"ऐतरेय ब्राह्मणम्/पञ्चिका १ (प्रथम पञ्चिका)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३१:
48
 
देवविशः कल्पयितव्या इत्याहुस्ताः कल्पमाना अनु मनुष्यविशः कल्पन्त इति सर्वा विशः कल्पन्ते कल्पते यज्ञोऽपि तस्यै जनतायै कल्पते यत्रैवं विद्वान्होता भवति स्वस्ति नः पथ्यासु धन्वस्वित्यन्वाह स्वस्त्यप्सु वृजने स्वर्वति स्वस्ति नः पुत्रकृथेषु योनिषु स्वस्ति राये मरुतो दधातनेति मरुतो वै देवानां विशस्ता एवैतद्यज्ञमुखेऽचीक्लृपत्सर्वैश्छन्दोभिर्यजेदित्याहुः सर्वैर्वै छन्दोभिरिष्ट्वा देवाः स्वर्गं लोकमजयंस्तथैवैतद्यजमानः सर्वैश्छन्दोभिरिष्ट्वा स्वर्गं लोकं जयति स्वस्ति नः पथ्यासु धन्वसु स्वस्तिरिद्धि प्रपथे श्रेष्ठेति पथ्यायाः स्वस्तेस्त्रिष्टुभावग्ने नय सुपथा राये अस्माना देवानामपि पन्थामगन्मेत्यग्नेस्त्रिष्टुभौ त्वं सोम प्र चिकितो मनीषा या ते धामानि दिवि या पृथिव्यामिति सोमस्य त्रिष्टुभावा विश्वदेवं सत्पतिं य इमा विश्वा जातानीति सवितुर्गायत्र्यौ सुत्रामाणम्पृथिवींसुत्रामाणं द्यामनेहसम्महीमूपृथिवीं द्यामनेहसं महीमू षु मातरं सुव्रतानामित्यदितेर्जगत्यावेतानि वाव सर्वाणि छन्दांसि गायत्रं त्रैष्टुभं जागतमन्वन्यान्येतानि हि यज्ञे प्रतमामिव क्रियन्ते। एतैर्ह वा अस्य च्छन्दोभिर्यजतः सर्वैश्छन्दोभिरिष्टं भवति य एवं वेद॥1.9॥।
 
 
53
 
ता वा एताः प्रवत्यो नेतृमत्यः पथिमत्यः स्वस्तिमत्य एतस्य हविषो या-ज्यानुवाक्यायाज्यानुवाक्या एताभिर्वा इष्ट्वा देवाः स्वर्गं लोकमजयंस्तथैवैतद्यजमान एता-भिरिष्ट्वाएताभिरिष्ट्वा स्वर्गं लोकं जयति। तासु पदमस्ति स्वस्ति राये मरुतो दधातनेति मरुतो ह वै देवविशोऽन्तरिक्षभाजनास्तेभ्यो ह योऽनिवेद्य स्वर्गं लोकमेतीश्वरा हैनं नि व रोद्धोर्वि वा मथितोः स अदाह स्वस्ति राये मरुतो दधातनेति तम्मरुद्भ्यो देवविड्भ्यो यजमानं निवेदयति न ह वा एनम्मरुतोएनं मरुतो देवविशः स्वर्गं लोकं यन्तं निरुन्धते न विमथ्नते स्वस्ति हैनमत्यर्जन्ति स्वर्गं लोकमभि य एवं वेद विराजावेतस्य हविषः स्विष्टकृतः संयाज्ये स्यातां ये त्रयस्त्रिंशदक्षरे सेदग्निरग्नीँ रत्यस्त्वन्यान्सेदग्निर्यो वनुष्यतो निपातीत्येते विराड्भ्यां वा इष्ट्वा देवाः स्वर्गं लोकमजयंस्तथैवैतद्यजमानो विराड्भ्यामिष्ट्वा स्वर्गं लोकं जयति ते त्रयस्त्रिंशदक्षरे भवतस्त्रयस्त्रिंशद्वै देवा अष्टौ वसव एकादश रुद्र ?ारुद्रा द्वादशादित्याः प्रजापतिश्च वषट्कारश्च तत्प्रथमे यज्ञमुखे देवता अक्षरभाजः करोत्यक्षरेणाक्षरेणैव तद्देवतां प्रीणाति देवपात्रेणैव तदेवतास्तर्पयति॥1.10॥
 
 
प्रयाजवदननुयाजं कर्तव्यं प्रायणीयमित्याहुर्हीनमिव वा एतदीङ्खितमिव यत्प्रायणीयस्यानुयाजा इति। तत्तन्नाऽऽदृत्यं प्रयाजवदेवानुयाजवत्कर्तव्यम्। प्राणा वै प्रयाजाः प्रजाऽनुयाजा यत्प्रयाजानन्तरियात् प्राणांस्तद्यजमानस्यान्तरियाद् यदनुयाजानन्तरियात्प्रजां तद्यजमानस्यान्तरियात्। तस्मात्प्रयाजवदेवानुयाजवत्त्कर्तव्यम्।तस्मात्प्रयाजवदेवानुयाजवत्कर्तव्यम्। पत्नीर्न संयाजयेत्संस्थितयजुर्न जुहुयात्। तावतैव यज्ञोऽसंस्थितः। प्रायणीयस्य निष्कासं निदध्यात्तमुदयनीयेनाभिनिर्वपेद्यज्ञस्य संतत्यै यज्ञस्याव्यवच्छेदाय। अथो खलु यस्यामेव स्थाल्यां प्रायणीयं निर्वपेत्तस्यामुदयनीयं निर्वपेत्तावतैव यज्ञः संततोऽव्यवच्छिन्नो भवति। अमुष्मिन्वा एतेन लोके राध्नुवन्ति नास्मिन्नित्याहुर् यत्प्रायणीयमिति प्रायणीयमिति निर्वपन्ति प्रायणीयमिति चरन्ति प्रयन्त्येवास्माल्लोकाद्यजमाना । अविद्ययैव तदाहुर्व्यतिषजेद् याज्यानुवाक्याः। या प्रायणीयस्य पुरोनुवाक्यास्ता उदयनीयस्य याज्याः कुर्याद्या उदयनीयस्य पुरोनुवाक्यास्ताः प्रायणीयस्य याज्याः कुर्यात् तद्व्यतिषजत्युभयोर्लोकयोर् ऋद्ध्या उभयोर्लोकयोः प्रतिष्ठित्या उभयोर्लोकयोर् ऋध्नोत्युभयोर्लोकयोः प्रतितिष्ठति। प्रतितिष्ठति य एवं वेद। आदित्यश्चरुः प्रायणीयो भवत्यादित्य उदयनीयो यज्ञस्य धृत्यै यज्ञस्य बर्सनद्ध्यै यज्ञस्याप्रस्रंसाय। तद्यथैवाद इति स्माऽऽह तेजन्या उभयतो ऽन्तयोरप्रस्रंसाय बर्सौ नह्यत्येवमेवैतद् यज्ञस्योभयतो ऽन्तयोरप्रस्रंसाय बर्सौ नह्यति यदादित्यश्चरुः प्रायणीयो भवत्यादित्य उदयनीयः। पथ्ययैवेतः स्वस्त्या प्रयन्ति पथ्यां स्वस्तिमभ्युद्यन्ति स्वस्तेयेवेतःस्वस्तयेवेतः प्रयन्ति स्वस्त्युद्यन्ति स्वस्त्युद्यन्ति॥॥1.11॥