"ऋग्वेदः सूक्तं १.८४" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
 
{{सायणभाष्यम्|
‘ असावि ' इति विंशत्यृचमेकादशं सूक्तम् । अत्रानुक्रम्यते-- असावि विंशतिः षळनुष्टुभ औष्णिहपङ्क्तिगायत्रत्रैष्टुभास्तृचाः प्रगाथः' इति । आदितः षडनुष्टुभः सप्तम्याद्यास्तिस्र उष्णिहः। दशम्याद्यास्तिस्रः पङ्क्तयः त्रयोदश्याद्यास्तिस्रो गायत्र्यः । षोडशाद्यास्तिस्रस्त्रिटुभः । एकोनविंशी बृहती विंशी सतोबृहती । अनुवर्तनात् गोतम ऋषिः । अनादेशपरिभाषया इन्द्रो देवता । सूक्तविनियोगो लिङ्गाद्वगन्तव्यः । अविहृतषोडशिशस्त्रे आद्यौ तृचौ स्तोत्रियानुरूपौ। सूत्रितं च- ‘ अथ षोडश्यसावि सोम इन्द्र त इति स्तोत्रियानुरूपौ' (आश्व, श्रौ. ६. २) इति । आभिप्लविकेषूक्थ्येषु तृतीयसवनेऽच्छावाकस्येमावेव तृचौ वैकल्पिकौ स्तोत्रियानुरूपौ । एह्यू षु' इति खण्डे सूत्रितम् ‘ असावि सोम इन्द्र त इममिन्द्र सुतं पिब ' ( आश्व. श्रौ. ७. ८) इति ।
 
 
असा॑वि॒ सोम॑ इन्द्र ते॒ शवि॑ष्ठ धृष्ण॒वा ग॑हि ।
 
आ । त्वा । पृणक्तु । इन्द्रियम् । रजः । सूर्यः । न । रश्मिऽभिः ॥१
 
हे “इन्द्र "ते त्वदर्थं "सोमः "असावि अभिषुतोऽभूत् । हे "शविष्ठ अतिशयेन बलवन् अत एव “धृष्णो शत्रूणां धर्षयितरिन्द्र "आ "गहि देवयजनदेशमागच्छ । आगतं च त्वाम् "इन्द्रियं सोमपानेनोत्पन्नं प्रभूतं सामर्थ्यम् "आ "पृणक्तु आपूरयतु । "रजः अन्तरिक्षं "रश्मिभिः किरणैः "सूर्यो “न । यथा सूर्यः पूरयति तद्वत् ॥ शविष्ठ । शवस्विञ्शब्दात् इष्टनि ‘ विन्मतोर्लुक्'।' टेः' इति टिलोपः । पादादित्वात् निघाताभावः । गहि । गमेर्लोटि : बहलं छन्दसि ' इति शपो लुक् ।' अनुदात्तोपदेश इत्यादिना अनुनासिकलोपः । तस्य ‘असिद्धवदत्रा भात्' इति असिद्धवत्त्वात् हेः लुगभावः ॥
 
 
 
ऋषीणाम् । च । स्तुतीः । उप । यज्ञम् । च । मानुषाणाम् ॥२
 
“अप्रतिधृष्टशवसं केनाप्यप्रतिधर्षितबलम् । अहिंसितबलमित्यर्थः। “इन्द्रमित् इन्द्रमेव “ऋषीणां वसिष्ठादीनां “मानुषाणाम् अन्येषां मनुष्याणां “च “स्तुतीः "यज्ञं “च “हरी अश्वौ “उप “वहतः समीपं प्रापयतः । यत्र यत्र स्तुवन्ति यत्र यत्र यजन्ते तत्र सर्वत्रेन्द्रमश्वौ प्रापयतः इत्यर्थः ॥ मानुषाणाम्। ‘मनोर्जातौ ' इति मनुशब्दात् अञ् पुगागमश्च ॥
 
 
 
अर्वाचीनम् । सु । ते । मनः । ग्रावा । कृणोतु । वग्नुना ॥३
 
हे “वृत्रहन् शत्रूणां हन्तरिन्द्र “रथम् “आ “तिष्ठ आरोह । यस्मात् “ते “हरी त्वदीयावश्वौ “ब्रह्मणा स्तोत्रलक्षणेन मन्त्रेण “युक्ता रथेऽस्माभिर्योंजितौ तस्मात् त्वं रथमातिष्ठ। “ते “मनः त्वदीयं मनश्च “ग्रावा अभिषवार्थं प्रवृत्तः पाषाणः “वग्नुना वचनीयेनाभिषवशब्देन “अर्वाचीनम् अस्मदभिमुखं “सु “कृणोतु सुष्ठु करोतु ॥ युक्ता । ‘सुपां सुलुक्' इति आकारः । वग्नुना । ' वचेर्गश्च ' ( उ. सू. ३. ३१३ ) इति नुप्रत्ययो गकारश्चान्तादेशः ॥
 
 
 
शुक्रस्य । त्वा । अभि । अक्षरन् । धाराः । ऋतस्य । सदने ॥४
 
हे “इन्द्र “सुतम् अभिषुतम् “इमं सोमं “पिब । कीदृशम् । “ज्येष्ठम् अतिशयेन प्रशस्यं “मदं मoकरं “अमर्त्यम् अमारकम् । सोमपानजन्यो मदो मदान्तरवन्मारको न भवतीत्यर्थः। तथा “ऋतस्य यज्ञस्य संबन्धिनि “सदने गृहे वर्तमानाः “शुक्रस्य दीप्तस्यास्य सोमस्य “धाराः त्वाम् “अभ्यक्षरन् आभिमुख्येन संचलन्ति त्वां प्राप्नुवन्ति स्वयमेवागच्छन्तीत्यर्थः ॥ ज्येष्ठम् । प्रशस्यशब्दात् इष्ठनि ‘ ज्य च ' ( पा. सू. ५. ३. ६१ ) इति ज्यादेशः । अक्षरन्। ‘क्षर संचलने' । छान्दसो लङ् ॥
 
 
 
सुताः । अमत्सुः । इन्दवः । ज्येष्ठम् । नमस्यत । सहः ॥५
 
हे ऋत्विजः “इन्द्राय “नूनं क्षिप्रम् “अर्चत पूजनं कुरुत । एतदेव स्पष्टीक्रियते । “उक्थानि अप्रगीतमन्त्रसाध्यानि स्तोत्राणि “च “ब्रवीतन ब्रूत। “सुताः अभिषुताः “इन्दवः सोमाः च "अमत्सुः आगतमेनमिन्द्रं मत्तं कुर्वन्तु । अनन्तरं “ज्येष्ठं प्रशस्यतमं “सहः सहस्विनं बलवन्तं तमिन्द्रं “नमस्यत नमस्कुरुत ॥ ब्रवीतन । ब्रवीतेर्लोटि ‘ तप्तनप्तनथनाश्च ' इति तनबादेशः । अमत्सुः । ‘ मदी हर्षे '। छान्दसः प्रार्थनायां लुङ्। आगमानुशासनस्यानित्यत्वात् इडभावः । नमस्यत। नमोवरिवश्चित्रङ:०' इति क्यच् । सहः। ‘ लुगकारेकाररेफाश्च वक्तव्याः ' (पा. सू. ४. ४. १२८. २) इति मत्वर्थीयस्य लुक् ॥ ॥ ५ ॥
 
 
नकिः । त्वा । अनु । मज्मना । नकिः । सुऽअश्वः । आनशे ॥६
 
हे "इन्द्र “यत् यस्मात् त्वं “हरी एतत्संज्ञावश्वौ “यच्छसे रथे योजयसि तस्मात् त्वत्तोऽन्यः कश्चित् “रथीतरः अतिशयेन रथवान् “नकिः नास्ति । अन्येषामीदृगश्वयुक्तरथाभावात् । “त्वा त्वामनुलक्ष्य “मज्मना । बलनामैतत् । बलेन सदृशोऽपि “नकिः न ह्यस्ति । “स्वश्वः शोभनाश्वोऽन्यश्च त्वां “नकिः "आनशे न प्राप । इन्द्रस्य बलाश्वयोरसाधारणत्वादिन्द्रसदृशो बलवानश्ववान् लोके कश्चिदपि नास्तीत्यर्थः ॥ नकिष्व्ोत् । ‘युष्मत्तत्ततक्षुःष्वन्तःपादम् ' इति षत्वम्। रथीतरः । अतिशयेन रथी । तरपि ‘ ईद्रथिनः ' ( पा. सू. ८. २. १७. १ ) इति ईकारान्तादेशः । अवग्रहसमये छान्दसं ह्रस्वत्वम् । यच्छसे । यमेर्व्यत्ययेन आत्मनेपदम् । स्वश्वः । बहुव्रीहौ ' आद्युदात्तं द्व्यच्छन्दसि । इत्युत्तरपदाद्युदात्तत्वम् । आनशे । ‘ अश्नोतेश्च' इति अभ्यासादुत्तरस्य नुट् ॥
 
 
आभिप्लविकेषूक्थ्येषु तृतीयसवने ब्राह्मणाच्छंसिनः ‘य एक इद्विदयते' इति वैकल्पिकः स्तोत्रियस्तृचः । ‘ एह्यू षु' इति खण्डे सूत्रितम्- सखाय आशिषामहि य एक इद्विदयते' (आश्व. श्रौ. ७. ८) इति । महाव्रतेऽपि निष्केवल्ये औष्णिहतृचाशीतावयं तुचो विनियुक्तः । तथैव पञ्चमारण्यके सूत्र्यते- य एक इद्विद्यत आ याह्यद्रिभिः सुतम् ' ( ऐ. आ. ५. २. ५) इति ॥
 
य एक॒ इद्वि॒दय॑ते॒ वसु॒ मर्ता॑य दा॒शुषे॑ ।
 
ईशानः । अप्रतिऽस्कुतः । इन्द्रः । अङ्ग ॥७
 
"यः इन्द्रः “एकः “इत् एक एव “दाशुषे हविर्दत्तवते “मर्ताय मनुष्याय यजमानाय “वसु धनं “विदयते विशेषेण ददाति । “अङ्ग इति क्षिप्रनाम । “अप्रतिष्कुतः परैरप्रतिशब्दितः प्रतिकूलशब्दरहित इत्यर्थः । एवंभूतः सः “इन्द्रः क्षिप्रम् “ईशानः सर्वस्य जगतः स्वामी भवति । विदयते । ‘दय दानगतिरक्षणहिंसादानेषु' । शपः पित्त्वात् अनुदात्तत्वम्। तिङश्च लसार्वधातुकस्वरेण धातुस्वरः एव शिष्यते । यद्वृत्तयोगादनिघातः । अप्रतिष्कुतः । ‘कु शब्दे'। प्रतिकूलं कूयते शब्द्यते इति प्रतिष्कुतः । पारस्करादेराकृतिगणत्वात् सुट् । सुषामादित्वात् षत्वम् । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् ।।
 
 
 
कदा । नः । शुश्रवत् । गिरः । इन्द्रः । अङ्ग ॥८
 
"अराधसं हविर्लक्षणेन राधसा धनेन रहितम् । अयष्टारमित्यर्थः । एवंविधं “मर्तं मनुष्यम् इन्द्रः "पदा पादेन “क्षुम्पमिव अहिच्छत्रकमिव "कदा “स्फुरत् स्फुरिष्यति वधिष्यति । यथा अहिच्छत्रं मण्डलाकारेण शयानं कश्चिदनायासेन हन्ति एवमिन्द्रोऽपि कदा अस्मच्छत्रून् हनिष्यतीत्यर्थः । स्फुरतिर्वधकर्मा । “ स्फुरति स्फुलति' (नि. २. १९. १५) इति वधकर्मसु पठितत्वात्। “नः अस्माकं यष्टॄणां “गिरः स्तुतिलक्षणा वाचः “इन्द्रः “कदा कस्मिन्काले “अङ्ग क्षिप्रं “शुश्रवत् श्रोष्यतीति वितर्क्यते । अत्र निरुक्तम् - ‘क्षुम्पमहिच्छत्रकं भवति यत् क्षुभ्यते। कदा मर्तमनाराधयन्तं पादेन क्षुम्पमिवावस्फुरिष्यति । कदा नः श्रोष्यति गिर इन्द्रोऽङ्ग । अङ्गेति क्षिप्रनाम ' (निरु. ५, १७) इति ॥ पदा। पादशब्दस्य ‘पद्दन्' इत्यादिना पदादेशः । ‘ ऊडिदम्' इति विभक्तेः उदात्तत्वम् । क्षुम्पमिव । क्षुभ संचलने ' । अस्मात् कर्मणि घञि बहुलवचनात् धातोर्नुमागमः । वर्णव्यापत्त्या भकारस्य पकारः । स्फुरत् । “स्फुर संचलने'। 'छन्दसि लुङ्ललिटः ' इति लृडर्थे लङ्। बहुलं छन्दस्यमाड्योगेऽपि इति अडभावः। शुश्रवत् । श्रु श्रवणे'। लेटि अडागमः । ‘ बहुलं छन्दसि ' इति शपः श्लुः ॥
 
 
उग्रम् । तत् । पत्यते । शवः । इन्द्रः । अङ्ग ॥९
 
“बहुभ्यः मनुष्येभ्यः सकाशात् “यश्चिद्धि य एव खलु यजमानः “सुतावान् अभिषुतसोमयुक्तः सन् हे इन्द्र “त्वा त्वाम् “आविवासति परिचरति । विवासतिः परिचरणकर्मा । “तत् तस्मै यजमानाय यत् “उग्रम् उद्गूर्णं “शवः बलम् “इन्द्रः “अङ्ग क्षिप्रं "पत्यते पातयति प्रापयति ॥ तत् । ‘ सुपां सुलुक्° ' इति चतुर्थ्याः लुक् । पत्यते । पत्लृ गतौ ' । अस्मात् अन्तर्भावितण्यर्थात् व्यत्ययेन श्यन् ॥
 
 
चातुर्विंशिकेऽहनि माध्यंदिने' सवने अच्छावाकस्य ‘ स्वादोरित्था विषूवतः' इति वैकल्पिकः स्तोत्रियस्तृचः । ‘होत्रकाणाम्' इति खण्डे सूत्रितम् - यः सत्राहा विचर्षणिः स्वादोरित्था विषूवतः ( आश्व. श्रौ. ७, ४.) इति । पृठ्यस्य पञ्चमेऽहनि निष्केवल्येऽप्ययं तृचोऽनुरूपः । स्तोमे वर्धमाने । इति खण्डे सूत्रितम्- स्वादोरित्था विषूवत उप नो हरिभिः सुतम् ' ( आश्व. श्रौ. ७. १२ ) इति ॥
 
स्वा॒दोरि॒त्था वि॑षू॒वतो॒ मध्वः॑ पिबन्ति गौ॒र्यः॑ ।
 
याः । इन्द्रेण । सऽयावरीः । वृष्णा । मदन्ति । शोभसे । वस्वीः । अनु । स्वऽराज्यम् ॥१०
 
“स्वादोः स्वादुभूतस्य रसयुक्तस्य “इत्था “विषूवतः इत्थमनेन प्रकारेण सर्वयज्ञेषु व्याप्तियुक्तस्य “मध्वः मधुररसस्य सोमस्य । ‘ क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । एवंविधं सोमं "गौर्यः गौरवर्णा गावः “पिबन्ति । "याः गावः “शोभसे शोभार्थं “वृष्णा कामाभिवर्षकेण “इन्द्रेण “सयावरीः सह यान्त्यो गच्छन्त्यः सत्यः “मदन्ति हृष्टा भवन्ति । ता इन्द्रपीतस्य सोमस्य शेषं पिबन्तीत्यर्थः । “वस्वीः पयःप्रदानेन निवासकारिण्यस्ता गावः “स्वराज्यं स्वस्य स्वकीयस्येन्द्रस्य यद्राज्यं राजत्वं तदनुलक्ष्यावस्थिता इति शेषः ॥ विषूवतः । ‘ विष्लृ व्याप्तौ ' । अस्मात् औणादिकः कुप्रत्ययः । ततो मतुप् । ‘ ह्रस्वनुड्भ्यां मतुप् ' इति मतुपः उदात्तत्वम् । अन्येषामपि दृश्यते' इति संहितायां दीर्घः । व्यत्ययेन मतोर्वत्वम् । मध्वः । ‘ जसादिषु च्छन्दसि वावचनम् ' इति ' घेर्ङिति' इति गुणाभावे यणादेशः । गौर्यः । ‘ षिद्भौरादिभ्यश्च ' इति ङीष् । जसि यणादेशे ‘ उदात्तस्वरितयोर्यणः० ' इति परस्यानुदात्तस्य स्वरितत्वम् । सयावरीः । ‘ या प्रापणे ' । आतो मनिन् ' इति वनिप् । वनो र च ' इति ङीब्रेफौ । मदन्ति । मदी हर्षे ' । श्यनि प्राप्ते व्यत्ययेन शप् । वस्वीः । ‘ वस निवासे '। 'शॄस्वृस्निहि°' इत्यादिना वसेः उप्रत्ययः। ‘ धान्ये नित्' इत्यनुवृत्तेः आद्युदात्तत्वम्। ‘वोतो गुणवचनात् ' इत्यत्र ‘गुणवचनात् ङीबाद्युदात्तार्थम्' (का. ४. १. ४४. १) इति वचनात् वसुशब्दात् ङीपि यणादेशः । जसि ‘ वा छन्दसि ' इति पूर्वसवर्णदीर्घत्वम् । स्वस्य राज्यं स्वराज्यम् । ‘अकर्मधारये राज्यम्' (पा. सू. ६. २. १३० ) इत्युत्तरपदाद्युदात्तत्वम् ॥ ॥ ६ ॥
 
 
 
प्रियाः । इन्द्रस्य । धेनवः । वज्रम् । हिन्वन्ति । सायकम् । वस्वीः । अनु । स्वऽराज्यम् ॥११
 
“ताः पूर्वोक्ताः “अस्य इन्द्रस्य “पृशनायुवः स्पर्शनकामाः “पृश्नयः नानावर्णा गावः इन्द्रेण पातव्यं “सोमं पयसा “श्रीणन्ति मिश्रीकुर्वन्ति । “इन्द्रस्य “प्रियाः प्रीतिहेतुभूतास्ताः “धेनवः “सायकं शत्रूणामन्तकारकं “वज्रम् आयुधं “हिन्वन्ति शत्रुषु प्रेरयन्ति । इन्द्रो यथा शत्रुषु वज्रं प्रेरयति तथेन्द्रस्य मदमुत्पादयन्तीत्यर्थः । अन्यत् पूर्ववत् ॥ हिन्वन्ति । हिविः प्रीणनार्थः। इदित्त्वात् नुम् । सायकम् । षो अन्तकर्मणि' । ण्वुलि आत्वे युगागमः ॥
 
 
व्रतानि । अस्य । सश्चिरे । पुरूणि । पूर्वऽचित्तये । वस्वीः । अनु । स्वऽराज्यम् ॥१२
 
“प्रचेतसः प्रकृष्टज्ञानाः “ताः गावः “अस्य इन्द्रस्य “सहः बलं "नमसा स्वकीयेन पयोरूपेणान्नैन “सपर्यन्ति परिचरन्ति । “पुरूणि बहूनि “अस्य इन्द्रस्य “व्रतानि शत्रुवधादिरूपाणि वीर्यकर्माणि “सश्चिरे सिषेविरे ज्ञायन्ते' इत्यर्थः । किमर्थम् । “पूर्वचित्तये युयुत्सूनां शत्रूणां पूर्वमेव प्रज्ञापनाय। अनेन युध्यमाना वृत्रादयः सर्वे मरणं प्राप्ताः किमर्थं भवद्भिः प्राणास्त्यज्यन्ते' इति तेषां बोधनायेत्यर्थः । अन्यत् पूर्ववत् ।। सश्चिरे। “सश्च गतौ'। व्यत्ययेनात्मनेपदम् । पूर्वचित्तये । ‘ चिती संज्ञाने' । भावे क्तिन् । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् ॥
 
 
चातुर्विंशिकेऽहनि प्रातःसवने ब्राह्मणाच्छंसिनः शस्त्रे • इन्द्रो दधीचः' इति षडहस्तोत्रियसंज्ञकस्तृचः । सूत्रितं च -- आदह स्वधामन्वित्येका द्वे चेन्द्रो दधीचो अस्थभिः ' ( आश्व. श्रौ. ७. २) इति ॥
 
इन्द्रो॑ दधी॒चो अ॒स्थभि॑र्वृ॒त्राण्यप्र॑तिष्कुतः ।
३१,९५३

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/196807" इत्यस्माद् प्रतिप्राप्तम्