"ऋग्वेदः सूक्तं १.५३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३५:
 
{{सायणभाष्यम्|
‘न्यू षु' इति एकादशर्चं तृतीयं सूक्तम् । दशम्येकादश्यौ त्रिष्टुभौ । शिष्टा नव जगत्यः । सव्य ऋषिः । इन्द्रो देवता । तथा चानुक्रान्तं– न्यू ष्वेकादशान्त्ये त्रिष्टुभौ ' इति । अतिरात्रे प्रथमे पर्याये ब्राह्मणाच्छंसिनः शस्त्रे एतत्सूक्तम् । तथा चासूत्रयदाचार्यः- ‘ न्यू षु वाचमप्सु धूतस्य हरिवः। पिबेहेति याज्या' (आश्व. श्रौ. ६. ४ ) इति ॥
 
 
न्यू॒३॒॑ षु वाचं॒ प्र म॒हे भ॑रामहे॒ गिर॒ इन्द्रा॑य॒ सद॑ने वि॒वस्व॑तः ।
Line ४७ ⟶ ४९:
 
नु । चित् । हि । रत्नम् । ससताम्ऽइव । अविदत् । न । दुःऽस्तुतिः । द्रविणःऽदेषु । शस्यते ॥१
 
"महे महते "इन्द्राय "सु "वाचं शोभनां स्तुतिं “नि “प्र “भरामहे नितरां प्रयुञ्ज्महे । “उ इति पादपूरणः । यतः 'विवस्वतः परिचरतो यजमानस्य “सदने यज्ञगृहे इन्द्राय "गिरः स्तुतयः क्रियन्ते । “हि यस्मात् स इन्द्रः "नू “चित् क्षिप्रमेव “रत्नं रमणीयमसुराणां धनम् "अविदत् विन्दति । तत्र दृष्टान्तः । “ससतामिव । यथा स्वपतां पुरुषाणां धनं चोरः क्षिप्रं लभते तद्वत् । अतोऽस्मभ्यं धनं दातुं शक्त इति भावः । “द्रविणोदेषु धनस्य दातृषु पुरुषेषु "दुष्टुतिः असमीचीना स्तुतिः "न “शस्यते नाभिधीयते । अतः सुवाचं प्र भरामहे इति पूर्वेण संबन्धः ॥ न्यू षु इत्यस्य ‘उदात्तस्वरितयोर्यणः । इति स्वरितत्वम् । तत्र उदात्तपरत्वात् संहितायां कम्प्यते । ‘इकः सुञि' (पा. सू. ६. ३. १३४ ) इति दीर्घत्वम् । ‘सुञः' इति षत्वम् । महे ।' मह पूजायाम्' इत्यस्मात् ‘क्विप् च ' इति क्विप् । ‘ सावेकाचः' इति विभक्तेरुदात्तत्वम् । यद्वा । महच्छब्दस्य अच्छब्दलोपश्छान्दसः । नू चित् । ‘ ऋचि तुनुघ' इत्यादिना दीर्घः । ससतामिव ।' षस स्वप्ने ' । अस्मात् शत्रन्तदन्तोदात्तात्परस्या विभक्तेः ‘शतुरनुमः' इत्युदात्तत्वम् । ‘ इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च ' (पा. सू. २. १. ४. २) इति समासः । अविदत् ।' विद्लृ लाभे'। 'छन्दसि लुङ्लङ्लिटः ' इति वर्तमाने लुङि • पुषादिद्युतादिः' इति च्लेः अङादेशः । अडागम उदात्तः । ' हि च' इति निघातप्रतिषेधः । द्रविणोदेषु । द्रविणानि धनानि ददातीति द्रविणोदः । ‘द्रु गतौ ' इत्यस्मात् ‘द्रुदक्षिभ्यामिनन्' (उ. सू. २. २०८) इति इनन्प्रत्ययान्तो द्रविणशब्दः । तस्मिन् कर्मण्युपपदे ‘आतोऽनुपसर्गे कः' इति कः । पूर्वपदस्य सुगागमश्छान्दसः । कृदुत्तरपदप्रकृतिस्वरत्वम् । शस्यते । ‘शंसु स्तुतौ ' । यकि ‘अनिदिताम् ' इति नलोपः ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.५३" इत्यस्माद् प्रतिप्राप्तम्