस्वरेण धातोरुदात्तत्वे प्राप्ते तदपवादत्वेन ‘तादौ च निति कृत्यतौ ' ( पा. सू. ६. २. ५०) इत्यनन्तरस्य गतिसंज्ञकस्य सोः एव उदात्तत्वेन भवितव्यम् । तत्तु मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः ' ( पा. सू. ६. २. १५१ ) इत्युत्तरपदान्तोदात्तत्वेन बाध्यते । तथा च ‘ सुहवां सुष्टुती हुवे ' ( ऋ. सं. २. ३२. ४ ), ‘ वृष्णे चोदस्व सुष्टुतिम् ' ( ऋ. सं. ८. ७५. ६ ), ‘यास्ते राके सुमतयः ' ( ऋ. सं. २. ३२. ५ ) इत्यादौ अन्तोदात्तत्वमित्याहुः । यथा तु ‘ मन्क्तिन् ' इत्यादौ वृत्तौ उक्तं तथैव तन्न घटते इति लक्ष्यते । तत्र हि ‘ कारकाद्दत्तश्रुतयोरेवाशिषि ' ( पा. सू. ६. २. १४८ ) इत्यतः ‘कारकात्' इत्यनुवृत्तेः ' पाणिनिकृतिः इत्यादावेव ‘मन्क्तिन्' इत्यादिसूत्रमित्युक्तम् । कारकादित्येव । प्रकृतिः प्रहृतिः' (का. ६. २. १५१) इति च प्रत्युदाहृतम् । स्यादेतत् । स्तूयतेऽनयेति स्तुतिरिति क्तिना करणभूता ऋक् अभिधीयते । सुशब्देन च करणमेव विशेष्यते न धात्वर्थः । तथा चे सुष्टुतिरित्यत्र सुशब्दः कारकपर एव भविष्यति । प्रकृतिः प्रकृतिरित्यादौ तु प्रशब्दो धात्वर्थे विशेषणमेवेति तत्प्रत्युदाहरणोपपत्तिरिति । न । एवं सति सुशब्दस्य क्रियायोगाभावात् ' उपसर्गाः क्रियायोगे ' ( पा. सू. १. ४. ५९ ) इत्युक्ता उपसर्गसंज्ञा न स्याञ् । तथा च ‘ उपसर्गात्सुनोति सुवति' इत्यादिना षत्वं न स्यात् । ननु क्तिना करणमभिधीयते । क्रियासाधनं च करणम् । तथा च करणविशेषणस्यापि सुशब्दस्य करणान्तर्गतक्रियायोगादुपसर्गता भविष्यतीति । न । तथा सति यत्क्रियायुक्ताः तं प्रति उपसर्गसंज्ञका: ( पा. सू. १. ४. ६०. ३ ) इति करोत्यर्थमेव प्रति सोरुपसर्गता, न तु स्तुधात्वर्थं प्रतीत्यस्य षत्वं न स्यादेव । ननु स्तुधात्वर्थद्वारैव तत्करणस्य सुशब्दो विशेषणं भविष्यति। या हि शोभना स्तुतिस्तत्करणमपि शोभनमेवेति । एवं या स्तुधात्वर्थसंबन्धात् तं प्रति उपसर्गत्वेन षत्वमपि भविष्यति । तद्वारा करणविशेषणत्वात् कारकवचनोऽपि सुशब्दो भविष्यतीति वृत्त्यविरोधेनैव मन्क्तिनादिसूत्रस्य सुष्टुतिशब्दो विषयो भविष्यति । प्रकृतिः प्रहृतिरित्यत्र भावे क्तिन् प्रत्युदाहृतेति। न । तत्र प्रशब्दस्य करणपरत्वम्। करणे क्तिनुदाहरणेऽपि धात्वर्थमात्रविशेषणतैव विवक्षिता न तद्वारा प्रत्ययार्थविशेषणतापि इति तत्प्रत्युदाहरणोपपत्तिरिति । सुष्टुतिरित्यत्र पुनः क्तिनभिधेयकरणपर्यन्तं सुशब्दस्य व्यापार इत्युदाहरणतैव न प्रत्युदाहरणतेति । न । किमत्र सुशब्दः श्रुत्यैव प्रकृतिप्रत्ययार्थोभयविशेषणपरः, उत श्रुत्या एकं विशिनष्टि अर्थादितरदिति । यदाप्युभयपरत्वं तदापि किं यौगपद्येन उत क्रमेणेति । आद्ये प्रतिविशेष्यं विशेषणपदावृत्तिरिति प्रसङ्गः । द्वितीये विरम्यव्यापारापातः । न च शब्दबुद्धिकर्मणां विरम्यव्यापारः कस्यचित् दृष्टः इष्टो वा । अतो न श्रुत्या उभयपरत्वम् । अथैकत्र श्रुत्या तात्पर्यम् , अपरत्र तु अर्थादिति । तत्र धात्वर्थसंबन्धस्य आर्थिकत्वे षत्वासिद्धिः । प्रत्ययार्थसंबन्धस्य आर्थिकत्वे ‘मन्क्तिन्' इत्यादिस्वरासिद्धिः। आर्थिकेनापि कारकसंबन्धेवोदाहरणत्वाभिधाने प्रकृतिः प्रहृतिरित्यादिप्रत्युदाहरणं न स्यात् । श्रुत्या धात्वर्थमात्रसंबन्धस्यापि प्रशब्दस्यार्थात् तत्करणसंबन्धः केन वारयितुं शक्यते इत्येषा दिक् । अत इह प्रत्ययार्थमात्रसंबन्धपरत्वाङ्गीकारेण स्वरः सिध्यतु षत्वं तु छान्दसमस्तु । शोभना स्तुतिर्यस्यामिति बहुव्रीहिर्वा भवतु । एवं च ‘ नञ्सुभ्याम् ' इत्यन्तोदात्तं भविष्यति । अथवा सुष्टु स्तुवन्तीति सुष्टुतय इति करणभूता ऋचः स्तुतिशब्देनोच्यन्ते । “क्तिच्क्तौ च संज्ञायाम् ' ( पा. सू. ३. ३. १७४ ) इति क्तिच्प्रत्यये सति चित्त्वादन्तोदात्तता भविष्यति । न च करणीभूतानामृचां कर्तृप्रत्ययेन क्तिचा कथमभिधानमिति वाच्यम् । काष्ठानि पचन्तीतिवत् तासामपि स्वव्यापारप्राधान्यविवक्षया करणत्वोपपत्तेरिति ॥
 
 
Line १३४ ⟶ १५१:
 
ईशानः । अप्रतिऽस्कुतः ॥८
 
“वृषा कामानां वर्षितेन्द्रः “ओजसा स्वकीयबलेनानुग्रहीतुं “कृष्टी: मनुष्यान् “इयर्ति प्राप्नोति । कीदृश इन्द्रः । "ईशानः समर्थः "अप्रतिष्कुतः प्रतिशब्दरहितः । याच्यमानं न परिहरतीत्यर्थः । इन्द्रस्य दृष्टान्तः । “वंसगः वननीयगतिर्वृषभः "यूथेव गोयूथानि यथा प्राप्नोति तद्वत् ॥ वृषा। ‘कनिन्युवृषितक्षिधन्विराजिद्युप्रतिदिवः' (उ. सू. १. १५४ ) इति वर्षतेः कनिन्प्रत्ययः । कित्त्वाद्गुणाभावः । नित्त्वादाद्युदात्तः । यूथा इव । युवन्ति मिश्रीभवन्तीति यूथानि । ' यु मिश्रणामिश्रणयोः । ‘ तिथपृष्ठगूथयूथप्रोथाः' ( उ. सू. २. १६९ ) इति थक्प्रत्ययान्तो निपातितः । निपातनाद्दीर्घत्वम् । प्रत्ययस्वरेण आकार उदात्तः । ‘शेश्छन्दसि बहुलम्' ( पा. सू. ६. १. ७०) इति लुक् । ‘ इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम्' ( पा. सू. २. १. ४. २ ) इति समासेऽपि स एव स्वरः । वंसगः । पृषोदरादित्वात् अभिमतरूपस्वरसिद्धिः (पा. सू. ६. ३. १०९)। कर्षन्तीति कृष्टयः । ‘क्तिच्क्तौ च संज्ञायाम्' इति क्तिच् । चित्त्वादन्तोदात्तः । इयर्ति । ऋ सृ गतौ । तिप् । शपः श्लुः । ‘ श्लौ' (पा. सू. ६. १. १०) इति द्विर्भावः । अभ्यासस्य उरदत्वहलादिशेषौ (पा. सू. ७. ४. ६६; ६० )। ‘ अर्तिपिपर्त्योश्च' ( पा. सू. ७. ४. ७७) इति अकारस्य इकारः। अभ्यासस्यासवर्णे ' (पा. सू. ६. ४. ७८) इति इयङादेशः । अङ्गस्य गुणो रपररवम् । ओजसा । 'उब्जेर्बलोपश्च' ( उ. सू. ४. ६३१) इत्यसुन तत्संनियोगेन बकारलोपः । लघूपधगुणः (पा. सू. ७. ३. ८६ )। नित्त्वादाद्युदात्तः । ईशानः । ईश ऐश्वर्ये' । लटः शानच् । “अदिप्रभृतिभ्यः शपः' (पा. सू. ३. ४.७२ ) इति शपो लुक् । चितः' इत्यन्तोदात्तं बाधित्वा अनुदात्तेत्वात् लसार्वधातुकानुदात्तत्वेन धातुस्वर एव शिष्यते। अप्रतिष्कुतः अप्रतिशब्दितः । “कु शब्दे । कर्मणि क्तः । पारस्करादित्वात् सुडागमः (पा. सू. ६. १. १५७ )। सुषामादित्वात् षत्वम् ( पा. सू. ८. ३. ९८)। नञ्समासः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥
 
 
Line १४८ ⟶ १६७:
इन्द्रः । पञ्च । क्षितीनाम् ॥९
 
"यः इन्द्रः स्वयम् “एकः एव “चर्षणीनां मनुष्याणाम् “इरज्यति ईष्टे; तथा “वसूनां धनानाम् इरज्यति स “इन्द्रः “पञ्च निषादपञ्चमानां "क्षितीनां निवासार्हाणां वर्णानामनुग्रहीतेति शैषः ॥ एकः ।। ‘ इण् गतौ'। ‘ इण्भीकापाशल्यतिमर्चिभ्यः कन्' ( उ. सू. ३. ३२३ ) इति कन् । बाहुलकात् कलोपाभावः । नित्त्वादाद्युदात्तत्वम् । चर्षणीनाम् । प्रातिपदिकस्वरेणान्तोदात्तः । ‘ अन्तोदात्तात् ' इत्यनुवृत्तौ ' नामन्यतरस्याम्' ( पा. सू. ६. १. १७७ ) इति विभक्तेरुदात्तत्वम् । वसूनाम् । ‘ नित्' इत्यनुवृत्तौ ‘शॄस्वृस्निहित्रप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्च' ( उ. सू. १. १० ) इति उप्रत्ययः । नित्त्वादाद्युदात्तः । इरज्यति । कण्ड्वादिषु ' इरज् ईर्ष्यायाम् । अत्र ऐश्वर्यार्थः । ‘ कण्ड्वादिभ्यो यक्' ( पा. सू. ३. १. २७ )। प्रत्ययस्वरणोदात्तः । पञ्च । 'पचि व्यक्तीकरणे' । ‘पचेश्च' इति कनिन् । नित्त्वादाद्युदात्तः । क्षितीनाम् । प्रातिपदिकस्वरेणान्तोदात्तः । ‘नामन्यतरस्याम्' इति विभक्तेरुदात्तत्वम् ॥
 
 
आश्विनं शंसिष्यन् ‘इन्द्रं वो विश्वतस्परि' इति जुहुयात् । संस्थितेष्वाश्विनाय स्तुवते ' इति खण्डे • बण्महाँ असि सूर्येति द्वाभ्यामिन्द्रं वो विश्वतस्परि' (आश्व. श्रौ. ६. ५) इति सूत्रितम् । चतुर्विंशेऽहनि प्रातःसवने ब्राह्मणाच्छंसिन ‘इन्द्रं वो विश्वतस्परि' इत्यारम्भणीया। चतुर्विंशे ' इत्युपक्रम्य • ऋजुनीती नो वरूण इन्द्रं वो विश्वतस्परि' ( आश्व. श्रौ. ७. २ ) इति सूत्रितम् ॥
 
इन्द्रं॑ वो वि॒श्वत॒स्परि॒ हवा॑महे॒ जने॑भ्यः ।
Line १६१ ⟶ १८४:
अस्माकम् । अस्तु । केवलः ॥१०
 
हे ऋविग्यजमानाः “विश्वतः सर्वेभ्यो “जनेभ्यः “परि उपरि अवस्थितम् “इन्द्रं “वः युष्मदर्थं "हवामहे आह्वयामः । अतः स इन्द्रः “अस्माकं "केवलः असाधारणः "अस्तु । इतरेभ्योऽप्यधिकमनु ग्रहमस्मासु करोत्वित्यर्थः ॥ इन्द्रम् । रन्प्रत्ययान्तो नित्वादाद्युदात्तः । वः । ‘अनुदात्तं सर्वम् । इत्यनुवृत्तौ ‘ बहुवचनस्य वस्नसौ ' (पा. सू. ८. १. २१ ) इति वस् । विश्वतः । ‘ लिति' ( पा. सू. ६. १. १९३) इति प्रत्ययात् पूर्वमुदात्तम् । परि । निपातत्त्वादाद्युदात्तः । संहितायां ‘पञ्चम्याः परावध्यर्थे ' ( पा. सू. ८. ३. ५१ ) इति विसर्जनीयस्य सत्वम् । हवामहे । ह्वेञः शपि ‘ बहुलं छन्दसि ' ( पा. सू. ६. १. ३४ ) इति संप्रसारणपरपूर्वत्वे । गुणावादेशौ । जनेभ्यः । जन्यन्ते इति जनाः । जनयतेः कर्मणि घञ् । 'जनिवध्योश्च' (पा. सू. ७. ३. ३५) इति उपधाया वृद्ध्यभावः । ञित्वादाद्युदात्तत्वम् । अस्माकम् । अस्मच्छब्दोऽन्तोदात्तः । ‘ शेषे लोपः ( पा. सू. ७. २. ९० ) इत्यन्तलोपपक्षे ‘ साम आकम् ' (पा. सू. ७. १. ३३ ) इति आकारेण एकादश उदात्तः । टिलोपपक्षे उदात्तनिवृत्तिस्वरेण आकार उदात्तः । केवलः । वृषादेराकृतिगणत्वादाद्युदात्तः ॥ ॥ १४ ॥ ॥ २ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.७" इत्यस्माद् प्रतिप्राप्तम्