"ऐतरेय ब्राह्मणम्/पञ्चिका १ (प्रथम पञ्चिका)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २३:
40
 
स्वर्गं वा एतेन लोकमुप प्रयन्ति यत्प्रायणीयस्तत्प्रायणीयस्य प्रायणीयत्वम्प्राणोप्रायणीयत्वं प्राणो वै प्रायणीय उदान उदयनीयः समानो होता भवति समानौ हि प्राणोदानौ प्राणानां क्लृप्त्यै प्राणानाम्प्रतिप्रज्ञात्यैप्राणानां प्रतिप्रज्ञात्यै यज्ञो वै देवेभ्य उदक्रामत्ते देवा न किं चनाशक्नुवन्कर्तुं न प्राजानंस्तेऽब्रुवन्नदितिं त्वयेमं यज्ञम्प्रजानामेतियज्ञं प्रजानामेति सा तथेत्य-ब्रवीत्सातथेत्यब्रवीत्सा वै वो वरं वृणा इति वृणीष्वेति सैतमेव वरमवृणीत मत्प्रायणा यज्ञाः सन्तु मदुदयना इति तथेति तस्मादादित्यश्चरुः प्रायणीयो भवत्यादित्य उद-यनीयोउदयनीयो वरवृतो ह्यस्या अथो एतं वरमवृणीत मयैव प्राचीं दिशम्प्रजानाथाग्निनादिशं प्रजानाथाग्निना दक्षिणां सोमेन प्रतीचीं सवित्रोदीचीमिति पथ्यां यजति यत्पथ्यां यजति तस्मादसौ पुर उदेति पश्चास्तमेति पथ्यां ह्येषोऽनुसंचरत्यग्निं यजति यदग्निं यजति तस्माद्दक्षिणतोऽग्र ओषधयः पच्यमाना आयन्त्याग्नेय्यो ह्योषधयः सोमं यजति यत्सोमं यजति तस्मात्प्रतीच्योऽप्यापो बह्व्यः स्यन्दन्ते सौम्या ह्यापः ११सवितारं सवितारम्यजतियजति यत्सवितारं यजति तस्मादुत्तरतः पश्चादयम्भूयिष्ठम्पवमानःपश्चादयम्भूयिष्ठं पवमानः पवते सवितृप्रसूतो ह्येष एतत्पवत उत्तमामदितिं यजति यदुत्तमामदितिं यजति तस्मादसाविमां वृष्ट्याभ्युनत्त्यभिजिघ्रति पञ्च देवता यजति पाङ्क्तो यज्ञः सर्वा दिशः कल्पन्ते कल्पते यज्ञोऽपि तस्यै जनतायै कल्पते यत्रैवं विद्वान्होता भवति॥1.7॥