"ऋग्वेदः सूक्तं १.३२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ४३:
 
{{सायणभाष्यम्|
' इन्द्रस्य नु वीर्याणि ' इति पञ्चदशर्चं द्वितीयं सूक्तम् । आङ्गिरसो हिरण्यस्तूप ऋषिः । त्रिष्टुप् छन्दः । इन्द्रो देवता । ‘इन्द्रस्य पञ्चोना' इत्यनुक्रमणिका । अग्निष्टोमे माध्यंदिने सवने निष्केवल्यशस्त्रे ‘इन्द्रस्य नु वीर्याणि ' इति निविद्धानीयं सूक्तम् । ‘निष्केवल्यस्य' इति खण्डे ‘इन्द्रस्य नु वीर्याणीत्येतस्मिन्नैन्द्रीं निविदं दध्यात्' (आश्व. श्रौ. ५. १५) इति । विषुवत्यपि तस्मिन् शस्त्रे एतत् विनियुक्तम् । ‘ विषुवान्दिवः कीर्त्यः' इति खण्डे सूत्रितम् -' इन्द्रस्य नु वीर्याणीति एतस्मिनैन्द्रीं निविदं शस्त्वा ' ( आश्व. श्रौ. ८. ६ ) इति । महाव्रते निष्केवल्येऽप्येतदेव विनियुक्तम् । “राथन्तरो दक्षिणः पक्षः' इति खण्डे ' चतस्रः सतीः षड् बृहतीः करोतीन्द्रस्य नु वीर्याणि प्र वोचम् ' (ऐ. आ. ५. २. २ ) इति ॥
 
 
इन्द्र॑स्य॒ नु वी॒र्या॑णि॒ प्र वो॑चं॒ यानि॑ च॒कार॑ प्रथ॒मानि॑ व॒ज्री ।
Line ५५ ⟶ ५७:
 
अहन् । अहिम् । अनु । अपः । ततर्द । प्र । वक्षणाः । अभिनत् । पर्वतानाम् ॥१
 
"वज्री वज्रयुक्तः इन्द्रः "प्रथमानि पूर्वसिद्धानि मुख्यानि वा "यानि "वीर्याणि पराक्रमयुक्तानि कर्माणि "चकार तस्य “इन्द्रस्य तानि "वीर्याणि "नु क्षिप्रं प्रब्रवीमि । कानि वीर्याणीति तदुच्यते । "अहिं मेघम् "अहन् हतवान् । तदेतदेकं वीर्यम् । "अनु पश्चात् “अपः जलानि “ततर्द हिंसितवान् भूमौ पातितवानित्यर्थः । इदं द्वितीयं वीर्यम् । "पर्वतानां संबन्धिनीः “वक्षणाः प्रवहणशीलाः नदीः “प्र “अभिनत् भिन्नवान् कूलद्वयकर्षणेन प्रवाहितवानित्यर्थः । इदं तृतीयं वीर्यम् । एवमुत्तरत्रापि द्रष्टव्यम् ॥ वीर्याणि । ‘ शूर वीर विक्रान्तौ । ण्यन्तात् ' अचो यत्' इति यत् ।' णेरनिटि ' इति णिलोपः । “तित्स्वरितम्' इति स्वरितत्वम् । यतोऽनावः' इत्याद्युदात्तत्वं न भवति । आद्युदात्तत्वे हि सुशब्देन बहुव्रीहौ ‘आद्युदात्तं द्व्यच्छन्दसि' इत्यनेनैवोत्तरपदाद्युदात्तत्वस्य सिद्धत्वात् ' वीरवीर्यौ च इति पुनस्तद्विधानमनर्थकं स्यात् । अतोऽवगम्यते यतोऽनावः' इत्याद्युदात्तत्वं वीरशब्दे न प्रवर्तते । इति । अतः परिशेषात् “ तित्स्वरितम्' इति प्रत्ययस्य स्वरितत्वमेव । वोचम् । अस्यतिवक्तिख्यातिभ्योऽङ्' इति च्लेः अङादेशः । ‘बहुलं छन्दस्यमाङयोगेऽपि' इति अडभावः । चकार । णलि लित्स्वरेण प्रत्ययात् पूर्वस्योदात्तत्वम् । यद्वृत्तयोगादनिघातः । अहन् । लङि ‘इतश्च' इति इकारलोपे ‘ हल्ङ्याब्भ्यः' इति तकारलोपः । अहिम् । आङ्पूर्वात् हन्तेः ‘आङि श्रिहनिभ्यां ह्रस्वश्च' (उ. सू. ४. ५७७ ) इति इप्रत्ययः; आङो ह्रस्वत्वं च । चशब्देन ‘वेञो डित् , समाने ख्यश्चोदात्तः' इति डित्त्वं पूर्वपदोदात्तत्वं चानुकृष्यते। ततः टिलोपे पूर्वपदस्योदात्तत्वम् । ततर्द। ‘ उतृदिर् हिंसानादरयोः । ‘ तिङ्ङतिङः' इति निघातः । वक्षणाः । वक्ष रोषे'। ‘क्रुधमण्डार्थेभ्यश्च' (पा. सू. ३. २. १५१) इति युच् । चित्स्वरं बाधित्वा व्यत्ययेन प्रत्ययस्वरः ।।
 
 
Line ६८ ⟶ ७२:
 
वाश्राःऽइव । धेनवः । स्यन्दमानाः । अञ्जः । समुद्रम् । अव । जग्मुः । आपः ॥२
 
"पर्वते "शिश्रियाणम् आश्रितम् "अहिं मेघम् "अहन् हतवान् । "अस्मै इन्द्राय "स्वर्यं सुष्ठु प्रेरणीयं यद्वा शब्दनीयं स्तुत्यं "त्वष्टा विश्वकर्मा "वज्रं “ततक्ष तनूकृतवान् । तेन वज्रेण मेघे भिन्ने सति “स्यन्दमानाः प्रस्रवणयुक्ताः "आपः "समुद्रम् "अञ्जः सम्यक् "अव "जग्मुः प्राप्ताः । तत्र दृष्टान्तः । “वाश्राः वत्सान्प्रति हम्भारवोपेताः “धेनवः "इव । यथा धेनवः सहसा वत्सगृहे गच्छन्ति तद्वत् ॥ शिश्रियाणम् ।' श्रिञ् सेवायाम्'। लिटः कानच् । द्विर्भावहलादिशेषेयङादेशाः । 'चितः ' इत्यन्तोदात्तत्वम् । स्वर्यम् । ऋ गतौ ' । अस्मात् सुपूर्वात् ‘ ऋहलोर्ण्यत्' इति ण्यत् ।' संज्ञापूर्वको विधिरनित्यः' इति वृद्ध्यभावः । यद्वा । ' स्वृ शब्दोपतापयोः' इत्यस्मात् ण्यति पूर्ववत् वृद्धयभावः । ‘ तित्स्वरितम्' इति स्वरितत्वम् । वाश्यन्ते इति वाश्राः। ‘वाशृ शब्दे'। ‘ स्फायितञ्चि° ! इत्यादिना रक् । जग्मुः । उसि • गमहन ' इति उपधालोपः ॥
 
 
Line ८१ ⟶ ८७:
 
आ । सायकम् । मघवा । अदत्त । वज्रम् । अहन् । एनम् । प्रथमऽजाम् । अहीनाम् ॥३
 
"वृषायमाणः वृष इवाचरन् इन्द्रः "सोमम् "अवृणीत वृतवान् । "त्रिकद्रुकेषु ज्योतिः गौः आयुः इत्येतन्नामकाः त्रयो यागाः त्रिकद्रुकाः उच्यन्ते । तेषु "सुतस्य अभिषुतस्य सोमस्यांशम् "अपिबत् पीतवान् । "मघवा धनवान् इन्द्रः "सायकं बन्धकं वज्रम् “आ “अदत्त स्वीकृतवान् । तेन च वज्रेण "अहीनां "मेघानां मध्ये "प्रथमजां प्रथमोत्पन्नं मेघम् "अहन् हतवान् ॥ वृषायमाणः । वृष इवाचरन् । ‘ कर्तुः क्यङ् सलोपश्च' (पा. सू. ३. १. ११ ) इति क्यङ्। ‘ अकृत्सार्वधातुकयोः' इति दीर्घः । अदुपदेशात् धातोः अन्तोदात्तत्वे क्यङन्तात् धातोः अन्तोदात्तत्वम् (?)। सायकम् ।' षिञ् बन्धने । सिनोतीति सायकः । ण्वुल्। लित्स्वरेणाद्युदात्तत्वम् । प्रथमजाम् । प्रथमं जायते इति प्रथमजाः । ‘ जनसनखनक्रमगमो विट्'। विड्वनोः' इति आत्वम् ॥
 
 
Line ९४ ⟶ १०२:
 
आत् । सूर्यम् । जनयन् । द्याम् । उषसम् । तादीत्ना । शत्रुम् । न । किल । विवित्से ॥४
 
"उत अपि च हे "इन्द्र "यत् यदा "अहीनां मेघान मध्ये "प्रथमजां प्रथमोत्पन्नं मेघम् "अहन् हतवानसि “आत् तदनन्तरं "मायिनां मायोपेतानामसुराणां संबन्धिनीः "मायाः “प्र “अमिनाः प्रकर्षेण नाशितवानसि । अनन्तरं "सूर्यम् “उषसम् उषःकालं "द्याम् आकाशं च "जनयन् उत्पादयन् अवरकमेघनिवारणेन प्रकाशयन् वर्तसे । “तादीत्ना तदानीम् आवरकान्धकाराभावात् 'शत्रुं घातकं वैरिणं "न “विवित्से "किल त्वं न लब्धवान् खलु ॥ अहन् । हन्तेः लङि • हल्ड्याब्भ्यः' इति सिलोपः । अडागम उदात्तः । यद्वृत्तयोगादनिघातः । मायिनाम् । मायाशब्दस्य व्रीह्यादिषु पाठात् ‘व्रीह्यादिभ्यश्च ' ( पा. सू. ५, २. ११६) इति मत्वर्थीय इनिः । अमिनाः ।' मीञ् हिंसायाम् । क्रैयादिकः । ‘ मीनातेर्निगमे ' (पा. सू. ७. ३. ८१) इति ह्रस्वत्वम् । तादीत्ना। तदानीम् इत्यस्य पृषोदरादित्वात् वर्णविपर्ययः । किल ।' निपातस्य ' इति दीर्घत्वम् । विवित्से। • विद्लृ लाभे' । क्रादिनियमात् प्राप्तः इट् व्यत्ययेन न भवति ॥
 
 
Line १०७ ⟶ ११७:
 
स्कन्धांसिऽइव । कुलिशेन । विऽवृक्णा । अहिः । शयते । उपऽपृक् । पृथिव्याः ॥५
 
अयम् "इन्द्रः "वज्रेण संपादितो यो महान् वधः तेन वज्रेण "वृत्रतरम् अतिशयेन लोकानाम् आवरकम् अन्धकाररूपम्। यद्वा । वृत्रैः आवरणैः सर्वान् शत्रून् तरति तं "वृत्रम् एतन्नामकमसुरं "व्यंसं विगतांसं छिन्नबाहुः यथा भवति तथा “अहन् हतवान् । अंसच्छेदे दृष्टान्तः । "कुलिशेन कुठारेण "विवृक्णा विशेषतश्छिन्नानि 'स्कन्धांसीव । यथा वृक्षस्कन्धाश्छिन्ना भवन्ति तद्वत्। तथा सति "अहिः वृत्रः "पृथिव्याः उपरि “उपपृक् सामीप्येन संपृक्तः "शयते शयनं करोति छिन्नकाष्ठवत् भूमौ पततीत्यर्थः ॥ वृत्रतरम् । ‘ वृतु वर्तने । 'स्फायितञ्चि°' इत्यादिना भावे रक्प्रत्ययान्तो वृत्रशब्दः । वृत्रेण आवरणेन सर्वं तरतीति वृत्रतरः । तरतेः पचाद्यच् । ‘परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् । तरपि तु व्यत्ययेन । व्यंसम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वे ‘ उदात्तस्वरितयोर्यणः' इति स्वरितत्वम् । वधेन । ‘ हनश्च वधः' इति भावे अप्; तत्संनियोगेन धातोः वधादेशः । स च अन्तोदात्तः । अन्त्यस्य अकारस्य ‘ अतो लोपः ' इति लोपः । उदात्तनिवृत्तिस्वरेण प्रत्ययस्योदात्तत्वम् । विवृक्णा । ‘ ओव्रश्चू छेदने । कर्मणि निष्ठा । 'यस्य विभाषा' इति इट्प्रतिषेधः । ‘ ओदितश्च' (पा. सू. ८. २. ४५ ) इति परत्वात् निष्ठानत्वम् । ततो ‘व्रश्चभ्रस्ज° ' इति षत्वे प्राप्ते ‘ निष्ठादेशः षत्वस्वरप्रत्ययेड्विधिषु सिद्धो वक्तव्यः' (पा. सू. ८. २. ६. ७) इति नत्वस्य सिद्धत्वेन झल्परत्वाभावात् षत्वं न भवति । कुत्वे तु कर्तव्ये तदसिद्धमेव (पा. सू. ८. २. १ ) इति ‘चोः कुः' इति कुत्वम् । ‘शेश्छन्दसि बहुलम् इति शेर्लोपः । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । शयते । ‘ बहुलं छन्दसि ' इति शपो लुगभावः । पृथिव्याः । ‘उदात्तयणो हल्पूर्वात् ' इति विभक्तेरुदात्तत्वम् ॥ ॥ ३६ ॥
 
 
Line १२० ⟶ १३२:
 
न । अतारीत् । अस्य । सम्ऽऋतिम् । वधानाम् । सम् । रुजानाः । पिपिषे । इन्द्रऽशत्रुः ॥६
 
“दुर्मदः दुष्टमदोपेतो दर्पयुक्तो वृत्रः "अयोद्धेव योद्धृरहित इव इन्द्रम् "आ "जुह्वे "हि आहूतवान् खलु । कीदृशमिन्द्रम्। "महावीरं गुणैः महान् भूत्वा शौयाँपेतं "तुविबाधं बहूनां बाधकं “ऋजीषं शत्रूणामपार्जकम्। "अस्य ईदृशस्य इन्द्रस्य संबन्धिनो ये शत्रुवधाः सन्ति "तेषां “वधानां "समृतिं संगमं “नातारीत् पूर्वोक्तो दुर्मदः तरीतुं नाशक्नोत् । "इन्द्रशत्रुः इन्द्रः शत्रुर्घातको यस्य वृत्रस्य तादृशो वृत्रः इन्द्रेण हतो नदीषु पतितः सन् "रुजानाः नदीः "सं "पिपिषे सम्यक् पिष्टवान् । सर्वान् लोकानावृण्वतो वृत्रदेहस्य पातेन नदीनां कूलानि तत्रत्यपाषाणादिकं च चूर्णीभूतमित्यर्थः ॥ अयोद्धा इव । न विद्यते योद्धास्येति बहुव्रीहौ' नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । समासान्तविधेरनित्यत्वात् (परिभा. ८४ ) ‘नद्यृतश्च' ( पा. सू. ५. ४. १५३) इति कबभावः । जुह्वे । “ह्वेञ् स्पर्धायां शब्दे च'। ‘ अभ्यस्तस्य च' (पा. सू. ६. १. ३३) इति संप्रसारणम् । उवङादेशाभावश्छान्दसः । यद्वा । ‘ छन्दस्युभयथा' इति सार्वधातुकसंज्ञायां ‘हुश्नुवोः सार्वधातुके' (पा. सू. ६. ४.८७) इति यणादेशः । अत्र लक्षणप्रतिपदोक्तपरिभाषा ( परिभा. १०५ ) लक्ष्यानुरोधान्नाश्रीयते । इतरथा हि आजुह्वानः इत्यादिषु यणादेशो न स्यात् । न चैवं सति ‘ सातये हुवे वाम् ' ( ऋ. सं. ६. ६०. १३ ) इत्यादावपि तथा स्यादिति वाच्यं अनेकाच्त्वाभावात् । अनेकाच इति हि तत्रानुवर्तते । प्रत्ययस्वरेणान्तोदात्तत्वम् ।' हि च ' इति निघातप्रतिषेधः । महावीरम् । महांश्चासौ वीरश्च महावीरः । ‘ आन्महतः० ' ( पा. सू. ६. ३. ४६ ) इति आत्वम् । तुविबाधम् । बाधृ विलोडने ' । तुवीन् प्रभूतान् बाधते इति तुविबाधः । पचाद्यच् । कृदुत्तरपदप्रकृतिस्वरत्वम् । समृतिम् । तादौ च ' इति गतेः प्रकृतिस्वरत्वम्। रुजानाः। ‘रुजो भङ्गे'। रुजन्ति कूलानीति रुजाना नद्यः। ‘रुजाना नद्यो भवन्ति रुजन्ति कूलानि' (निरु. ६. ४) इति यास्कः । व्यत्ययेन शानच् । तुदादिभ्यः शः '। नुमभावश्छान्दसः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे विकरणस्वरः । पिपिषे । पिष्लृ संचूर्णने '। व्यत्ययेन लिट् । इन्द्रशत्रुः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥
 
 
Line १३३ ⟶ १४७:
 
वृष्णः । वध्रिः । प्रतिऽमानम् । बुभूषन् । पुरुऽत्रा । वृत्रः । अशयत् । विऽअस्तः ॥७
 
"अपात् वज्रेण च्छिन्नत्वात् पादरहितः "अहस्तः हस्तरहितः वृत्रः "इन्द्रम् उद्दिश्य "अपृतन्यत् पृतनां युद्धम् ऐच्छत् । द्वेषाधिक्येन बहुधा विद्धोऽपि युद्धं न परित्यक्तवानित्यर्थः। "अस्य हस्तपादहीनस्य वृत्रस्य "सानौ पर्वतसानुसदृशे प्रौढस्कन्धे "अधि उपरि “वज्रम् "आ "जघान इन्द्रः आभिमुख्येन प्रक्षिप्तवान् । अशक्तस्यापि युद्धेच्छायां दृष्टान्तः। “वध्रिः छिन्नमुष्कः पुरुषः "वृष्णः रेतसेचनसमर्थस्य पुरुषान्तरस्य "प्रतिमानं सादृश्यं “बुभूषन् प्राप्तुमिच्छन् यथा न शक्नोति तद्वदयमिति शेषः । सः "वृत्रः “पुरुत्रा बहुष्ववयवेषु "व्यस्तः विविधं क्षिप्तः ताडितः सन् "अशयत् भूमौ पतितवान् ॥ अपात् । बहुव्रीहौ पादशब्दस्य अन्त्यलोपश्छान्दसः । अहस्तः । बहुव्रीहौ ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम्। अपृतन्यत् । सुप आत्मनः क्यच् '। 'कव्यध्वरपृतनस्य ' इति अन्त्यलोपः । बुभूषन् । सनि ग्रहगुहोश्च' (पा. सू. ७. २. १२) इति इट्प्रतिषेधः । पुरुत्रा ।' देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम् ' (पा. सू. ५. ४. ५६) इति सप्तम्यर्थे त्राप्रत्ययः । अशयत् । व्यत्ययेन परस्मैपदम् । ‘ बहुलं छन्दसि ' इति शपो लुगभावः । व्यस्तः । असु क्षेपणे ' इत्यस्मात् कर्मणि क्तः । ' यस्य विभाषा ' इति इट्प्रतिषेधः। ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम्। संहितायाम् ‘ उदात्तस्वरितयोर्यणः' इति परस्यानुदात्तस्य स्वरितत्वम् ॥
 
 
Line १४६ ⟶ १६२:
 
याः । चित् । वृत्रः । महिना । परिऽअतिष्ठत् । तासाम् । अहिः । पत्सुतःशीः । बभूव ॥८
 
"अमुया अमुष्यां पृथिव्यां "शयानं पतितं मृतं वृत्रम् "आपः जलानि "अति "यन्ति अतिक्रम्य गच्छन्ति । तत्र दृष्टान्तः । “भिन्नं बहुधाभिन्नकूलं "नदं "न सिन्धुमिव । यथा वृष्टिकाले प्रभूता आपो नद्याः कुलं भित्त्वा अतिक्रम्य गच्छन्ति तद्वत् । कीदृश्य आपः। “मनो "रुहाणा चित्तमारोहन्त्यः । पुरा वृत्रे जीवति सति तेन निरुद्धा मेघस्थिता आपो भूमौ वृष्टा न भवन्ति तदानीं नॄणां मनः खिद्यते । मृते तु वृत्रे निरोधरहिता आपो वृत्रशरीरमुल्लङ्घ्य प्रवहन्ति। तदा वृष्टिलाभेन मनुष्यास्तुष्यन्तीत्यर्थः। तदेतदुत्तरार्धेन स्पष्टीक्रियते । "वृत्रः जीवनदशायां "महिना स्वकीयेन महिम्ना “याश्चित् या एव मेघगताः अपः "पर्यतिष्ठत् परिवृत्य स्थितवान्, "अहिः वृत्रो मेघः "तासाम् अपां "पत्सुतःशीः पादस्याधःशयानः “बभूव । यद्यप्यपां पादो नास्ति तथाप्यद्भिर्वृत्रस्य अभिलङ्घितत्वात् पादस्याधःशयनमुपपद्यते ॥ मिन्नम् ।' रदाभ्यां निष्ठातो नः° ' (पा. सू. ८. २. ४२) इति नत्वम् । अमुया। ‘सुपां सुलुक्° इति सप्तम्या याजादेशः । शयानम् ।' शीङः सार्वधातुके गुणः ' ( पा. सू. ७. ४. २१ )। धातोर्ङित्त्वात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । रुहाणाः। ‘रुह बीजजन्मनि प्रादुर्भावे'। व्यत्ययेन शानच् । कर्तरि शपि प्राप्ते व्यत्ययेन शः । ‘अनित्यमागमशासनम् ' इति वचनात् मुगभावः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे विकरणस्वरे प्राप्ते व्यत्ययेन धातुस्वरः । महिना । ‘ मह पूजायाम्'। ‘ इन्सर्वधातुभ्यः' इति इन्प्रत्ययः । व्यत्ययेन विभक्तेरुदात्तत्वम् । यद्वा । महिना महिम्ना । महच्छब्दस्य पृथ्वादिषु पाठात् ‘ तस्य भावः' इत्येतस्मिन्नर्थे ' पृथ्वादिभ्य इमनिज्वा' (पा. सू. ५. १.१२२) इति इमनिच्प्रत्ययः । ‘ टेः' इति टिलोपः । ‘ चितः' इत्यन्तोदात्तत्वम् । तृतीयैकवचने अल्लोपे सति उदात्तनिवृत्तिस्वरेण तस्योदात्तत्वम् । मकालोपश्छान्दसः। पत्सुतःशीः । पादस्याधः शेते इति पत्सुतःशीः । ‘ क्विप् च ' इति क्विप् । तसि ‘पद्दन् ' इत्यादिना पादशब्दस्य पदादेशः । ‘ शस्प्रभृतिषु' इति प्रभृतिशब्दः प्रकारवचनः इति शलादोषणी इत्यत्रापि दोषन्नादेशो भवति इत्युक्तत्वात् ( का. ६. १. ६३ )। मध्ये सु इति शब्दोपजनश्छान्दसः । यद्वा । पादशब्दस्य सप्तमीबहुवचने पदादेशे कृते इतराभ्योऽपि दृश्यन्ते' (पा. सू. ५. ३. १४ ) इति सप्तम्यर्थे तसिल् । लुगभावश्छान्दसः ।।
 
 
Line १५९ ⟶ १७७:
 
उत्ऽतरा । सूः । अधरः । पुत्रः । आसीत् । दानुः । शये । सहऽवत्सा । न । धेनुः ॥९
 
"वृत्रपुत्रा वृत्रः पुत्रो यस्या मातुः सेयं माता वृत्रपुत्रा "नीचावयाः न्यग्भावं प्राप्ता हता "अभवत् पुत्रं प्रहाराद्रक्षितुं पुत्रदेहस्योपरि तिरश्ची पतितवतीत्यर्थः । तदानीम् अयम् "इन्द्रः "अस्याः मातुः "अव अधोभागे वृत्रस्योपरि "वधः हननसाधनमायुधं "जभार प्रहृतवान् । तदानीं "सूः माता “उत्तरा उपरिस्थिता आसीत्। "पुत्रः तु अधोभागस्थितः "आसीत्। सा च "दानुः दानवी वृत्रमाता “शये मृता शयनं कृतवती। तत्र दृष्टान्तः। “धेनुः लोकप्रसिद्धा गौः "सहवत्सा "न यथा वत्ससहिता शयनं करोति तद्वत्॥ नीचावयाः । वेति खादतीति वयो बाहुः । औणादिकः असिप्रत्ययः । न्यञ्चौ वयसौ यस्याः सा नीचावयाः । न्यच्शब्दादुत्तरस्या विभक्तेः ‘ सुपां सुपो भवन्ति' इति तृतीयैकवचनादेशः । ‘ अचः । इति अकारलोपे ‘चौ ' इति दीर्घत्वम् । ‘ अञ्चेश्छन्दस्यसर्वनामस्थानम् ' ( पा. सू. ६. १. १७०) इति तस्योदात्तत्वम् । समासे लुगभावश्छान्दसः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । यद्वा । नीचौ निकृष्टौ वयसौ यस्याः सा । पूर्वपदस्य दीर्घश्छान्दसः । वधः । हन्यतेऽनेनेति वधः । असुनि हन्तेर्वधादेशः । नित्त्वादाद्युदात्तत्वम् । जभार । ‘ हृग्रहोर्भः' इति भत्वम् । सूः । ‘ षूङ् प्राणिगर्भविमोचने '। सूते गर्भं विमुञ्चतीति सूः माता । क्विप् च ' इति क्विप् । दानुः । दो अवखण्डने ' ।' दाभाभ्यां नुः ' ( उ. सू. ३. ३१२)। शये । लटि ‘ लोपस्त आत्मनेपदेषु' (पा. सू. ७. १. ४१) इति तलोपः। ‘ शीङः सार्वधातुके ' इति गुणे अयादेशः ॥
 
 
Line १७२ ⟶ १९२:
 
वृत्रस्य । निण्यम् । वि । चरन्ति । आपः । दीर्घम् । तमः । आ । अशयत् । इन्द्रऽशत्रुः ॥१०
 
“वृत्रस्य “शरीरम् "आपः "वि “चरन्ति विशेषेण उपरि आक्रम्य प्रवहन्ति । कीदृशं शरीरम् । "निण्यं निर्नामधेयम् । अप्सु मग्नत्वेन गूढत्वात् तदीयं नाम न केनापि ज्ञायते । एतदेव स्पष्टीक्रियते । "काष्ठानाम् अपां "मध्ये "निहितं निक्षिप्तम् । कीदृशानां काष्ठानाम् । "अतिष्ठन्तीनां स्थितिरहितानां “अनिवेशनानाम् उपवेशनरहितानां प्रवहणस्वभावत्वात् एतासां मनुष्यवन्न क्वापि स्थितिः संभवति । “इन्द्रशत्रुः वृत्रः जलमध्ये शरीरे प्रक्षिप्ते सति "दीर्घं “तमः दीर्घं निद्रात्मकं मरणं यथा भवति तथा “आशयत् सर्वतः पतितवान् ॥ अतिष्ठन्तीनाम् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अनिवेशनानाम् । निविशन्तेऽस्मिन्निति निवेशनं स्थानम् ।' करणाधिकरणयोश्च' इति अधिकरणे ल्युट् । तद्रहितानाम् । बहुव्रीहौ ' नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । क्रान्त्वा स्थिताः काष्ठाः । पृषोदरादि । निहितम् । गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । अत्र यास्कः- ‘ अतिष्ठन्तीनामनिविशमानानामित्यस्थावराणां काष्ठानां मध्ये निहितं शरीरं मेघः । शरीरं शृणातेः शम्नातेर्वा। वृत्रस्य निण्यं निर्णामं विचरन्ति विजानन्त्याप इति दीर्घं द्राघतेस्तमस्तनोतेराशयदाशेतेरिन्द्रशत्रुरिन्द्रोऽस्य शमयिता वा शातयिता वा तस्मादिन्द्रशत्रुः । तत्को वृत्रो मेघ इति नैरुक्तास्त्वाष्ट्रोऽसुर इत्यैतिहासिकाः ' (निरु. २. १६ ) इति ॥ ॥ ३७ ॥
 
 
Line १८५ ⟶ २०७:
 
अपाम् । बिलम् । अपिऽहितम् । यत् । आसीत् । वृत्रम् । जघन्वान् । अप । तत् । ववार ॥११
 
"दासपत्नीः दासः विश्वोपक्षपणहेतुः वृत्रः पतिः स्वामी यासाम् अपां ताः दासपत्नीः । अत एव "अहिगोपाः । अहिर्वृत्रो गोपा रक्षको यासां ताः । गोपनं नाम स्वच्छन्देन यथा न प्रवहन्ति तथा निरोधनम् । एतदेव स्पष्टीक्रियते । "आपः "निरुद्धाः "अतिष्ठन् इति । तत्र दृष्टान्तः । “पणिनेव “गावः । पणिनामकोऽसुरो गा अपहृत्य बिले स्थापयित्वा बिलद्वारमाच्छाद्य यथा निरुद्धवांस्तथेत्यर्थः । “अपां "यत् "बिलं प्रवहणद्वारम् "अपिहितं वृत्रेण निरुद्धम् "आसीत् "तत् बिलं प्रवहणद्वारं "वृत्रं “जघन्वान् हतवान् इन्द्रः "अप “ववार अपवृतमकरोत् वृत्रकृतमपां निरोधं परिहृतवान् । अत्र यास्कः -- ‘ दासपत्नीर्दासाधिपत्न्यो दासो दस्यतेरुपदासयति कर्माण्यहिगोपा अतिष्ठन्नहिना गुप्ताः । अहिरयनादेत्यन्तरिक्षेऽयमपीतरोऽहिरेतस्मादेव निर्हसितोपसर्ग आहन्तीति । निरूद्धा आपः पणिनेव गावः । पणिर्वणिग्भवति पणिः पणनाद्वणिक् पण्यं नेनेक्ति । अपां बिलमपिहितं यदासीत् । बिलं भरं भवति बिभर्तेर्वृत्रं जघ्निवानपववार तद्वृत्रो वृणोतेर्वा वर्ततेर्वा वर्धतेर्वा । यदवृणोत्तद्वृत्रस्य वृत्रत्वमिति विज्ञायते । यदवर्तत तद्वृत्रस्य वृत्रत्वमिति विज्ञायते । यदवर्धत तद्वृत्रस्य वृत्रत्वमिति विज्ञायते ' (निरु. २. १७ ) इति ॥ दासपत्नीः । ‘ दसु उपक्षये '। दासयतीति दासो वृत्रः । एचाद्यच् । ‘ चितः' इत्यन्तोदात्तत्वम् । दासः पतिर्यासाम् । ‘ विभाषा सपूर्वस्य ' ( पा. सू. ४. १. ३४ ) इति ङीप् ; तत्संनियोगेन इकारस्य नकारः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । यद्वा । दासस्य पालयित्र्यः । पत्यावैश्वर्ये' इति पूर्वपदप्रकृतिस्वरत्वम् । अहिगोपाः । गुपू रक्षणे '। गोपायतीति गोपाः । ‘ आयादय आर्धधातुके वा ' (पा. सू. ३. १. ३१) इति आयप्रत्ययः । ततः क्विप् । अतो लोपः'। ‘वेरपृक्तलोपाद्वलि लोपो बलीयान्' इति पूर्वं यकारलोपः (पा.सू. ६. १.६६-६७)। न च ' अचः परस्मिन्' इति अतो लोपस्य स्थानिवत्त्वं न पदान्तद्विर्वचन' ' इति प्रतिषेधात् । अहिर्गोंपा यासाम् । पूर्ववत् स्वरः । निरुद्धाः । ‘ रुधिर् आवरणे । ‘ झषस्तथोर्धोऽधः' (पा. सू. ८. २. ४० ) इति निष्ठातकारस्य धकारः । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । जघन्वान् । हन्तेर्लिटः क्वसुः । ‘ अभ्यासाच्च ' ( पा. सू. ७. ३. ५५) इति अभ्यासादुत्तरस्य हकारस्य कुत्वम् । क्रादिनियमप्राप्तस्य इटः ‘विभाषा गमहन ' ( पा. सू. ७. २. ६८ ) इत्यादिना विकल्पविधानाभावः। संहितायां नकारस्य रुत्वानुनासिकावुक्तौ ॥
 
 
Line १९८ ⟶ २२२:
 
अजयः । गाः । अजयः । शूर । सोमम् । अव । असृजः । सर्तवे । सप्त । सिन्धून् ॥१२
 
"सृके वज्रे । “सृकः वृकः ' (नि. २. २०. ६ ) इति वज्रनामसु पठितत्वात् । "देवः दीप्यमानः सर्वायुधकुशलः "एकः अद्वितीयः वृत्रः "यत् यदा “त्वा त्वां "प्रत्यहन् प्रतिकूलत्वेन प्रहृतवान् “तत् तदानीं त्वम् "अश्व्यो "वारः अश्वसंबन्धी वालः "अभवः। यथाश्वस्य वालोऽनायासेन मक्षिकादीन्निवारयति तद्वत् वृत्रमगणयित्वा निराकृतवानित्यर्थः । किं च "गाः पणिनापहृताः त्वम् "अजयः जितवान् । हे "शूर शौर्ययुक्त “इन्द्र "सोमम् "अजयः जितवान्। तथा च तैत्तिरीयाः - ‘त्वष्टा हतपुत्रः इत्यस्मिन्नुपाख्याने समामनन्ति- स यज्ञवेशसं कृत्वा प्रासहा सोममपिबत्' (तै. सं. २. ४. १२. १) इति । "सप्त "सिन्धून् ‘इमं मे गङ्गे' ( ऋ. सं. १०. ७५.५) इत्यस्यामृच्याम्नाता गङ्गाद्याः सप्तसंख्याका नदीः "सर्तवे सर्तुं प्रवाहरूपेण गन्तुम् "अवासृजः त्यक्तवान्। वृत्रकृतं प्रवाहनिरोधं निराकृतवानित्यर्थः ॥ अश्व्यः । अश्वे भवः। ‘ भवे छन्दसि' इति यत् । यतोऽनावः' इत्याद्युदात्तत्वम् । वारयति दंशमशकानिति वारः । पचाद्यच् । कपिलकादित्वात् लत्वविकल्पः (पा. म. ८. २. १८)। वृषादित्वादाद्युदात्तत्वम् । प्रत्यहन् । “यद्वृत्तान्नित्यम्' इति निघातप्रतिषेधः । तिङि चोदात्तवति' इति गतेरनुदात्तत्वम् । अजयः। गाः इत्यस्य वाक्यान्तरगतत्वात् तदपेक्षयास्य ‘ तिङ्ङतिङः इति निघातो न भवति, समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः ' (पा. सू. ८. १. १८. ५) इति वचनात् । सर्तवे । ‘ तुमर्थे सेसेन्° ' इति तवेन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् ॥
 
 
Line २११ ⟶ २३७:
 
इन्द्रः । च । यत् । युयुधाते इति । अहिः । च । उत । अपरीभ्यः । मघऽवा । वि । जिग्ये ॥१३
 
इन्द्रं निषेद्धुं वृत्रो यान् विद्युदादीन् मायया निर्मितवान् ते सर्वेऽप्येनं निषेद्धुमशक्ताः । सोऽयमथोंऽनेन मन्त्रेणोच्यते । "अस्मै इन्द्रार्थं निर्मिता "विद्युत् "न "सिषेध इन्द्रं न प्राप्नोत् । तथा “तन्यतुः गर्जनं "यां "मिहं सेचनं यां वृष्टिम् "अकिरत् वृत्रो विक्षिप्तवान् सापि वृष्टिः “न सिषेध । "ह्रादुनिं “च अशनिमपि यां वृत्रः प्रयुक्तवान् सापि न सिषेध । “इन्द्रश्च "अहिश्च इन्द्रवृत्रावुभावपि "यत् यदा “युयुधाते युद्धं कृतवन्तौ । तदानीं विद्युदादयो न प्राप्ता इति पूर्वत्रान्वयः । "उत अपि च "मघवा धनवानिन्द्रः "अपरीभ्यः अपराभ्यः अन्यासामपि वृत्रनिर्मितानां मायानां सकाशात् "वि “जिग्ये विशेषेण जितवान् ॥ सिषेध। ' षिधु गत्याम् । मिहम् । मिह सेचने ' । मेहति सिञ्चतीति मिट् वृष्टिः । क्विप् च ' इति क्विप् । अकिरत् । ‘ कॄ विक्षेपे । “तुदादिभ्यः शः '। 'ऋत इद्धातोः ' इति इत्वम् । अडागम उदात्तः । यद्वृत्तयोगादनिघातः । युयुधाते । ‘युध संप्रहारे'। लिटि प्रत्ययस्वरः । जिग्ये । ‘सन्लिटोर्जेः' (पा. सू. ७. ३. ५७ ) इति अभ्यासादुत्तरस्य जकारस्य कुत्वम् ॥
 
 
Line २२४ ⟶ २५२:
 
नव । च । यम् । नवतिम् । च । स्रवन्तीः । श्येनः । न । भीतः । अतरः । रजांसि ॥१४
 
हे "इन्द्र "जघ्नुषः वृत्रं हतवतः तव "हृदि चित्ते "यत् यदि “भीरगच्छत् न हतवानस्मीति बुद्ध्या भयं प्राप्नुयात् तर्हि "अहेः वृत्रस्य "यातारं हन्तारं "कमपश्यः त्वत्तोऽन्यं "कं पुरुषं दृष्टवानसि । तादृशस्य पुरुषान्तरस्याभावात् मा भूत् तव भयमित्यर्थः । "यत् यस्मात् कारणात् त्वं "नव "च "नवतिं "च स्रवन्तीः एकोनशतसंख्याकाः प्रवहन्तीर्नदीः प्राप्य “रजांसि तत्रत्यान्युदकानि “अतरः तीर्णवानसि । तत्र दृष्टान्तः । "श्येनो "न । श्येननामको बलवान् पक्षीव दूरगमनात्तव भयमासीदिति गम्यते । तद्भयं मा भूदित्यभिप्रायः । तच्च दूरगमनं ब्राह्मणे समाम्नातम् - ‘इन्द्रो वै वृत्रं हत्वा नास्तृषीति मन्यमानः पराः परावतोऽगच्छत् ' ( ऐ. ब्रा. ३. १५) इति । तैत्तिरीयाश्चामनन्ति- इन्द्रो वृत्रं हत्वा परां परावतमगच्छदपाराधमिति मन्यमानः ' (तै. सं. २. ५. ३. ६) इति ॥ हृदि । ‘पद्दन्' इत्यादिना हृदयशब्दस्य हृदादेशः । ऊडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् । जघ्नुषः । हन्तेर्लिटः क्वसुः । षष्ठ्येकवचने ' वसोः संप्रसारणम्' इति संप्रसारणपरपूर्वत्वे। ‘ शासिवसिघसीनां च ' इति पत्वम् । न च ‘षत्वतुकोरसिद्धः ' ( पा. सू. ६. १. ८६ ) इत्येकादेशस्यासिद्धत्वात् षत्वं न प्राप्नुयादिति वाच्यं, ‘ संप्रसारणडीट्सु प्रतिषेधो वक्तव्यः' (का. ६. १, ८६. १ ) इति असिद्धवद्भावस्य प्रतिषिद्धत्वात् । ‘ गमहन इत्यादिना उपधालोपः । न च “ असिद्धवदत्रा भात्' इति संप्रसारणस्यासिद्धवद्भावः, भिन्नाश्रयत्वात् । संप्रसारणं हि षष्ठ्येकवचने उपधालोपस्तु वसाविति भिन्नाश्रयत्वम् । स्रवन्तीः । ‘स्रु गतौ '। शप्श्यनोर्नित्यम् ' ( पा. सू. ७. १. ८१ ) इति नुमागमः । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेणाद्युदात्तत्वम् । अतरः । यद्वृत्तयोगादनिघातः ॥
 
 
Line २३८ ⟶ २६८:
सः । इत् । ऊं इति । राजा । क्षयति । चर्षणीनाम् । अरान् । न । नेमिः । परि । ता । बभूव ॥१५
 
"वज्रबाहुः “इन्द्रः शत्रौ हते सति निःसपत्नो भूत्वा "यातः गच्छतो जङ्गमस्य "अवसितस्य एकत्रैव स्थितस्य स्थावरस्य “शमस्य शान्तस्य शृङ्गराहित्येन प्रहरणादावप्रवृत्तस्याश्वगर्दभादेः “शृङ्गिणः शृङ्गोपेतस्योग्रस्य महिषबलीवर्दादेश्च "राजा अभूत् । "सेदु स एवेन्द्रः "चर्षणीनां मनुष्याणां "राजा भूत्वा “क्षयति निवसति। “ता तानि पूर्वोक्तानि जङ्गमादीनि सर्वाणि "परि “बभूव व्याप्तवान् । तत्र दृष्टान्तः। "अरान् "न "नेमिः । यथा रथचक्रस्य परितो वर्तमान नेमिः अरान् नाभौ कीलितान् काष्ठविशेषान् व्याप्नोति तद्वत् ॥ यातः । ‘ या प्रापणे '। याति गच्छतीति यात् । लटः शतृ । ‘ सावेकाचः' इति विभक्तेरुदात्तत्वम् । सः । सोऽचि लोपे चेत् । इति संहितायां सोर्लोपः । ता । । शेश्छन्दसि बहुलम्' इति शेर्लोपः । बभूव । भवतेर्लिटो णलि ‘ भवतेरः ' (पा. सू. ७. ४. ७३ ) इति अभ्यासस्य अत्वम् । कृताकृतप्रसङ्गितया वुगागमस्य नित्यत्वात् वृद्धेः पूर्वं वुगागमः । यद्वा । ‘ इन्धिभवतिभ्यां च ' (पा. सू. १. २. ६) इति लिटः कित्त्वात् वृद्ध्यभावः । न च ' असिद्धवदत्रा भात् इति तस्यासिद्धत्वात् उवङादेशः शङ्कनीयः ‘वुन्युटावुवङयणोः सिद्धौ भवतः' (पा. सू. ६. ४. २२. १४ ) इति तस्य सिद्धत्वात्। ' तिङ्ङतिङः' इति निघातः ॥ ॥ ३८ ॥
 
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
 
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणामात्येन विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये
प्रथमाष्टके द्वितीयोऽध्यायः समाप्तः ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.३२" इत्यस्माद् प्रतिप्राप्तम्