"ऋग्वेदः सूक्तं १.५१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४३:
 
{{सायणभाष्यम्|
दशमेऽनुवाके सप्त सूक्तानि । तत्र अभि त्यम्' इति पञ्चदशर्चं प्रथमं सूक्तम् । अत्रेतिहासमाचक्षते -- अङ्गिरा इन्द्रसदृशं पुत्रमात्मनः कामयमानो देवता उपासांचक्रे । तस्य सव्याख्येन पुत्ररूपेणेन्द्र एव स्वयं जज्ञे जगति मत्तुल्यः कश्चिन्मा भूदिति । स सव्य आङ्गिरसोऽस्य सूक्तस्य ऋषिः । चतुर्दशीपञ्चदश्यौ त्रिष्टुभौ । ‘ त्रिष्टुबन्तस्य सूक्तस्य शिष्टा जगत्यः' इति परिभाषयावशिष्टास्त्रयोदशर्चो जगत्यः । इन्द्रो देवता । तदेत्सर्वम् अनुक्रमण्यामुक्तम् -'अभि त्यं पञ्चोना सव्यो द्वित्रिष्टुबन्तमङ्गिरा इन्द्रतुल्यं पुत्रमिच्छन्नभ्यध्यायत्सव्य इतीन्द्र एवास्य पुत्रोऽजायत' इति । अतिरात्रे प्रथमे रात्रिपर्याये होतुः शस्त्रे इदं सूक्तं शंसनीयम् ।' अतिरात्रे पर्यायाणाम् ' इति खण्डे सूत्रितम्-' अभि त्यं मेषमध्वर्यवो भरतेन्द्राय सोममिति याज्या ' ( आश्व. श्रौ. ६. ४) इति । गवामयनस्य मध्यभूते विषुवत्संज्ञकेऽहन्यपि निष्केवल्ये इदं सूक्तं शंसनीयम् । तथा च सूत्रितं - यस्तिग्मशृङ्गोऽभि त्यं मेषमिन्द्रस्य नु वीर्याणीत्येतस्मिन्नैन्द्रीं निविदं शस्त्वा ' ( आश्व. श्रौ. ८. ६ ) इति ॥
 
 
अ॒भि त्यं मे॒षं पु॑रुहू॒तमृ॒ग्मिय॒मिन्द्रं॑ गी॒र्भिर्म॑दता॒ वस्वो॑ अर्ण॒वम् ।
Line ५५ ⟶ ५७:
 
यस्य । द्यावः । न । विऽचरन्ति । मानुषा । भुजे । मंहिष्ठम् । अभि । विप्रम् । अर्चत ॥१
 
“त्यं तं प्रसिद्धं “मेषं शत्रुभिः स्पर्धमानम् । यद्वा । कण्वपुत्रं मेधातिथिं यजमानमिन्द्रो मेषरूपेणागत्य तदीयं सोमं पपौ । स ऋषिस्तं मेष इत्यवोचत्। अत इदानीमपि मेष इति इन्द्रः अभिधीयते । मेधातिथेर्मेष ' इति सुब्रह्मण्यमन्त्रैकदेशस्य व्याख्यानरूपं ब्राह्मणमेवमाम्नायते- मेघातिथिं हि कण्वायनिं मेषो भूत्वाजहार ' इति। आगत्य सोममपहृतवानित्यर्थः। “पुरुहूतं पुरुभिर्यजमानैराहूतं “ऋग्मियम् ऋग्भिर्विक्रियमाणं स्तूयमानमित्यर्थः। स्तुत्या हि देवता विक्रियते। यद्वा । ऋग्भिर्मीयते शब्द्यते इति ऋग्मीः । तम् । “वस्वो “अर्णवं धनानामावासभूमिं एवंगुणविशिष्टम् “इन्द्रं हे स्तोतारः ”गीर्भिः स्तुतिभिः “अभि “मदत आभिमुख्येन हर्षं प्रापयत । "यस्य इन्द्रस्य कर्माणि “मानुषा मनुष्याणां हितानि “विचरन्ति विशेषेण वर्तन्ते । तत्र दृष्टान्तः। “द्यावो "न। यथा सूर्यरश्मयः सर्वेषां हितकराः । “भुजे भोगाय “मंहिष्ठम् अतिशयेन प्रवृद्धं “विप्रं मेधाविनं तथाविधम् इन्द्रम् “अभि “अर्चत अभिपूजयत ॥ मेषम् । ‘ मिष स्पर्धायाम् । इगुपधलक्षणे के प्राप्ते ' देवसेनमेषादयः पचादिषु द्रष्टव्यः' इति वचनात् अच्प्रत्ययः । ऋग्मियम् । तस्य विकारः' इत्यर्थे ' एकाचो नित्यं मयटमिच्छन्ति ' (का. ४. ३. १४४ ) इति मयट्प्रत्ययः । अकारस्य इकारश्छान्दसः । प्रत्ययस्वरः । यद्वा । 'माङ् माने शब्दे च'। ऋग्भिर्मीयते इति ऋग्मीः । क्विपि वलि लोपात् पूर्वमेव परत्वात् ‘घुमास्था' इति ईत्वम्। “अचि श्नुधातु°' इत्यादिना इयङादेशः । कृदुत्तरपदप्रकृतिस्वरत्वम् । मदत । ‘ मदी हर्षे '। हेतुमति णिच् । ‘ मदी हर्षग्लेपनयोः ' इति घटादिषु पाठात् हर्षार्थे वर्तमानस्य ‘घटादयो मितः' इति मित्त्वे सति ‘ मितां ह्रस्वः' ( पा. सू. ६. ४. ९२ ) इति ह्रस्वत्वम् । लोण्मध्यमपुरुषबहुवचने शपि ‘ छन्दस्युभयथा ' इति आर्धधातुकत्वात् ' णेरनिटि ' इति णिलोपः । तशब्दस्य ‘सार्वधातुकमपित्' इति ङित्त्वे ' ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम्' इति दीर्घः । वस्वः । ङस्य आगमानुशासनस्यानित्यत्वात् नुमभावः। “जसादिषु च्छन्दसि वावचनम्' (पा. सू. ७. ३. १०९. १ ) इति वचनात् ‘ घेर्ङिति' (पा. सू. ७. ३. १११) इति गुणाभावे यणादेशः । अर्णवम् । अर्ण उदकमस्मिन्नस्तीति अर्णवः समुद्रः । ‘ अर्णसो लोपश्च' ( का. ५. २. १०९. २ ) इति मत्वर्थीयो वप्रत्ययः सलोपश्च । तेन शब्देन जलाश्रयवाचिना आश्रयमात्रं लक्ष्यते । प्रत्ययस्वरः। विचरन्ति । चर गत्यर्थः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । ‘ तिङि चोदात्तवति' इति गतिरनुदात्ता । यद्वृत्तयोगादनिघातः । मानुषा । ‘ शेश्छन्दसि बहुलम्' इति शेर्लोपः । भुजे । ‘भुज पालनाभ्यवहारयोः । संपदादिलक्षणो भावे क्विप् । 'सावेकाचः' इति विभक्तेरुदात्तत्वम् । मंहिष्ठम् । ‘ महि वहि वृद्धौ ' । अतिशयेन मंहिता मंहिष्ठः । “तुश्छन्दसि ' इति इष्ठन्प्रत्ययः । ‘तुरिष्ठेमेयःसु' इति तृलोपः । नित्त्वादाद्युदात्तत्वम् । अर्चत ।' अर्च पूजायाम् । भौवादिकः ॥
 
 
Line ६८ ⟶ ७२:
 
इन्द्रम् । दक्षासः । ऋभवः । मदऽच्युतम् । शतऽक्रतुम् । जवनी । सूनृता । आ । अरुहत् ॥२
 
“ऊतयः अवितारो रक्षितारः “दक्षासः दक्षयितारः प्रवर्धयितारः “ऋभवः । उरु भान्ति इति नैरुक्तव्युत्पत्त्या ऋभवोऽत्र मरुत उच्यन्ते । एवंभूता मरुतः “इन्द्रम् “अभीमवन्वन् आभिमुख्येन खलु अभजन्त । वृत्रेण सह युध्यमानमिन्द्रं सर्वे देवाः पर्यत्यजन् । मरुतस्तु तथा न पर्यत्याक्षुः । तथा चाम्नास्यते - ‘विश्वे देवा अजहुर्ये सखायः । मरुद्भिरिन्द्र सख्यं ते अस्तु' (ऋ. सं. ८.९६. ७) इति । ब्राह्मणेऽप्याम्नातं- ‘ मरुतो हैनं नाजहुः' (ऐ. ब्रा. ३. २०) इति । कीदृशमिन्द्रम् । “स्वभिष्टिं शोभनाभ्येषणवन्तं शोभनाभिगमनमित्यर्थः । “अन्तरिक्षप्राम् । अन्तरिक्षं द्युलोकं स्वतेजसा प्राति पूरयतीति अन्तरिक्षप्राः। द्वादशस्वादित्येषु इन्द्रस्य विद्यमानत्वात् । शाखान्तरेऽपि श्रूयते-- तस्या इन्द्रश्च विवस्वाँश्चाजायेताम्' (तै. ब्रा. १. १. ९. ३ ) इति, ‘इन्द्रश्च विवस्वांश्चेत्येते ( तै. आ. १. १३.३) इति च । “तविषीभिरावृतम् । तविषीति बलनाम।' तविषी शुष्मम् ' (नि. २. ९. १०) इति तन्नामसु पाठात् । बलैरावृतम् । अतिबलिनमित्यर्थः । अत एव “मदच्युतं शत्रूणां मदस्य गर्वस्य च्यावयितारम् । किंच “शतक्रतुं शतसंख्यानां ऋतूनामाहर्तारं बहुविधकर्माणं वा । पूर्वोक्तं तमिन्द्रं “जवनी वृत्रवधं प्रति प्रेरयित्री "सूनृता तैर्मरुद्भिः प्रयुक्ता प्रहर भगवो जहि वीरयस्व' ( ऐ. ब्रा. ३. २०) इति ब्राह्मणोक्तरूपा प्रियसत्यात्मिका वागपि “आरुहत् आरूढवती। वृत्रवधं प्रति सापि वाक् इन्द्रस्योत्साहकारिण्यभूदित्यर्थः ॥ अवन्वन् । ‘ वन षण संभक्तौ'। लङि शपि प्राप्ते व्यत्ययेन उप्रत्ययः । स्वभिष्टिम् । ‘ इष गतौ'। भावे क्तिन्प्रत्ययः । ‘ तितुत्र' इत्यादिना इट्प्रतिषेधः । एमन्नादित्वात् पररूपत्वम् (पा. सू. ६. १. ९४. ६ )। शोभना अभिष्टयो यस्येति बहुव्रीहौ ‘ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । ऊतयः । अवतेः ‘कृत्यल्युटो बहुलम्' इति कर्तरि क्तिन्प्रत्ययः । यद्वा । ' क्तिच्क्तौ च संज्ञायाम् ' इति क्तिच् । ज्वरत्वर ' इत्यादिना ऊठ् ।' चितः' इत्यन्तोदात्तत्वम् । अन्तरिक्षप्राम् ।' प्रा पूरणे । अन्तरिक्षं प्राति पूरयतीति अन्तरिक्षप्राः । ‘ आतो मनिन् इत्यत्र चशब्दात् विच् । आवृतम् । वृञ् वरणे । आव्रियते इति आवृतः । कर्मणि निष्ठा। ‘गतिरनन्तरः इति गतेः प्रकृतिस्वरत्वम् । दक्षासः । ‘ दक्ष वृद्धौ । दक्षन्ते एभिरिति दक्षाः । करणे घञ् । ञित्वादाद्युदात्तत्वम् । “आजसेरसुक्' । मदच्युतम् । “च्युङ् गतौ । अन्तर्भावितण्यर्थात् ‘ क्विप् च ' इति क्विप् । ‘ह्रस्वस्य पिति कृति ' इति तुक् । शतक्रतुम् । शतं क्रतवो यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । जवनी । जु इति सौत्रो धातुः । करणे ल्युट् । ' टिड्ढाणञ्° ' इत्यादिना ङीप् । लित्स्वरेण जकारात् परस्योदात्तत्वम् । अरुहत् । रुहेर्लुङि ‘ कृमृदृरुहिभ्यश्छन्दसि ' इति च्लेः अङादेशः ॥
 
 
Line ८१ ⟶ ८७:
 
ससेन । चित् । विऽमदाय । अवहः । वसु । आजौ । अद्रिम् । ववसानस्य । नर्तयन् ॥३
 
हे इन्द्र “त्वं “गोत्रम् अव्यक्तशब्दवन्तं वृष्ट्युदकस्यावरकं मेघम् “अङ्गिरोभ्यः अङ्गिरसामृषीणामर्थाय "अप "अवृणोः अपवरणं कृतवानसि । वृष्टेरावरकं मेघं वज्रेणोद्घाट्य वर्षणं कृतवानसीत्यर्थः। यद्वा । गोत्रं गोसमूहं पणिभिरपहृतं गुहासु निहितम् अङ्गिरोभ्यः ऋषिभ्यः अप अवृणोः गुहाद्वारोद्घाटनेन प्रकाशयः । "उत अपि च "अत्रये महर्षये । कीदृशाय । “शतदुरेषु शतद्वारेषु यन्त्रेष्वसुरैः पीडार्थं प्रक्षिप्ताय "गातुवित् मार्गस्य लम्भयिताभूः । तथा “विमदाय “चित् विमदनाम्ने महर्षयेऽपि "ससेन अन्नेन युक्तं “वसु धनम् “अवहः प्रापितवान् । तथा “आजौ संग्रामे जयार्थं "ववसानस्य निवसतो वर्तमानस्यान्यस्यापि स्तोतुः "अद्रिं वज्रं “नर्तयन् रक्षणं कृतवानसीति शेषः । अतस्तव महिमा केन वर्णयितुं शक्यते इति भावः ॥ गोत्रम् ।' गुङ् अव्यक्ते शब्दे । औणादिकः त्रप्रत्ययः । यद्वा । खलगोरथात्' इत्यनुवृत्तौ ‘ इनित्रकट्यचश्च' (पा. सू. ४. २. ५१) इति समूहार्थे त्रप्रत्ययः । शतदुरेषु । शतं दुरा द्वाराण्येषाम् । द्वृ इत्येके । द्वर्यन्ते संव्रियन्ते इति दुराः। घञर्थे कविधानम्' इति कप्रत्ययः। छान्दसं संप्रसारणं परपूर्वत्वम् । तच्च यो ह्युभयोः स्थाने भवति स लभतेऽन्यतरेणापि व्यपदेशम् इति • उरण् रपरः ' ( पा. सू. १. १. ५१ ) इति रपरं भवति । यद्वा । द्वारशब्दस्यैव छान्दसं संप्रसारणं द्रष्टव्यम् । गातुवित् । ‘गाङ् गतौ' । अस्मात् ‘कमिमनिजनिभागापायाहिभ्यश्च' (उ. सू. १. ७२ ) इति तुप्रत्ययः । तं वेदयति लम्भयतीति गातुवित् । ‘विद्लृ लाभे' । अन्तर्भावितण्यर्थात् क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम्। ससेन । ससम् इति अन्ननाम । ‘ससं नमः आयुः' (नि.२.७.२१) इति तन्नामसु पाठात् । आजिः इति संग्रामनाम । “आहवे आजौ ' (नि. २. १७. ८) इति तत्र पाठात् । अद्रिम् । अत्ति भक्षयति वैरिणम् इति अद्रिर्वज्रः । ‘ अदिशदिभूशुभिभ्यः क्रिन्' इति क्रिन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । यास्कस्त्वेवम् अद्रिशब्दं व्याचख्यौ- अद्रिरादृणात्यनेनापि वात्तेः स्यात् ' ( निरु. ४. ४ ) इति । ववसानस्य । ‘वस निवासे । कर्तरि ताच्छीलिकः चानश् । 'बहुलं छन्दसि ' इति शपः श्लुः । द्विर्भावहलादिशेषौ । चित्वादन्तोदात्तत्वम् ॥
 
 
Line ९४ ⟶ १०२:
 
वृत्रम् । यत् । इन्द्र । शवसा । अवधीः । अहिम् । आत् । इत् । सूर्यम् । दिवि । आ । अरोहयः । दृशे ॥४
 
हे 'इन्द्र “त्वम् “अपाम् उदकानाम् “अपिधाना अपिधानानि आच्छादकान् मेघान् "अप "अवृणोः अपावरीष्ठाः । तथा “पर्वते पर्ववति पूरयितव्यप्रदेशयुक्ते स्वकीय निवासस्थाने “दानुमत् दानुमतो हिंसायुक्तस्य । यद्वा । दनुः असुरमाता सैव दानुः । तद्वतः। तादृशस्य वृत्रादेः 'वसु धनम् “अधारयः। शत्रून् जित्वा तदीयं धनमपहृत्य स्वगृहे न्यचिक्षिपः इत्यर्थः । यद्वा । दानुमत् इति वसुविशेषणम्। शोभनदानयुक्तमित्यर्थः । हे इन्द्र त्वं “यत् यदा “शवसा बलेन “वृत्रं त्रयाणां लोकानामावरीतारम् । तथा च शाखान्तरे समाम्नातं - यदिमान् लोकानवृणोत्तद्वृत्रस्य वृत्रत्वम् ' (तै. सं. २. ४. १२.२) इति। "अहिं आ समन्तात् हन्तारम् । तथा च वाजसनेयिनः समामनन्ति - सोऽग्नीषोमावभिसंबभूव सर्वां विद्यां सर्वं यशः सर्वमन्नाद्यं सर्वां श्रियं स यत्सर्वमेतत्समभवत्तस्मादहिः' इति । एवंभूतमसुरम् “अवधीः वधं प्रापयः । “आदित् अनन्तरमेव “दिवि द्युलोके “दृशे द्रष्टुं “सूर्यम् “आरोहयः । वृत्रेणावृतं सूर्यं तस्माद्वृत्रात् अमूमुचः इत्यर्थः । अपाम् ।' उडिदम् ' इत्यादिना विभक्तेरुदात्तत्वम् । अपिधाना । अपिधीयते आच्छाद्यते एभिरिति अपिधानानि । करणे ल्युट् । ‘ लिति' इति प्रत्ययात् पूर्वस्य धात्वाकारस्योदात्तत्वम् । तत एकादेशस्वरः । कृदुत्तरपदप्रकृतिस्वरत्वम् । सुपां सुलुक्° ' इति विभक्तेः पूर्वसवर्णदीर्घत्वम् । अधारयः । पादादित्वात् निघाताभावः । पर्वते । पर्ववान् पर्वतः । ‘ पर्व पुनः पृणातेः प्रीणतेर्वा ' ( निरु. १. २०) इति यास्कः । दानुमत् ।' दो अवखण्डने ' इत्यस्मात् वा ' दाण् दाने ' इत्यस्मात् वा ' दाभाभ्यां नुः' इति औणादिको नुप्रत्ययः । असुरविशेषणत्वे ‘ सुपां सुलुक् ' इति षष्ठ्या लुक् ॥
 
 
Line १०७ ⟶ ११७:
 
त्वम् । पिप्रोः । नृऽमनः । प्र । अरुजः । पुरः । प्र । ऋजिश्वानम् । दस्युऽहत्येषु । आविथ ॥५
 
हे इन्द्र “त्वं “मायाभिः जयोपायज्ञानैः । मायेति ज्ञाननाम, ‘शची माया' (नि. ३. ९. ९) इति तन्नामसु पाठात् । यद्वा । मायाभिः लोकप्रसिद्धैः कपटैः । “मायिनः उक्तलक्षणमायोपेतान् वृत्रादीनसुरान् “अप “अधमः अपाजीगमः । ‘ धमतिर्गतिकर्मा ' (निरु. ६. २) इति यास्कः । "ये असुराः “स्वधाभिः हविर्लक्षणैरन्नैः “शुप्तौ “अधि शोभमाने स्वकीये मुखे एव “अजुह्वत अहौषुः नाग्नौ तानसुरानिति पूर्वेण संबन्धः। तथा च कौषीतकिभिराम्नायते - ‘ असुरा वा आत्मन्नजुहवुरुद्वातेऽग्नौ ते पराभवन्' इति । वाजसनेयिभिरप्याम्नातं- देवाश्च ह वा असुराश्चास्पर्धन्त ततो हासुरा अभिमानेन कस्मै च न जुहुम इति स्वेष्वेवास्येषु जुह्वतश्चेरुस्ते पराबभूवुः' इति । तथा हे “नृमणः नृषु यजमानेषु रक्षितव्येषु अनुग्रहबुद्धियुक्त “त्वं पिप्रोः पूरयितुरेतन्नाम्नोऽसुरस्य “पुरः पुराणि निवासस्थानानि “प्र “अरुजः प्राभाङ्षीः े । एवं कृत्वा तेनासुरेणोपद्रुतम् “ऋजिश्वानम् ऋजुगमनमेतत्संज्ञकं स्तोतारं “दस्युहत्येषु दस्यूनामुपक्षपयितॄणां हननेन युक्तेषु संग्रामेषु । यद्वा । दस्यूनां हनने निमित्तभूतेषु “प्र “आविथ प्रकर्षेण ररक्षिथ ॥ मायिनः । मायाशब्दस्य व्रीह्यादिषु पाठात् ' व्रीह्यादिभ्यश्च ' इति मत्वर्थीय इनिः । शुप्तौ । ‘ शुभ दीप्तौ । कर्मणि क्तिन् । ‘ तितुत्र' ' इत्यादिना इट्प्रतिषेधः । ‘ झषस्तथोः' इति धत्वाभावश्छान्दसः । ‘ खरि च' ( पा. सू. ८. ४. ५५ ) इति चर्त्वम् । अजुह्वत । जुहोतेर्लङि व्यत्ययेन आत्मनेपदम् । ‘अदभ्यस्तात् ' ( पा. सू. ७. १. ४ ) इति झस्य अदादेशः । “हुश्नुवोः सार्वधातुके ' इति यणादेशः । पिप्रोः। ‘पॄ पालनपूरणयोः । ‘ पॄभिदिव्यधि' ' (उ. सू. १. २३) इत्यादिना कुप्रत्ययः । ‘ उदोष्ठ्यपूर्वस्य ' इत्यत्र ‘ बहुलं छन्दसि ' इत्युक्तत्वात् उत्वाभावः । छान्दसं द्विर्वचनम् । अभ्यासस्य उरदत्वहलादिशेषाः । “अर्तिपिपर्त्योश्च, बहुलं छन्दसि ' इति अभ्यासस्य इत्वम् । यणादेशः । नृमणः । नृषु मनो यस्य । ‘ छन्दस्यृदवग्रहात्' ( पा. सू. ८. ४. २६) इति णत्वम् । अरुजः। ‘ रुजो भङ्गे'। शस्य ङित्त्वात् गुणाभावः । ऋजिश्वानम् । ऋजु अश्नुते प्राप्नोतीति ऋजिश्वा । पृषोदरादिः । दस्युहत्येषु । ‘ हन हिंसागत्योः । ‘हनस्त च ' ( पा. सू. ३. १. १०८ ) इति भावे क्यप्प्रत्ययः तकारश्चान्तादेशः । दस्यूनां हत्या येषु संग्रामेषु ।' परादिश्छन्दसि बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम् । तत्पुरुषपक्षे तु कृदुत्तरपदप्रकृतिस्वरत्वम् । आविथ ।' अव रक्षणे '॥ ॥ ९ ॥
 
 
Line १२० ⟶ १३२:
 
महान्तम् । चित् । अर्बुदम् । नि । क्रमीः । पदा । सनात् । एव । दस्युऽहत्याय । जज्ञिषे ॥६
 
हे इन्द्र “त्वं “कुत्सं कुत्ससंज्ञकमृषिं “शुष्णहत्येषु । शुष्णः शोषयिता । एतन्नाम्नोऽसुरस्य हननयुक्तेषु संग्रामेषु “आविथ ररक्षिथ । तथा “अतिथिग्वाय अतिथिभिर्गन्तव्याय दिवोदासाय “शम्बरम् एतन्नामानमसुरम् "अरन्धयः हिंसां प्रापयः । तथा “महान्तं “चित् अतिप्रवृद्धमपि “अर्बुदम् एतत्संज्ञकमसुरं "पदा पादेन “नि “क्रमीः नितरामाक्रमिताभूः । यस्मादेवं तस्मात् "सनादेव चिरकालादेवारभ्य “दस्युहत्याय उपक्षपयितॄणां हननाय “जज्ञिषे । सर्वदा त्वं दस्युहननशीलो भवसीत्यर्थः॥ अरन्धयः । ‘रध हिंसासंराद्ध्योः'। “रधिजभोरचि' ( पा. सू. ७. १. ६१) इति धातोः नुम् । अतिथिग्वाय । गमेः औणादिको ड्वप्रत्ययः । क्रमीः । ‘ क्रमु पादविक्षेपे'। हम्यन्तक्षण ' ( पा. सू. ७. २. ५) इति वृद्धिप्रतिषेधः। ‘ बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । पदा । सावेकाचः° ' इति वा ‘ उडिदंपदादि° ' इति वा विभक्तेरुदात्तत्वम् । जज्ञिषे । ‘जनी प्रादुर्भावे'। लिटि • गमहन'' इत्यादिना उपधालोपः ॥
 
 
Line १३३ ⟶ १४७:
 
तव । वज्रः । चिकिते । बाह्वोः । हितः । वृश्च । शत्रोः । अव । विश्वानि । वृष्ण्या ॥७
 
हे इन्द्र “त्वे त्वयि "विश्वा “तविषी सर्वं बलं "सध्र्यक् सध्रीचीनं अपराङ्मुखं यथा भवति तथा “हिता निहितम् । तथा “तव "राधः मनः “सोमपीथाय सोमपानाय "हर्षते हृष्यति । किंच “तव “बाह्रोः हस्तयोः “हितः अवस्थितः “वज्रः “चिकिते अस्माभिर्ज्ञायते । अतः "शत्रोः शातयितुर्वैरिणः “विश्वानि सर्वाणि “वृष्ण्या वृष्ण्यानि वीर्याणि “अव “वृश्च छेदनं कुरु ॥ सहाञ्चतीति सध्र्यक् । अञ्चतेः ‘ ऋत्विक् ' इत्यादिना क्विन् ।' अनिदिताम्' इति नलोपः । समासे ‘सहस्य सध्रिः' इति सहशब्दस्य सध्र्यादेशः । ‘ चोः कुः' इति कुत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते ' अद्रिसध्र्योरन्तोदात्तत्वनिपातनं कृत्स्वरनिवृत्त्यर्थम् ' ( पा. सू. ६. ३. ९५. १ ) इति वचनात् सध्र्यादेशः अन्तोदात्तः । तस्य यणादेशे ‘ उदात्तस्वरितयोर्यणः' इति परस्यानुदात्तस्य स्वरितत्वम् । राधः । राप्नोति समृद्धो भवत्यनेन । राधोऽत्र मन उच्यते । असुनो नित्त्वादाद्युदात्तत्वम् । सोमपीथाय । ‘पा पाने'। ‘ पातॄतुदिवचि° ' इत्यादिना थक्प्रत्ययः । ‘ घुमास्था" ' इति ईत्वम् । हर्षते । “हृष तुष्टौ । श्यनि प्राप्ते व्यत्ययेन शप् आत्मनेपदं च । चिकिते । कित ज्ञाने'। 'छन्दसि लुङ्लङ्लिटः' इति वर्तमाने कर्मणि लिट् । बाह्वोः । ‘ उदात्तयणः' इति विभक्तेरुदात्तत्वम् । वृश्च । ‘ ओव्रश्चू छेदने । तौदादिकः । ग्रहिज्यादिना संप्रसारणम् । विकरणस्वरः । संहितायां ‘द्व्यचोऽतस्तिङः' इति दीर्घत्वम् । वृष्ण्या । वृष सेचने '। औणादिको नक्प्रत्ययः । तत्र भवानि वृष्ण्यानि। ‘ भवे छन्दसि' इति यत्। ‘ यतोऽनावः' इत्याद्युदात्तत्वम् ।' शेश्छन्दसि ' इति शेर्लोपः ॥
 
 
Line १४६ ⟶ १६२:
 
शाकी । भव । यजमानस्य । चोदिता । विश्वा । इत् । ता । ते । सधऽमादेषु । चाकन ॥८
 
हे इन्द्र त्वं "आर्यान् विदुषः अनुष्ठातॄन् "वि “जानीहि विशेषेण बुध्यस्व । "ये “च "दस्यवः तेषामनुष्ठातॄणामुपक्षपयितारः शत्रवः तानपि वि जानीहीति शेषः । ज्ञात्वा च "बर्हिष्मते बर्हिषा यज्ञेन युक्ताय यजमानाय "अव्रतान् । व्रतमिति कर्मनाम । कर्मविरोधिनस्तान् दस्यून् “रन्धय हिंसां प्रापय । यद्वा यजमानस्य वशं गमय ।' रध्यतिर्वंशगमने ' ( निरु. ६. ३२ ) इति यास्कः । किं कुर्वन् । “शासत् दुष्टानामनुशासनं निग्रहं कुर्वन् । अतः “शाकी शक्तियुक्तस्त्वं “यजमानस्य “चोदिता प्रेरको “भव । यज्ञविघातकानसुरांस्तिरस्कृत्य यज्ञान् यजमानैः सम्यगनुष्ठापय इति भावः । अहमपि स्तोता “ते तव “ता तानि पूर्वोक्तानि कर्माणि “विश्वेत् सर्वाण्येव “सधमादेषु सहमदनयुक्तेषु यज्ञेषु स्तोतुं “चाकन कामये ॥ जानीहि । 'ज्ञा अवबोधने '। क्रैयादिकः । ‘ ज्ञाजनोर्जा ' इति जादेशः । अत्र ' प्ली गतौ वृत्' इति वृत्करणं ल्वादिपरिसमाप्त्यर्थमेव न प्वादिपरिसमाप्त्यर्थमिति येषां दर्शनं तेषां ‘ प्वादीनां ह्रस्वः' इति ह्रस्वत्वेन भवितव्यम् । मैवम् । ‘ ज्ञाजनोर्जा ' इति दीर्घोच्चारणसामर्थ्यात् । जनी प्रादुर्भावे ' इत्यस्य तु दीर्घोच्चारणमन्तरेणापि ‘ अतो दीर्घो यञि ' ( पा. सू. ७, ३. १०१ ) इत्यनेनैव दीर्घः सिध्यति । तस्माद्दीर्घोच्चारणवैयर्थ्यप्रसंगादत्र ह्रस्वो न भवतीति सिद्धम् । बर्हिष्मते । तसौ मत्वर्थे ' इति भत्वात् रुत्वजश्त्वयोरभावः । रन्धय । ‘रध हिंसासंराद्धयोः ' । शासत् । ‘ शासु अनुशिष्टौ ' । शतरि अदादित्वात् शपो लुक् । ‘ जक्षित्यादयः षट् ' ( पा. सू. ६. १. ६ ) इत्यभ्यस्तसंज्ञायां : नाभ्यस्ताच्छतुः ' इति नुम्प्रतिषेधः । ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । शाकी । ‘ शक्लृ शक्तौ ' । भावे घञ् । ततो मत्वर्थीय इनिः । व्यत्ययेनाद्युदात्तत्वम् । यद्वा । वृषादिर्र्पष्टव्यः । विश्वा ता । उभयत्र ‘ शेश्छन्दसि ' इति शेर्लोपः । सधमादेषु । सह माद्यन्त्येष्विति सधमादा यज्ञाः । अधिकरणे घञ्प्रत्ययः । ननु “ मदोऽनुपसर्गे ' इति अप्प्रत्ययेन भवितव्यम् । मैवम् । “व्यधजपोरनुपसर्गे ' ( पा. सू. ३. ३. ६१ ) इत्यत्रैव मद इति वक्तव्ये यत् “ मदोऽनुपसर्गे' इति पृथगुपादानं तत् घञपि पक्षे यथा स्यादिति न्यासकारेण प्रत्यपादीत्यस्माभिर्धातुवृत्तावुक्तम् । सध मादस्थयोश्छन्दसि इति सहशब्दस्य सधादेशः । चाकन । ‘ कन दीप्तिकान्तिगतिषु । अत्र कान्त्यर्थः । ‘ छन्दसि लुङ्लङ्लिटः' इति वर्तमाने लिट् । ' णलुत्तमो वा ' ( पा. सू. ७. १. ९१ ) इति णित्त्वस्य विकल्पनात् वृद्ध्यभावः । तुजादित्वात् अभ्यासस्य दीर्घत्वम् ॥
 
 
Line १५९ ⟶ १७७:
 
वृद्धस्य । चित् । वर्धतः । द्याम् । इनक्षतः । स्तवानः । वम्रः । वि । जघान । सम्ऽदिहः ॥९
 
यः “इन्द्रः “अनुव्रताय अनुकूलकर्मणे यजमानाय “अपव्रतान् अपगतकर्मणः अयजमानान् “रन्धयन् हिंसयन् वशीकुर्वन् वा तथा “आभूभिः । आभिमुख्येन भवन्तीति आभुवः स्तोतारः । तैः "अनाभुवः तद्विपरीतान् “श्नथयन् हिंसयन् वर्तते । “वृद्धस्य “चित् "वर्धतः पूर्वं वृद्धस्यापि पुनर्वर्धमानस्य “द्यामिनक्षतः स्वर्गं व्याप्नुवतः तस्येन्द्रस्य “स्तवानः स्तुतिं कुर्वाणः “वम्रः स्तुत्युद्गिरणशील एतत्संज्ञक ऋषिः “संदिहः सम्यगुपचिता वल्मीकवपाः "वि “जघान । इन्द्रेण परिहृतान्तरायः सन् पृथिव्याः सारभूतं वल्मीकवपालक्षणं यज्ञसंभारमाहार्षीदित्यर्थः । तथा च शाखान्तरे समाम्नातं-- ‘ यद्वल्मीकवपासंभारो भवति ऊर्जमेव रसं पृथिव्या अवरुन्धे' (तै. ब्रा. १. १. ३. ४ ) इति ॥ अनुव्रताय । अनुकूलं व्रतं यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । श्नथयन् । ' श्नथ हिंसायाम् । णिचि घटादित्वात् मित्त्वे ‘ मितां ह्रस्वः' इति ह्रस्वत्वम् । वर्धतः । व्यत्ययेन परस्मैपदम् । इनक्षतः । ‘ नक्ष गतौ । इकारोपजनश्छान्दसः । यद्वा । इनक्षतिर्गत्यर्थः प्रकृत्यन्तरमन्वेष्टव्यम् । स्तवानः । ‘ सम्यानच् स्तुवः ' ( उ. सू. २. २४६ ) इति स्तौतेर्बहुलवचनात् निरुपपदादपि आनच्प्रत्ययः । व्यत्ययेनाद्युदात्तत्वम् । जघान । ‘ अभ्यासाच्च' इति अभ्यासादुत्तरस्य हन्तेर्हकारस्य कुत्वम् । संदिहः । ‘ दिह उपचये '।' कृत्यल्युटो बहुलम्' इति बहुलवचनात् कर्मणि क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् ।।
 
 
Line १७२ ⟶ १९२:
 
आ । त्वा । वातस्य । नृऽमनः । मनःऽयुजः । आ । पूर्यमाणम् । अवहन् । अभि । श्रवः ॥१०
 
हे इन्द्र “यत् यदा “उशना काव्यः “सहसा आत्मीयेन बलेन “ते “सहः त्वदीयं बलं “तक्षत् तनूकृतवान् । सम्यक् तीक्ष्णमकार्षीदित्यर्थः । तदा “शवः त्वदीयं बलं “मज्मना सर्वस्य शोधकेन स्वतैक्ष्ण्येन “रोदसी द्यावापृथिव्यौ "वि “बाधते । ते बिभीतः इत्यर्थः । तथा चान्यत्राम्नातं -- यस्य शुष्माद्रोदसी अभ्यसेताम्' (ऋ. सं. २. १२. १ ) इति । यद्वा । रोदसी यस्माद्वृत्रादेः बिभीतः तं बाधते इत्यर्थः । हे “नृमणः नृषु रक्षितव्येषु यजमानेष्वनुग्रहबुद्धियुक्तेन्द्र “आ “पूर्यमाणं पूर्वोक्तेन बलेन आ समन्तात् पूर्यमाणं “त्वा त्वां “मनोयुजः मनोव्यापारमात्रेण युक्ताः “वातस्य वायोः संबन्धिनः । तद्वद्वेगेन गच्छन्त इत्यर्थः । एवंभूता अश्वाः “श्रवः “अभि हविर्लक्षणमन्नमभिलक्ष्य “आ "अवहन् आभिमुख्येन प्रापयन्तु ॥ तक्षत् ।' तक्षू त्वक्षू तनूकरणे'। लङि ‘ बहुलं छन्दस्यमाङयोगेऽपि ' इति अडभावः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । उशना । ‘ वश कान्तौ ।। ‘ वशेः कनसिः ' ( उ. सू. ४. ६७८) इति कनस् । ‘ ग्रहिज्या° ' इत्यादिना संप्रसारणम् ‘ऋदुशनस्पुरुदंसोऽनेहसां च ' ( पा. सू. ७. १. ९४ ) इति अनङादेशः । ‘ सर्वनामस्थाने च° । (पा. सू. ६. ४. ८) इति उपधादीर्घत्वम् । हल्ङ्यादिनलोपौ । मज्मना । ‘टुमस्जो शुद्धौ । औणादिको मनिप्रत्ययः । नृमणः । छन्दस्यृदवग्रहात्' इति णत्वम् । अवहन् । 'छन्दसि लुङ्लङ्लिटः' इति प्रार्थनायां लङ् ॥ ॥ १० ॥
 
 
Line १८५ ⟶ २०७:
 
उग्रः । ययिम् । निः । अपः । स्रोतसा । असृजत् । वि । शुष्णस्य । दृंहिताः । ऐरयत् । पुरः ॥११
 
“यत् यदा “इन्द्रः "उशने कामयमाने "काव्ये "सचा सह “मन्दिष्ट स्तुतोऽभूत् तदानीं “वङ्कू “वङ्कुतरा अतिशयेन कुटिलं गच्छन्तावश्वौ “अधि “तिष्ठति। रथे संयोज्य तमारोहतीत्यर्थः । यद्वा। वङ्कुतरा अतिशयेन वक्रं गच्छति रथे वङ्कू वक्रगमनशीलावश्वौ संयोज्येति योजनीयम् । "उग्रः उद्गूर्णस्तादृशः इन्द्रः "ययिं गमनयुक्तात् मेघात् “स्रोतसा प्रवाहरूपेण “अपः “निः “असृजत् जलानि निरगमयत् । तथा “शुष्णस्य सर्वस्य शोषयितुरसुरस्य “दृंहिताः प्रवृद्धाः “पुरः नगराणि निवासस्थानानि “वि “ऐरयत् विविधं प्रेरितवान् ॥ मन्दिष्ट ।' मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु । लुङि ‘ बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । उशने । वशेः औणादिकः क्युप्रत्ययः । ग्रहिज्यादिना संप्रसारणम् । योरनादेशः । सचा । ‘ षच समवाये । संपदादिलक्षणो भावे क्विप् ।' आङयाजयारां चोपसंख्यानम् (पा. म. ७. १. ३९. १ ) इति विभक्तेः आङादेशः । संहितायां 'आङोऽनुनासिकश्छन्दसि ' (पा. सू. ६. १. १२६) इति तस्य सानुनासिकत्वम् । वङ्कू। ‘वञ्चु गतौ' । औणादिक उप्रत्ययः । बहुलवचनात् कुत्वम् । वङ्कुतरा । अतिशयेन वङ्कू वङ्कुतरा। ‘सुपां सुलुक्' इति विभक्तेः आकारः। अत्र गतिसामान्यवाचिना गतिविशेषो लक्ष्यते । ययिम् । ‘ या प्रापणे '।' आदृगमहनजनः° ' इति किप्रत्ययः । लिड्वद्भावात् द्विर्वचनह्रस्वत्वे । ‘ आतो लोप इटि च ' इति आकारलोपः । प्रत्ययस्वरः । ‘ सुपां सुपो भवन्ति' इति पञ्चम्या अमादेशः । दृंहिताः। दृहि वृद्धौ '। इदित्त्वात् नुम् । ऐरयत्। ‘ ईर प्रेरणे'। चौरादिकः । लङि आडागमः। ‘ आटश्च ' ( पा. सू. ६. १. ९० ) इति वृद्धिः ॥
 
 
Line १९८ ⟶ २२२:
 
इन्द्र । यथा । सुतऽसोमेषु । चाकनः । अनर्वाणम् । श्लोकम् । आ । रोहसे । दिवि ॥१२
 
अत्र कौषीतकिन इतिहासमाचक्षते – शार्यातनाम्नो राजर्षेर्यज्ञे भृगुगोत्रोत्पन्नश्च्यवनो महर्षिराश्विनं ग्रहमगृह्णात् । इन्द्रस्तं दृष्ट्वा क्रुद्धोऽभूत् । तमिन्द्रमनुनीय पुनः सोमं तस्मै प्रादादिति । अयमर्थोऽस्यां प्रतिपाद्यते । हे "इन्द्र त्वं “वृषपाणेषु । वृष्णः सेचनसमर्थस्य सोमस्य पानानि वृषपाणानि । तेषु निमित्तभूतेषु “रथम् "आ “तिष्ठसि “स्म स्वयमेव रथमारुह्य गच्छसि । न त्वन्यः कश्चित् प्रवर्तयितेति भावः । एवं च सति “येषु सोमेषु त्वं “मन्दसे हर्षं प्राप्नोषि तादृशाः सोमाः “शार्यातस्य एतन्नाम्नो राजर्षेः संबन्धिनः “प्रभृताः प्रकर्षेण संपादिताः । अभिषवादिसंस्कारैः संस्कृता इत्यर्थः । अतः “सुतसोमेषु अभिषुतसोमयुक्तेष्वन्यदीयेषु यज्ञेषु “यथा “चाकनः यथा कामयसे एवमस्यापि शार्यातस्य सोमान् कामयस्व । तथा सति “दिवि द्युलोके “अनर्वाणं गमनरहितं स्थिरं "श्लोकं स्तोत्रलक्षणं वचो यशो वा “आ "रोहसे प्राप्नोषि । यद्वा । इमं यजमानं दिवि द्युलोके उक्तलक्षणं यशः प्रापयसि ॥ स्म । ‘ निपातस्य च ' इति दीर्घत्वम् । वृषपाणेषु । 'पा पाने '। भावे ल्युट् । ' वा भावकरणयोः । (पा. सू. ८. ४. १०) इति पूर्वपदस्थान्निमित्तादुत्तरस्य पानशब्दनकारस्य णत्वम् । प्रभृताः। ‘ भृञ् भरणे । कर्मणि निष्ठा । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । मन्दसे । मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु । अदुपदेशात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । चाकनः । ‘ कन दीप्तिकान्तिगतिषु'। अत्र कान्त्यर्थः । कान्तिश्चाभिलाषः । लेटि सिपि अडागमः । ‘ बहुलं छन्दसि ' इति शपः श्लुः । तुजादित्वात् अभ्यासस्य दीर्घत्वम् ।' सर्वे विधयश्छन्दसि विकल्प्यन्ते' इति अभ्यस्तस्य आद्युदात्तत्वाभावे ' धातोः' इति धात्वन्तस्योदात्तत्वम् । अनर्वाणम् । अर्तेः ‘अन्येभ्योऽपि दृश्यन्ते' इति दृशिग्रहणाद्भावे वनिप् । नञा बहुव्रीहौ अमि ‘अर्वणस्रसावनञः' इति पर्युदासात, तृआदेशाभावे ‘ सर्वनामस्थाने च° ' इति उपधादीर्घत्वम् । ‘ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । श्लोकम् । ‘ श्लोकृ संघाते'। श्लोक्यते इति श्लोकः । कर्मणि घञ् । ञित्त्वादाद्युदात्तत्वम् । रोहसे । रुहेः व्यत्ययेन आत्मनेपदम् ॥
 
 
Line २११ ⟶ २३७:
 
मेना । अभवः । वृषणश्वस्य । सुक्रतो इति सुऽक्रतो । विश्वा । इत् । ता । ते । सवनेषु । प्रऽवाच्या ॥१३
 
अत्रेयमाख्यायिका । अङ्गराजः कस्मिंश्चिद्दिवसे स्वकीयाभियोंषिद्भिः सह गङ्गायां जलक्रीडां चक्रे । तस्मिन् समये दीर्घतमा नाम ऋषिः स्वभार्यया पुत्रभृत्यादिभिश्च दुर्बलत्वात् किमपि कर्तुं न शक्नोतीति द्वेषेण गङ्गामध्ये प्रचिक्षिपे । स च ऋषिः केनचित् प्लवेन अङ्गराजस्य क्रीडादेशं प्रति समाजगाम । स च राजा सर्वज्ञं तमृषिमवगत्य प्वादवतार्यैवमवोचत् । हे भगवन् मम पुत्रो नास्ति एषा महिषी अस्यां कंचित् पुत्रमुत्पादयेति । स च तथेत्यब्रवीत् । सा महिषी तु राजानं प्रति तथेत्युक्वा अयं वृद्धतरो जुगुप्सितो मम योग्यो न भवतीति बुद्ध्या स्वकीयाम् उशिक्संज्ञां दासीं प्राहैषीत्।। तेन च सर्वज्ञेन ऋषिणा मन्त्रपूतेन वारिणाभ्युक्षिता सती सैव ऋषिपत्नी बभूव । तस्यामुत्पन्नः कक्षीवान्नाम ऋषिः । स एव राज्ञः पुत्रोऽभूत्। स च बहुविधेन राजसूयादिनेजे। तस्मै राज्ञे तत्कृतैर्यंज्ञैः परितुष्ट इन्द्रो वृचयाख्यां तरुणीं योषितं प्रादात् । अयमर्थः पूर्वार्धे प्रतिपाद्यते ॥ हे “इन्द्र त्वं “महते प्रवृद्धाय “वचस्यवे त्वदीयस्तोत्रलक्षणं वच आत्मन इच्छते “सुन्वते त्वद्देवताकेषु यज्ञेषु सोमाभिषवं कुर्वते “कक्षीवते एतन्नाम्ने राज्ञे “वृचयां वृचयाख्याम् “अर्भाम् अल्पाम् । युवतिमित्यर्थः। एवंभूतां स्त्रियम् “अददाः । तथा “सुक्रतो शोभनकर्मन् शोभनप्रज्ञ वा हे इन्द्र त्वं “वृषणश्वस्य एतदाख्यस्य राज्ञः “मेनाभवः मेना नाम कन्यकाभूः । तथा च शाट्यायनिभिः सुब्रह्मण्यामन्त्रैकदेशव्याख्यानरूपं ब्राह्मणमेवमाम्नायते - वृषणश्वस्य मेन इति वृषणश्वस्य मेना भूत्वा मघवा कुल उवास' इति । तां च प्राप्तयौवनां स्वयमेवेन्द्रश्चकमे। तथा च ताण्डिभिराम्नातं - वृषणश्वस्य मेना नाम दुहितास । तामिन्द्रश्चकमे ' इति । अत उक्तरूपाणि यानि कर्माणि त्वया कृतानि “ते “ता त्वदीयानि तानि “विश्वेत् सर्वाण्येव “सवनेषु यज्ञेषु “प्रवाच्या प्रकर्षेण वक्तव्यानि । स्तुतिभिः स्तोतव्यानीत्यर्थः ॥ महते। बृहन्महतोरुपसंख्यानम्' इति विभक्तेरुदात्तत्वम् । वचस्यवे। ‘सुप आत्मनः क्यच् । 'क्याच्छन्दसि' इति उप्रत्ययः । कक्षीवते । अश्वबन्धनहेतवो रज्जवः कक्ष्याः । कक्षीवान् कक्ष्यावान्' ( निरु. ६. १०) इति यास्कः । आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवत् ' (पा. सू. ८. २. १२) इति संप्रसारणं मतुपो वत्वं च संज्ञायां निपात्यते । मेनेति स्त्रीनाम । ‘ मेना ग्नाः ' ( निरु. ३. २१) इति पाठात् । ‘ मन ज्ञाने'। मन्यते गृहकृत्यं जानातीति मेना । पचाद्यच् ।' नशिमन्योरलिट्येत्वं वक्तव्यम्' ( पा. सू. ६. ४. १२०. ५) इति एत्वम् । वृषादिर्द्रष्टव्यः । ‘ मेना मानयन्त्येनाः ' ( निरु. ३. २१) इति यास्कः । सवनेषु । सवनमिति यज्ञनाम । सूयतेऽभिषूयते एष्विति अधिकरणे ल्युट् । प्रवाच्या ।' वच परिभाषणे ' । ण्यति ‘यजयाचरुच प्रवचर्चश्च' (पा. सू. ७. ३. ६६ ) इति कुत्वाभावः । तित्स्वरिते प्राप्ते व्यत्ययेनाद्युदात्तत्वम् । यद्वा । वाचयतेः ' अचो यत्' इति यत्। 'यतोऽनावः' इत्याद्युदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
 
 
Line २२४ ⟶ २५२:
 
अश्वऽयुः । गव्युः । रथऽयुः । वसुऽयुः । इन्द्रः । इत् । रायः । क्षयति । प्रऽयन्ता ॥१४
 
“इन्द्रः देवः "सुध्यः शोभनकर्मणो यजमानान् शोभनप्रज्ञान् वा “निरेके नैर्धन्ये निमित्तभूते सति तान् रक्षतुम् अश्रायि असेविष्ट । पज्रेषु । पज्रा इत्यङ्गिरसामाख्या । तथा च शाट्यायनिभिराम्नातं - पज्रा वा अङ्गिरसः पशुकामास्तपोऽतप्यन्त ' इति । येषु यजमानेष्वङ्गिरःसु “स्तोमः स्तोत्रं निश्चलं तिष्ठति “दुर्यो “न "यूपः द्वारि निखाता स्थूणेव । तान् सुध्यः इति पूर्वेणान्वयः । तस्मादिदानीमपि “रायः “प्रयन्ता धनस्य प्रदाता “इन्द्र “इत् इन्द्र एव यजमानानां दातुम् “अश्वयुः अश्वानिच्छन् । तथा "गव्युः गा इच्छन् 'रथयुः रथानिच्छन् “वसूयुः एवमन्यदपि यद्धनमस्ति तदपीच्छन् “क्षयति वर्तते ॥ अश्रायि । श्रिञ् सेवायाम् ' । कर्तरि लुङि व्यत्ययेन च्लेः चिणादेशः । सुध्यः । धीरिति कर्मनाम। शोभना धीर्येषाम्। ‘नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । शसि छन्दस्युभयथा' इति यणादेशः । ‘ उदात्तस्वरितयोर्यणः' इति स्वरितत्वम् । निरेके । नितरां रेचनं निरेकः । ‘ रिचिर् विरेचने'। भावे घञ् । थाथादिना उत्तरपदान्तोदात्तत्वम् । दुर्यः । दुरे भवो दुर्यः । भवे छन्दसि ' इति यत् । यतोऽनावः' इत्याद्युदात्तत्वम् । यूपः । ‘यु मिश्रणे'। यूयते युज्यतेऽस्मिन्निति यूपः । ‘ कुयुभ्यां च ' ( उ. सू. ३. ३०७ ) इति पप्रत्ययः । दीर्घः इत्यनुवृत्तेः दीर्घत्वम् । अश्वयुः । यजमानेभ्योऽश्वानिच्छन् । 'छन्दसि परेच्छायाम् ' ( का. ३. १. ८. २) इति क्यच् । ‘न च्छन्दस्यपुत्रस्य ' इति ईत्वदीर्घयोर्निषेधः । अश्वाघस्यात्' इति आत्वं तु छान्दसत्वात् न भवति । ‘क्याच्छन्दसि ' इति उप्रत्ययः । एवमुत्तरत्रापि । एतावांस्तु विशेषः । गव्युरित्यत्र ‘वान्तो यि प्रत्यये' इति अवादेशः । यास्कस्त्वेवं व्याचष्टे- इदंयुरिदं कामयमानोऽथापि तद्वदर्थे भाष्यते । वसूयुरिन्द्रो वसुमानित्यर्थः । अश्वयुर्गव्यू रथयुर्वसूयुरित्यपि निगमो भवति ( निरु. ६. ३१) इति । क्षयति । ‘ क्षि क्षये '। भौवादिकः । प्रयन्ता । ‘ यम उपरमे'। तृचि ‘ एकाचः' इति इट्प्रतिषेधः । ‘ चितः' इत्यन्तोदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
 
 
Line २३७ ⟶ २६७:
 
अस्मिन् । इन्द्र । वृजने । सर्वऽवीराः । स्मत् । सूरिऽभिः । तव । शर्मन् । स्याम ॥१५
 
“इदं पुरोवर्ति “नमः स्तुतिलक्षणं वचो हे "इन्द्र तुभ्यम् “अवाचि अस्माभिः प्रायोजि । कीदृशाय । “वृषभाय वर्षणशीलाय "स्वराजे स्वकीयेन तेजसा राजमानाय "सत्यशुष्माय । शुष्ममिति बलनाम शत्रूणां शोषकत्वात् । अवितथबलयुक्ताय । “तवसे अत्यन्तं प्रवृद्धाय । यस्मादेवं तस्मात् "अस्मिन् “वृजने वर्जनवति संग्रामे “सर्ववीराः । विशेषेण ईरयन्त्यमित्रानति वीरा भटाः। तादृशैः सर्वैर्भटैरुपेता वयम् । स्मत् इति निपातः सुशब्दार्थः । “तव "स्मत् "शर्मन् त्वया दत्ते शोभने गृहे “सूरिभिः विद्वद्भिः पुत्रादिभिः सह “स्याम भवेम निवसेमेत्यर्थः । यद्वा । त्वत्संबन्धिनि शोभने यज्ञगृहे सूरिभिः विद्वद्भिर्ऋत्विग्भिः सह स्याम । शर्मेति गृहनाम, ‘शर्म वर्म' ( नि. ३. ४. २१ ) इति पठितत्वात् ॥ स्वराजे ।' राजृ दीप्तौ । सत्सूद्विष ' इति क्विप् । सत्यशुष्माय । सत्यं शुष्मं बलं यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । तवसे । तवतिः सौत्रो धातुः । अस्मात् औणादिकः असिप्रत्ययः । वृजने । “ वृजी वर्जने'। ‘कॄपॄवृजिमन्दिनिधाञ्भ्यः क्युः ' ( उ. सू. २. २३९ ) इति क्युः' प्रत्ययः। शर्मन् । ‘सुपां सुलुक्' इति सप्तम्या लुक् । ' न ङिसंबुद्ध्योः' (पा. सू. ८. २. ८) इति नलोपप्रतिषेधः । स्याम । ‘ नश्च' (पा. सू. ८. ३. ३०) इति संहितायां सकारस्य धुडागमः । ‘ खरि च ' इति चर्त्वम् । 'चयो द्वितीयाः शरि पौष्करसादेः ' ( पा. सू. ८. ४. ४८. ३) इति तकारस्य थकारः ॥ ॥ ११ ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.५१" इत्यस्माद् प्रतिप्राप्तम्