"ऋग्वेदः सूक्तं १.६२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३८:
 
{{सायणभाष्यम्|
॥ श्रीगणेशाय नमः ॥
 
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
 
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
 
अथ पञ्चमाध्याय आरभ्यते । प्रथमे मण्डले एकादशेऽनुवाके चत्वारि सूक्तानि गतानि । ' प्र मन्महे' इत्येतत् त्रयोदशर्चं पञ्चमं सूक्तम् । अत्रानुक्रम्यते- प्र सप्तोनेति । अनिरुक्ता संख्या विंशतिः । ( अनु. १२. ४ ) इत्युक्तत्वात् प्र सप्तोनेत्युक्ते त्रयोदशेत्युक्तं भवति । ‘ ऋषिश्चान्यस्मात् ' इति परिभाषया नोधा ऋषिः । अनादेशपरिभाषया त्रिष्टुप् छन्दः । इन्द्रो देवता । गतः सामान्य विनियोगः । विशेषविनियोगस्तु लिङ्गादवगन्तव्यः ॥
 
 
प्र म॑न्महे शवसा॒नाय॑ शू॒षमा॑ङ्गू॒षं गिर्व॑णसे अङ्गिर॒स्वत् ।
Line ५० ⟶ ५८:
 
सुवृक्तिऽभिः । स्तुवते । ऋग्मियाय । अर्चाम । अर्कम् । नरे । विऽश्रुताय ॥१
 
"शवसानाय । शव इति बलनाम । तदिवाचरते। यथा बलं शत्रून् हन्ति तथा शत्रूणां हन्तेत्यर्थः । "गिर्वणसे । गीर्भिः स्तुतिलक्षणैर्वचोभिः संभजनीयाय । ‘ गिर्वणा देवो भवति गीर्भिरेनं वनयन्ति' (निरु. ६. १४ ) इति यास्कः । एवंभूतायेन्द्राय । शूषमिति सुखनाम । "शूषं सुखहेतुभूतम् ।' आङ्गूषः स्तोम आघोषः ' ( निरु. ५. ११ ) इति यास्कः। "आङ्गूषं स्तोत्रम् "अङ्गिरस्वत् अङ्गिरस इव "प्र "मन्महे वयं स्तोतारः प्रकर्षेणावगच्छामः। अवगत्य च "सुवृक्तिभिः सुष्ठ्वावर्जकैः स्तुत्याभिमुखीकरणसमर्थैः स्तोत्रैः "स्तुवते स्तोत्रं कुर्वते ऋषये य इन्द्र ऋग्मियोऽर्चनीयो भवति । यद्वा । कर्मणि कर्तृप्रत्ययः । ऋषिणा स्तूयमानायेत्यर्थः । "नरे सर्वेषां नेत्रे । यद्वा । नरे यजमाने । "विश्रुताय यष्टव्यतया विशेषेण प्रख्याताय। एवंभूताय तस्मै "अर्कं मन्त्ररूपं स्तोत्रम् । अर्को मन्त्रो भवति यदेनेनार्चन्ति' (निरु. ५. ४) इति यास्कः । "अर्चाम पूजयाम । उच्चारयामेत्यर्थः ॥ मन्महे। मनु अवबोधने ' । तनादित्वात् उप्रत्ययः । लोपश्चास्यान्यतरस्यां म्वोः ' ( पा. सू. ६. ४. १०७ ) इति मकारादौ प्रत्यये उकारलोपः । शवसानाय । शव इवाचरति शवस्यते । अस्मात् लटः शानच् । बहुलं छन्दसि ' इति शपो लुक् । शानचः ‘छन्दस्युभयथा' इति आर्धधातुकत्वात् अतोलोपयलोपौ । चितः इत्यन्तोदात्तत्वम् । ननु क्यङो ङित्त्वात् ' तास्यनुदात्तेत्' इति शान्चोऽनुदात्तेन भवितव्यम् । एवं तर्हि ताच्छीलिकः चानश् । तस्य सार्वधातुकरवेऽपि सार्वधातुकत्वाभावात् चितः स्वर एव शिष्यते । शूषम् । ‘शूष प्रसवे'। पचाद्यच् । आङ्गूषम् । आङ्पूर्वात् घुषेः पचाद्यचि घो इत्यस्य गूआदेशः पृषोदरादित्वात् । आङो ङकारस्य इत्संज्ञाभावश्छान्दसः । चित्स्वरेणोत्तरपदस्यान्तोदात्तत्वे कृदुत्तरपदप्रकृतिस्वरत्वम् । घञि वा थाथादिना उत्तरपदान्तोदात्तत्वम् । गिर्वणसे ।' गॄ शब्दे ' । संपदादिलक्षणो भावे क्विप् । 'ऋत इद्धातोः' इति इत्वम् । गीर्भिर्वन्यते संभज्यते इति गिर्वणः । औणादिकः कर्मणि असुन्। संज्ञापूर्वकस्य विधेरनित्यत्वात् ‘हलि च ' इति दीर्घाभावः । ‘गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च ' इति वचनात् पूर्वपदप्रकृतिस्वरत्वम् । अङ्गिरस्वत्। ‘ तेन तुल्यम्' इति वतिः ।' नभोऽङ्गिरोमनुषां वत्युपसंख्यानम्' (पा. सू. १. ४. १८. ३) इति भसंज्ञायां रुत्वाद्यभावः । प्रत्ययस्वरः । सुवृक्तिभिः । वृजी वर्जने' । भावे क्तिन् । “ तितुत्र' इति इट्प्रतिषेधः । शोभनमावर्जनं येषाम् । ‘ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । ननु क्तिनन्तस्योत्तरपदस्याद्युदात्तत्वात् ' आद्युदात्तं द्व्यच्छन्दसि ' इति वचनादुत्तरपदाद्युदात्तत्वं प्राप्नोति । एवं तर्हि तत्पुरुषोऽस्तु । शोभनमावर्जितो भवत्येभिरिति सुवृक्तयः स्तोत्राणि । करणे क्तिन् । ' तादौ च निति” ' इति गतेः प्रकृतिस्वरत्वे प्राप्ते ‘मन्क्तिन्” ' इत्यादिना कारकादुत्तरस्य क्तिनो विहितमुत्तरपदान्तोदात्तत्वमकारकादपि व्यत्ययेन भवति । स्तुवते । ‘शतुरनुमः' इति विभक्तेरुदात्तत्वम् । ऋग्मियाय । एकाचो नित्यं मयटमिच्छन्ति' (का.४. ३. १४४) इति ऋक्शब्दात् विकारार्थे मयट् । 'स्वादिष्वसर्वनामस्थाने' (पा. सू. १. ४. १७ ) इति पदसंज्ञायां कुत्वजश्त्वे । व्यत्ययेन इत्वम् । यद्वा ।' ऋच स्तुतौ' इत्यस्मात् भावे मक् । बहुलवचनात् कुत्वं जश्त्वं च । ऋग्मं स्तुतिमर्हतीति ऋग्मियः । अर्हार्थे घच् । ' चितः ' इत्यन्तोदात्तत्वम् । अर्चाम ।' अर्च पूजायाम् । भौवादिकः । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । अर्कम् । अर्च्यतेऽनेनेत्यर्कः । ‘ पुंसि संज्ञायां घः प्रायेण ' इति घप्रत्ययः । चजोः कु घिण्ण्यतोः ' इति कुत्वम् । नरे । नृशब्दात् चतुर्थ्येकवचने गुणश्छान्दसः । विश्रुताय । श्रु श्रवणे' । कर्मणि निष्ठा । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् ।।
 
 
Line ६३ ⟶ ७३:
 
येन । नः । पूर्वे । पितरः । पदऽज्ञाः । अर्चन्तः । अङ्गिरसः । गाः । अविन्दन् ॥२
 
हे ऋत्विजः "वः यूयं "महे महते “शवसानाय बलमिवाचरते । अतिबलायेत्यर्थः । उत्तरवाक्ये यच्छब्दश्रुतेः तच्छब्दाध्याहारः । एवंभूताय तस्मै इन्द्राय "महि महत् प्रौढं "नमः स्तोत्रं “प्र “भरध्वं प्रकर्षेण संपादयत । किं तत् स्तोत्रमित्याह । "आङ्गूष्यं "साम आघोषयोग्यं रथन्तरादिसाम । तन्निपाद्यतामित्यर्थः। ‘ अभि त्वा शूर' (ऋ. सं. ७. ३२. २२ ) इत्यादिषु ऋक्षु यद्गानं तस्य सामेत्याख्या। तथा चोक्तं-' गीतिषु सामाख्या' (जै. सू. २. १. ३६) इति । "येन इन्द्रेण "नः अस्माकं "पितरः पितृविशेषाः "पूर्वे पूर्वपुरुषाः "अङ्गिरसः पणिनाम्नासुरेणापहृतानां गवां 'पदज्ञाः मार्गज्ञाः सन्तोऽत एव "अर्चन्तः तं पूजयन्तः "गा "अविन्दन् अलभन्त ॥ वः । प्रथमार्थे द्वितीया । पदज्ञाः । पदानि जानन्तीति । अतोऽनुपसर्गे कः' इति कः । ‘ आतो लोप इटि च' इति आकारकोपः ।। अविन्दन् ।' विद्लृ लाभे'। ‘शे मुचादीनाम्' इति नुमागमः ॥
 
 
Line ७६ ⟶ ८८:
 
बृहस्पतिः । भिनत् । अद्रिम् । विदत् । गाः । सम् । उस्रियाभिः । वावशन्त । नरः ॥३
 
अत्रेदमाख्यानम् । सरमा नाम देवशुनी । पणिभिर्गोष्वपहृतासु तद्गवेषणाय तां सरमामिन्द्रः प्रहैषीत्। यथा लोके व्याधो वनान्तर्गतमृगान्वेषणाय श्वानं विसृजति तद्वत् । सा च सरमा एवमवोचत्। हे इन्द्र अस्मदीयाय शिशवे तद्गोसंबन्धि क्षीराद्यन्नं यदि प्रयच्छसि तर्हि गमिष्यामीति । स तथेत्यब्रवीत् । तथा च शाट्यायनकम्-अन्नादिनीं ते सरमे प्रजां करोमि या नो गा अन्वविन्दः' इति ततो गत्वा गवां स्थानमज्ञासीत् । ज्ञात्वा चास्मै न्यवेदयत् । तथा निवेदितासु गोषु तमसुरं हत्वा ता गाः स इन्द्रोऽलभतेति । अयमर्थोऽस्यां प्रतिपाद्यते ॥ “इन्द्रस्य "अङ्गिरसाम् ऋषीणां "च “इष्टौ प्रेषणे सति "सरमा देवशुनी "तनयाय स्वपुत्राय “धासिम् अन्नं "विदत् अविन्दत् । धासिः इत्यन्ननाम, ‘ धासिः इरा' (नि. २.७. ११) इति तन्नामसु पाठात् । तथा गोषु निवेदितासु "बृहस्पतिः बृहतां देवानामधिपतिरिन्द्रः "अद्रिम् अत्तारमसुरं “भिनत् अवधीत् । तेनापहृताः “गाः "विदत् अलभत । ततः "नरः नेतारो देवाः “उस्रियाभिः गोभिः सह । उस्रिया इति गोनाम । “सं “वावशन्त भृशं हर्षशब्दमकुर्वन् । यद्वा । गोभिः साधनभूताभिस्तदीयं क्षीरादिकमकामयन्त समगच्छन्तेत्यर्थः ॥ इष्टौ ।' इष गतौ । इत्यस्मात् भावे क्तिनि मन्त्रे वृष° ' इत्यादिना क्तिन उदात्तत्वम् । विदत् । ‘ विद्लृ लाभे ' । लुङि लृदित्त्वात् अङ्।' बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । अङ एव स्वरः शिष्यते । पादादित्वात् निघाताभावः । सरमा । “सरमा सरणात् ' (निरु. ११. २४ ) इति यास्कः । सर्तेः औणादिकः अमप्रत्ययः । धासिम् । “धेट् पाने'। धीयते पीयते इति धासिः । औणादिकः सिप्रत्ययः । यद्वा । दधातेः पोषणार्थात् सिप्रत्ययः । बृहस्पतिः । ‘ तद्बृहतोः करपत्योश्चोरदेवतयोः सुट् तलोपश्च' (पा. सू. ६. १. १५७. ग.) इति सुडागमस्तलोपश्च । बृहच्छब्दः अन्तोदात्तः । तस्य केचिदाद्युदात्तत्वं वर्णयन्तीत्युक्तम् । पतिशब्दो डतिप्रत्ययान्त आद्युदात्तः । अतः ‘ उभे वनस्पत्यादिषु । इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । उस्रियाभिः । निवसत्यस्यां क्षीरादिकमिति उस्रा गौः । ‘ वस निवासे ' इत्यस्मात् ‘ स्फायितञ्चि° ' इत्यादिना अधिकरणे रक्। ‘ वचिस्वपि ' इत्यादिना संप्रसारणम् । ‘ उस्राशब्दात् स्वार्थे पृषोदरादित्वेन घप्रत्ययः' इति निघण्टुभाष्यम् । घस्य इयादेशः । प्रत्ययस्वरः । वावशन्त । वाशृ शब्दे ' । अस्मात् यङन्तात् लङि झस्य अन्तादेशे सति तस्य छन्दस्युभयथा' इति आर्धधातुकत्वात् अतोलोपयलोपौ । व्यत्ययेन धातोर्ह्रस्वत्वम् । यद्वा । ‘वश कान्तौ ' इत्यस्मात् यङि ‘न वशः ' ( पा. सू. ६. १. २० ) इति संप्रसारणे प्रतिषिद्धे पूर्ववत् प्रक्रिया ॥
 
 
Line ८९ ⟶ १०३:
 
सरण्युऽभिः । फलिऽगम् । इन्द्र । शक्र । वलम् । रवेण । दरयः । दशऽग्वैः ॥४
 
अङ्गिरसो द्विविधाः । सत्रयागमनुतिष्ठन्तो ये नवभिर्मासैः समाप्य गतास्ते नवग्वाः ।' नवग्वा नवनीतगतयः' (निरु. ११. १९) इति यास्को व्याचख्यौ। ये तु दशभिर्मासैः समाप्य जग्मुस्ते दशग्वाः। तादृशैरुभयविधैः "विप्रैः मेधाविभिः "सरण्युभिः सरणं शोभनां गतिमिच्छद्भिः "सप्त सप्तसंख्याकैः । सप्त ह्यत्र मेधातिथिप्रभृतयोऽङ्गिरसो दृश्यन्ते । एवंभूतैरङ्गिरोभिः "सुष्टुभा शोभनस्तोभयुक्तेन "स्वरेण उदात्तादिश्रव्यस्वरोपेतेन । यद्वा । मन्द्रमध्यमादिस्वरेण "स्तुभा स्तोत्रेण "स्वर्यः सुष्ठु प्राप्यः । यद्वा । शब्दनीयः स्तुत्य इत्यर्थः । हे "शक्र शक्तिमन् "इन्द्र एवंभूतः "सः त्वम् "अद्रिम् आदरणीयं वज्रेण छेत्तव्यमित्यर्थः । फलिगम् । प्रतिफलं प्रतिबिम्बम् । तदस्मिन्नस्तीति फलि स्वच्छमुदकम् । तद्गच्छति आधारत्वेनेति फलिगः । यद्वा । व्रीह्यादि फलम् । तदस्मिन् सति भवतीति फलि वृष्टिजलम् । तद्गच्छतीति फलिगः । एवंभूतं “वलं मेघं “रवेण आत्मीयेन शब्देन "दरयः अभाययः। त्वदीयशब्दश्रवणमात्रेण मेघो बिभेतीत्यर्थः । यद्वा । अद्रिः पर्वतः। अद्यतेऽस्मिन् पटलादिकमिति' । फलिगो मेघः । ‘ फलिगः उपलः ' ( नि. १. १०. १७ ) इति तन्नामसु पाठात् । वलोऽसुरः । ' देवा वै वले गाः पर्यपश्यन् ' ( ऐ. ब्रा. ६. २४ ) इत्यादौ असुरे प्रयुक्तत्वात् । एते त्रयोऽपि त्वदीयशब्दश्रवणमात्रेणाबिभयुरित्यर्थः ॥ सः इत्येकः पादपूरणः । सुष्टुभा । स्तोभतिः स्तुतिकर्मा । संपदादिलक्षणो भावे क्विप्। शोभनः स्तुप् स्तोभो यस्य । ‘नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । ‘ उपसर्गात्सुनोति' इति षत्वम् । स्तुभा । करणभूतस्यापि स्तोत्रस्य स्वव्यापारे कर्तृत्वात् स्तोभति स्तौतीति ‘क्विप् च' इति कर्तरि क्विप् । ‘सावेकाचः' इति विभक्तेरुदात्तत्वम् । सप्त । ‘सुपां सुलुक्' इति भिसो लुक् । स्वर्यः । स्वृ शब्दोपतापयोः । ‘ ऋहलोर्ण्यत्' इति ण्यत् । वृद्ध्यभावश्छान्दसः । ‘ तित्स्वरितम्' इति स्वरितत्वम् । नवग्वैः । नवशब्दे उपपदे गमेर्भावे क्विपि ' गमः क्वौ ' ( पा. सू. ६. ४. ४० ) इत्यनुनासिकलोपे ' ऊ च गमादीनामिति वक्तव्यम् ' ( पा. सू. ६. ४. ४०. २ ) इति ऊकारान्तादेशः । नवभिः गूः गमनं येषां ते नवग्वाः। अकारोपजनश्छान्दसः । यद्वा । गमेर्भावे ड्वप्रत्ययः । पूर्ववत् बहुव्रीहिः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । सरण्युभिः । सरणमात्मन इच्छन्तः सरण्यवः । क्यचि अन्त्यलोपश्छान्दसः । क्याच्छन्दसि' इति उः। फलिगम् । फलि उदकं गच्छतीति फलिगः । ‘डोऽन्यत्रापि दृश्यते ' ( पा. म. ३. २. ४८ ) इति गमेर्डः । वलम् । वृणोतीति वलः । पचाद्यच् । कपिलकादित्वात् लत्वम् (पा. म. ८. २. १८)। दरयः । ‘दॄ विदारणे' । वृद्धौ कृतायां दॄ भये इति घटादिषु पाठात् मित्त्वे • मितां ह्रस्वः' इति ह्रस्वत्वम् ।।
 
 
Line १०३ ⟶ ११९:
वि । भूम्याः । अप्रथयः । इन्द्र । सानु । दिवः । रजः । उपरम् । अस्तभायः ॥५
 
हे "दस्म दर्शनीय शत्रूणामुपक्षयितर्वा इन्द्र त्वम् "अङ्गिरोभिः ऋषिभिः "गृणानः स्तूयमानः सन् "उषसा "सूर्येण च सह "गोभिः किरणैः "अन्धः अन्धकारं "वि "वः व्यवृणोः व्यनाशय इत्यर्थः । तथा हे "इन्द्र त्वं "भूम्याः पृथिव्याः "सानु समुच्छ्रितप्रदेशं “वि “अप्रथयः विशेषेण विस्तीर्णमकरोः । विषमामिमां समीकृतवानित्यर्थः । तथा “दिवः अन्तरिक्षस्य "रजः रजसो लोकस्य “उपरम् उप्तं मूलप्रदेशम् "अस्तभायः अस्तभ्नाः । यथान्तरिक्षलोकस्य मूलं दृढं भवति तथाकार्षीरित्यर्थः ॥ गृणानः । कर्मणि लटः शानचि यकि प्राप्ते व्यत्ययेन श्ना । ‘ प्वादीनां ह्रस्वः' इति ह्रस्वत्वम् । चित्स्वरेणान्तोदात्तत्वम् । दस्म । ‘ दसु उपक्षये '। ‘इषियुधीन्धिदसि° ' ( उ. सू. १. १४२ ) इत्यादिना मक् । वः । वृञ् वरणे ' । लुङि सिपि ‘मन्त्रे घस' इत्यादिना च्लेर्लुक् । गुणे 'हल्ङ्याब्भ्यः' इति सलोपः । ‘ बहुलं छन्दस्यमाङयोगेऽपि ' इति अडभावः । अन्धः । ‘ तमोऽप्यन्ध उच्यते नास्मिन् ध्यानं भवति ' ( निरु. ५. १ ) इति यास्कः । रजः । ‘ लोका रजांस्युच्यन्ते' ( निरु. ४. १९) इत्युक्तत्वात् रजःशब्दो लोकवचनः । ‘ सुपां सुलुक्° ' इति षष्ठ्या लुक् । अस्तभायः । लङि ‘ स्तम्भुस्तुम्भु° ' ( पा. सू. ३. १. ८२ ) इत्यादिना श्नाप्रत्ययः । ‘ छन्दसि शायजपि ' ( पा. सू. ३. १. ८४ ) इति अहावपि व्यत्ययेन श्नाप्रत्ययस्य शायजादेशः । ‘ अनिदिताम् । इति नलोपः । अडागमः ॥ ॥ १ ॥
 
 
प्रवर्ग्येऽभिष्टवे ' तदु प्रयक्षतमम्' इत्येषा । ‘ अथोत्तरम्' इत्यत्र सूत्रितं -- तदु प्रयक्षतममस्य कर्मात्मन्वन्नभो दुह्यते घृतं पयः' (आश्व. श्रौ. ४. ७) इति ॥
 
तदु॒ प्रय॑क्षतममस्य॒ कर्म॑ द॒स्मस्य॒ चारु॑तममस्ति॒ दंस॑ः ।
Line ११५ ⟶ १३५:
 
उपऽह्वरे । यत् । उपराः । अपिन्वत् । मधुऽअर्णसः । नद्यः । चतस्रः ॥६
 
“दस्मस्य दर्शनीयस्य "अस्य इन्द्रस्य "तदु तदेव "कर्म "प्रयक्षतमम् अतिशयेन पूज्यम् । दंसः इति कर्मनाम । "दंसः तदेव कर्म "चारुतमम् अतिशयेन शोभनम् । किं तदित्यत आह। अयमिन्द्रः “उपह्वरे उपह्वर्तव्ये गन्तव्ये पृथिव्याः संबन्धिनि समीपदेशे "उपराः उप्ताः स्थापिताः “मध्वर्णसः मधुरोदकाः "चतस्रः "नद्यः प्रधानभूता गङ्गादिनदीः "अपिन्वत् असिञ्चदिति "यत् एतत् कर्म तदन्येन कर्तुमशक्यत्वात् पूज्यमित्यर्थः ॥ प्रयक्षतमम् । ‘यक्ष पूजायाम् । यक्ष्यते इति यक्षः । अतिशयेन यक्षो यक्षतमः । पुनः प्रादिसमासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । दंसः। ‘दसि दंसनदर्शनयोः'। चुरादिरात्मनेपदी । दंस्यते कर्तव्यतया दृश्यते इति दंसः कर्म । औणादिकः कर्मणि असुन् । उपह्वरे ।
ह्वृ कौटिल्यै '। कौटिल्यलक्षणगतिवाचिनात्र गतिमात्रं लक्ष्यते । उपह्वरन्ति गच्छन्त्यस्मिन् नद्य इत्युपह्वरो भूप्रदेशः । ‘ पुंसि संज्ञायां घः प्रायेण ' ( पा. सू. ३. ३. ११८) इत्यधिकरणे घप्रत्ययः । गुणः । कृदुत्तरपदप्रकृतिस्वरत्वम् । अपिन्वत् । ‘ पिवि सेचने '। भौवादिकः । चतस्रः । शस् । ‘ त्रिचतुरोः स्त्रियां तिसृचतसृ' (पा. सू. ७. २. ९९ ) इति चतुर्शब्दस्य चतस्रादेश आद्युदात्तो निपातितः । पूर्वसवर्णदीर्घे प्राप्ते ' अचि र ऋतः ' ( पा. सू. ७. २. १०० ) इति रेफादेशः । चतुर्शब्दस्य आद्युदात्तत्वात् स्थानिवद्भावेन चतस्रादेशस्य आद्युदात्तत्वे सिद्धेऽपि पुनराद्युदात्तनिपातनसामर्थ्यात् यणादेशस्य वा पूर्वविधौ स्थानिवद्भावात् “ चतुरः शसि ' इत्यन्तोदात्तत्वस्याभावः । न च ' न पदान्त°' इति स्थानिवद्भावप्रतिषेधः, स्वरदीर्घयलोपेषु लोपाजादेश एव न स्थानिवत् अन्यत्तु स्थानिवदेव ( पा. सू. १. १. ५८.१ ) इति नियमात् ॥ ।
 
 
Line १२८ ⟶ १५१:
 
भगः । न । मेने इति । परमे । विऽओमन् । अधारयत् । रोदसी इति । सुऽदंसाः ॥७
 
"अयास्यः । यासः प्रयत्नः । तत्साध्यो यास्यः । न यास्योऽयास्यः । युद्धरूपैः प्रयत्नैः साधयितुमशक्य इत्यर्थः । कथं साध्यते इत्यत आह । "स्तवमानेभिः स्तोत्रं कुर्वद्भिः पुरुषैः "अर्कैः स्तुतिरूपैर्मन्त्रैः स्तूयमानः सन्निन्द्रः सुसाध्यः भवति । यद्वा । अयास्यः पञ्चवृत्तिर्मुख्यप्राणः । स हि आस्यात् मुखात् अयते गच्छति निष्क्रामति । तदुपासकोऽप्यङ्गिरा उपचारात् अयास्य उच्यते । तथा च छन्दोगैराम्नातं -- तं हायास्य उद्गीथमुपासांचक्रे एतमु एवायास्यं मन्यन्त आस्याद्यदयते तेन । ( छा. उ. १. २. १२ ) इति । अथवा । अयमास्ये मुखे वर्तते इत्ययास्यः । तथा च वाजसनेयकं-- ‘ ते होचुः क्व नु सोऽभूद्यो न इत्थमसक्तेत्ययमास्येऽन्तरिति ' (बृ. उ. १. ३. ८ ) इति । पूर्ववदुपासकोऽप्ययास्यः । तेन ऋषिणा स्तवमानेभिः गुणिनिष्ठगुणाभिधानलक्षणां स्तुतिं कुर्वद्भिः अर्कैः मन्त्रैः करणभूतैः स्तूयमानः सन् "सनजा। सना इति निपातो नित्यार्थः । नित्यजाते सर्वदा विद्यमानस्वभावे इत्यर्थः। प्रथमभावविकारवाचिना जनिना द्वितीयो भावविकारः सत्ता लक्ष्यते । यथा “ औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धः' इति । ‘औत्पत्तिकमिति नित्यं ब्रूमः' (शा. भा. १.१.५) इति हि तद्भाष्यम्। “सनीळे समानं नीळम् ओको निवासस्थानं ययोस्ते । संलग्ने इत्यर्थः । एवंविधे द्यावापृथिव्यौ “द्विता द्विधा "वि “वव्रे विवृते अकरोत् भेदेनास्थापयदित्यर्थः । "मेने मननीये "परमे उत्कृष्टे “व्योमन् विविधरक्षणे नभसि वर्तमानः "भगो "न सूर्य इव "सुदंसाः शोभनकर्मेन्द्रः "रोदसी द्यावापृथिव्यौ “अधारयत् अपोषयत् । यद्वा । मेना इति स्त्रीनाम । तथा च यास्कः--- ‘ मेनाग्ना इति स्त्रीणां मेना मानयन्त्येनाः ' (निरु. ३. २१ ) इति । स्त्रीरूपमापन्ने रोदसी इन्द्रोऽपुष्यदित्यर्थः४॥ द्विता । द्विधा इत्यस्य धकारस्य तकारश्छान्दसः । सनजा । ‘ जनी प्रादुर्भावे ' । अस्मात् भावे ‘ अन्येष्वपि दृश्यते ' इति दृशिग्रहणस्य सर्वोपाधिव्यभिचारार्थत्वात् केवलादपि जनेर्डप्रत्ययः । सना नित्यं जो जननं ययोस्ते सनजे । पूर्वपदस्य ह्रस्वश्छान्दसः । एवमादित्वादन्तोदात्तत्वम् । तदेव बहुव्रीहिस्वरेण शिष्यते । सुपां सुलुक्' इति विभक्तेः आकारः । अयास्यः । ‘ यसु प्रयत्ने '। यासः प्रयत्नः । तत्र भवो यास्यः । ‘ भवे छन्दसि ' इति यत् । न यास्योऽयास्यः । ‘ परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् । श्रुत्युक्तनिर्वचने तु पृषोदरादित्वात् अभिमतरूपस्वरसिद्धिः । मेने । सप्तम्येकवचनस्य ' सुपां सुलुक् ' इति शेआदेशः । ‘ शे' (पा. सू. १. १. १३) इति प्रगृह्यत्वम् । यद्वा । मन्यते इति मेना । पचाद्यच् ।' नशिमन्योरलिढ्येत्वं वक्तव्यम् ' ( पा. सू. ६. ४. १२०.५) इति एत्वम् । ततः टाप् । द्विवचने 'ईदूदेद्द्विवचनम् ' ( पा. सू. १. १. ११ ) इति प्रगृह्यत्वम् । सुदंसाः । दंस इति कर्मवाची । असुन्प्रत्ययान्तः आद्युदात्तः । बहुव्रीहौ ' आद्युदात्तं द्व्यच्छन्दसि ' इत्युत्तरपदाद्युदात्तत्वम् ॥
 
 
Line १४१ ⟶ १६६:
 
कृष्णेभिः । अक्ता । उषाः । रुशत्ऽभिः । वपुःऽभिः । आ । चरतः । अन्याऽअन्या ॥८
 
"विरूपे शुक्लकृष्णतया विषमरूपे "पुनर्भुवा पुनःपुनः प्रतिदिवसं जायमाने "युवती तरुण्यौ रात्र्युषसोः सर्वदैकरूप्यात् । एवंभूते रात्र्युषसौ "दिवं द्युलोकं "भूम भूमिं च "सनात् चिरकालादारभ्य “स्वेभिरेवैः स्वकीयैर्गमनैः "परि चरतः पर्यावर्तते । अयमेवार्थः स्पष्टीक्रियते । "अक्ता रात्रिः "कृष्णेभिः अन्धकाररूपैर्वर्णैरुपलक्षिता “उषाः च “रुशद्भिः दीप्यमानैः "वपुर्भिः स्वशरीरभूतैस्तेजोभिरुपलक्षिता “अन्यान्या परस्परव्यतिहारेण “आ “चरतः आवर्तते । हे इन्द्र एतत्सर्वं त्वयैव कार्यते त्वदधीनत्वात् सर्वासां देवतानामित्यर्थः ॥ भूम । ‘सुपां सुलुक्' इति द्वितीयाया डादेशः । छान्दसो ह्रस्वः । एवैः । ‘ इण् गतौ'। ‘ इण्शीङ्भ्यां वन्' ( उ. सू. १. १५० ) इति भावे वन्प्रत्ययः । नित्त्वदाद्युदात्तत्वम् । अक्ता । नक्ता इति रात्रिनाम । नलोपश्छान्दसः । वपुर्भिः । ‘ अर्तिपॄवपि । (उ. सू. २. २७४ ) इत्यादिना उस् । नित्त्वादाद्युदात्तः । अन्यान्या । 'कर्मव्यतिहारे सर्वनाम्नो द्वे भवत इति वक्तव्यं समासवच्च बहुलम् ' (पा. म. ८. १. १२. ११) इति द्विर्भावे तस्य परमाम्रेडितम्' (पा. सू. ८. १. २ ) इति आम्रेड़ितसंज्ञायाम् ‘अनुदात्तं च' (पा. सू. . १. ३ ) इति आम्रेडितस्यानुदात्तत्वम् ॥
 
 
Line १५४ ⟶ १८१:
 
आमासु । चित् । दधिषे । पक्वम् । अन्तरिति । पयः । कृष्णासु । रुशत् । रोहिणीषु ॥९
 
"स्वपस्यमानः । स्वपः शोभनं कर्म । तदिवाचरन् "शवसा शवसो बलस्य सूनुः पुत्रः । अतिबलवानित्यर्थः । "सुदंसाः शोभनयागादिकर्मयुक्तः । एवंभूत इन्द्रः "सख्यं यजमानानां सखित्वं "सनेमि पुराणं "दाधार धारयति पोषयतीत्यर्थः । सनेमीति पुराणनाम। ‘प्रवयाः सनेमि' (नि. ३. २७. ४ ) इति पाठात् । किंच "आमासु “चित् आर्द्रासु अपरिपक्कासु गोषु च "अन्तः मध्ये "पक्वं परिपक्वं “पयः "दधिषे धारयसि । तथा "कृष्णासु कृष्णवर्णासु "रोहिणीषु लोहितवर्णासु च गोषु तद्विपरीतं “रुशत् दीप्यमानं श्वेतवर्णं पयः दधिषे ॥ सख्यम् । सख्युर्भावः सख्यम् । सख्युर्यः' इति यः । प्रत्ययस्वरः । दाधार । ‘ धृञ् धारणे' । तुजादित्वात् अभ्यासस्य दीर्घत्वम् । पक्वम् । ‘पचो वः ' (पा. सू. ८. २. ५२ ) इति निष्ठातकारस्य वत्वम् । रोहिणीषु ।' रुह बीजजन्मनि प्रादुर्भावे । ‘ रुहे रश्च लो वा ' ( उ. सू. ३. ३७४ ) इति इतन्प्रत्ययान्तो रोहितशब्द आद्युदात्तो वर्णवाची । ‘ वर्णानुदात्तात्तोपधातो नः ' ( पा. सू. ४. १. ३९ ) इति डीप् ; तत्संनियोगेन तकारस्य नकारादेशश्च । ङीपः पित्त्वादनुदात्तत्वे प्रातिपदिकस्वर एव शिष्यते ।।
 
 
Line १६७ ⟶ १९६:
 
पुरु । सहस्रा । जनयः । न । पत्नीः । दुवस्यन्ति । स्वसारः । अह्रयाणम् ॥१०
 
"सनात् चिरकालादारभ्य "सनीळाः समाननिवासस्थानाः "अवाताः । वातं गमनं तद्रहिताः एकपाण्यवस्थानात् । ‘ अवनयः' इति अङ्गुलिनाम। एवंभूताः "अवनीः अङ्गुलयः "पुरु पुरूणि बहूनि 'सहस्रा असंख्यातानि “व्रता व्रतानि इन्द्रसंबन्धीनि कर्माणि "अमृताः पुनःपुनःकरणेऽप्यालस्यरहिताः सत्यः "सहोभिः अस्मीयैर्बलैः "रक्षन्ते पालयन्ति । अपि च "स्वसारः स्वयमेव सरन्त्योऽङ्गुलयः "पत्नीः पालयित्र्यः “अह्रयाणं लज्जारहितं प्रगल्भमित्यर्थः । यद्वा । अह्रीतयानं प्रशस्तगमनमिन्द्रं "जनयो “न । जनयः इति देवानां पत्न्य उच्यन्ते - देवानां वै पत्नीर्जनयः । इति श्रुतेः । ता इव "दुवस्यन्ति परिचरन्ति । अञ्जलिबन्धनेन इन्द्रं प्रीणयन्तीत्यर्थः॥ अवनीः । ‘अवनयोऽङ्गुलयो भवन्त्यवन्ति कर्माणि ' ( निरु. ३. ९) इति यास्कः। ‘सुपां सुलुक्' इति जसः पूर्वसवर्णदीर्घत्वम् । अवाताः । ‘ वा गतिगन्धनयोः '।' असिहसि°' इत्यादिना भावे तन्प्रत्ययः । बहुव्रीहौ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । व्रता । ‘ शेश्छन्दसि बहुलम् । इति शेर्लोपः । दुवस्यन्ति । दुवस्यतिः परिचरणकर्मा । कण्ड्वादिः । अतो यक एव स्वरः शिष्यते । पादादित्वात् निघाताभावः। अह्रयाणम् । ‘ ह्री लज्जायाम् '। 'बहुलं छन्दसि' इति श्लोरभावः । व्यत्ययेन शानच् । मुगभावश्छान्दसः । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । यद्वा । ‘ बहुलं छन्दसि’ इति शपो लुकि ‘छन्दस्युभयथा ' इति शानच आर्धधातुकत्वेन ङित्त्वाभावे गुणायादेशौ । पूर्ववत् समासस्वरौ । यास्कस्तु एवं व्याख्यत् - ‘ अह्रयाणोऽह्रीतयानः' (निरु. ५. १५) इति ॥ ॥ २ ॥
 
 
Line १८० ⟶ २११:
 
पतिम् । न । पत्नीः । उशतीः । उशन्तम् । स्पृशन्ति । त्वा । शवसाऽवन् । मनीषाः ॥११
 
हे दस्म दर्शनीयेन्द्र "अर्कैः शस्त्ररूपैर्मन्त्रैः "नमसा नमस्कारेण यस्त्वं "नव्यः स्तुत्यो भवसि । "सनायुवः सनातनमग्निहोत्रादि नित्यं कर्म आत्मन इच्छन्तः "वसूयवः वसु धनमात्मन इच्छन्तो धनकामा वा “मतयः मेधाविनस्त्वां "दद्रुः बहुना प्रयासेन जग्मुः । हे “शवसावन् बलवन्निन्द्र तैः प्रयुक्ताः "मनीषाः स्तुतयः “त्वा त्वां "स्पृशन्ति प्राप्नुवन्ति । तत्र दृष्टान्तः। “उशतीः उशत्यः कामयमानाः "पत्नीः पत्न्यः "उशन्तं कामयमानं "पतिं "न । यथा पतिं संभजन्ते तद्वत् ॥ सनायुवः । सना इत्येतदव्ययं नित्यत्वमाचष्टे। तेन च तद्वान् लक्ष्यते । सना सनातनं कर्म आत्मन इच्छन्तीति सनायुवः । ‘ क्याच्छन्दसि ' इति उप्रत्ययः । जसि वर्णव्यत्ययेन उत्वम् । मतयः । ‘ मन ज्ञाने ' । मन्यन्ते इति मतयः स्तोतारः।' क्तिच्क्तौ च संज्ञायाम् ' इति क्तिच् । ' न क्तिचि दीर्घश्च' इति निषेधे प्राप्ते बाहुलकात् “ अनुदात्तोपदेश° ' इत्यादिना अनुनासिकलोपः । चित्त्वादन्तोदात्तत्वम् । दद्रुः । ‘ द्रा कुत्सायां गतौ' । लिटि उसि ‘अतो लोप इटि च' इति आकारलोपः । उशतीः। ‘वश कान्तौ'। लटः शतृ । अदादित्वात् शपो लुक् । शतुर्ङित्त्वात् ग्रहिज्यादिना संप्रसारणम् । ‘ उगितश्च' इति ङीप्। ‘शतुरनुमः' इति नद्या उदात्तत्वम् । ‘ वा छन्दसि ' इति पूर्वसवर्णदीर्घः । शवसावन् । मतुपि अकारोपजनश्छान्दसः । यद्वा । मत्वर्थीय आवनिप् ॥
 
 
Line १९३ ⟶ २२६:
 
द्युऽमान् । असि । क्रतुऽमान् । इन्द्र । धीरः । शिक्ष । शचीऽवः । तव । नः । शचीभिः ॥१२
 
हे "दस्म दर्शनीयेन्द्र । गभस्तिरिति बाहुनाम । “तव "गभस्तौ हस्ते "सनादेव चिरकालादारभ्य स्थितानि “रायः धनानि "न "क्षीयन्ते न विनश्यन्ति । "नोप “दस्यन्ति च स्तोतृभ्यो दत्तेऽपि त्वद्धस्तगतं धनमुपक्षयं न प्राप्नोति । अपि तु वर्धते । हे "इन्द्र “धीरः बुद्धिमान् धृष्टो वा त्वं द्युमान् दीप्तिमान् "असि । तथा “क्रतुमान् लोकरक्षणहेतुभूतकर्मयुक्तोऽसि । हे "शचीवः कर्मवन्निन्द्र "तव “शचीभिः त्वदीयैः कर्मभिः “नः अस्मभ्यं धनं "शिक्ष देहि। शिक्षतिर्दानकर्मा ॥ क्षीयन्ते। ‘क्षीञ् हिंसायाम् । अस्मात् कर्मकर्तरि कर्मवद्भावात् यगात्मनेपदे। वत्करणं स्वाश्रयमपि यथा स्यात्' (का.३.१ ८७) इति कर्मवद्भावात् ‘अचः कर्तृयकि' (पा. सू. ६. १. १९५) इत्याद्युदात्तत्वम् । ‘चादिलोपे विभाषा ' इति निघातप्रतिषेधः । शचीवः । शची अस्यास्तीति शचीवान् । छन्दसीरः' इति मतुपो वत्वम् । संबुद्धौ ‘मतुवसो रुः ' इति नकारस्य रुत्वम् ।।
 
 
Line २०७ ⟶ २४२:
सुऽनीथाय । नः । शवसान । नोधाः । प्रातः । मक्षु । धियाऽवसुः । जगम्यात् ॥१३
 
स इन्द्रः "सनायते नित्य इवाचरति सर्वेषामाद्यो भवति । हे “शवसान बलवन् "इन्द्र "हरियोजनाय । हरी अश्वौ रथे योजयतीति हरियोजनः । "सुनीथाय सुष्ठु नेत्रे । एवंभूताय तस्मै तुभ्यं “गोतमः गोतमस्य ऋषेः पुत्रः “नोधाः ऋषिः "नव्यं नूतनं “ब्रह्म एतत्सूक्तरूपं स्तोत्रं "नः अस्मदर्थम् “अतक्षत् अकरोत् । अतोऽस्माभिरनेन स्तोत्रेण स्तुतः सन् धिया बुद्ध्या कर्मणा वा प्राप्तवसुरिन्द्रः प्रातःकाले "मक्षु शीघ्रं "जगम्यात् आगच्छतु ॥ सनायते । सना इति निपातो नित्यशब्दसमानार्थः । तस्मादाचारार्थे क्यङ्प्रत्ययः । सुनीथाय । ‘णीञ् प्रापणे ' इत्यस्मात् औणादिकः थक्प्रत्ययः । थाथादिस्वरः ॥ ॥ ३ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.६२" इत्यस्माद् प्रतिप्राप्तम्