"ऋग्वेदः सूक्तं १.१३५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३८:
 
{{सायणभाष्यम्|
‘स्तीर्णं बर्हिः' इति नवर्चं सूक्तं पारुच्छेपमात्यष्टं पूर्वत्र तुशब्दात् वायुदेवत्यम् । ‘आ वां रथः' इत्यादि ऋक्पञ्चकमैन्द्रम् । सप्तम्यष्टम्यौ अष्टी। अत्रानुक्रमणिका - स्तीर्णं नव चतुर्थ्याद्याः पञ्चैन्द्र्यश्चोपान्त्ये अष्टी ' इति ॥ सूक्तस्य विशेषविनियोगो लैङ्गिकः । दशरात्रस्य षष्ठेऽहनि प्रउगशस्त्रे आद्यौ तृचौ प्राकृतयोः वायव्यैन्द्रवायव्ययोः स्थाने० विनियुक्तौ । ‘ षष्ठस्य प्रातःसवने ' इति खण्डे सूत्रितं- 'स्तीर्णं बर्हिरिति तृचौ ' ( आश्व. श्रौ. ८. १ ) इति ॥
 
 
स्ती॒र्णं ब॒र्हिरुप॑ नो याहि वी॒तये॑ स॒हस्रे॑ण नि॒युता॑ नियुत्वते श॒तिनी॑भिर्नियुत्वते ।
Line ५६ ⟶ ५८:
 
प्र । ते । सुतासः । मधुऽमन्तः । अस्थिरन् । मदाय । क्रत्वे । अस्थिरन् ॥१
 
हे वायो “नः अस्मद्यज्ञार्थं “स्तीर्णम् आस्तृतं “बर्हिः अभिलक्ष्य “उप “याहि आगच्छ। किमर्थम्। “वीतये हविषां भक्षणाय। केन साधनेनेति तदुच्यते। “सहस्रेण सहस्रसंख्याकेन “नियुता। जातावेकवचनम् ॥ नियुत इति वायोरश्वानां नामधेयं, ' नियुतो वायोः' (नि. १. १५. १०) इति निरुक्तत्वात् । तथा “शतिनीभिः शतसंख्योपेताभिः नियुद्भिः आगच्छेति शेषः । यद्वा । सहस्रेण नियुता शतिनीभिश्च नियुद्भिः “नियुत्वते तद्वते देवाय हविर्दीयते इति शेषः । यद्वा । तुभ्यमित्यनेन संबन्धः । उक्तसंख्याकाभिर्नियुद्भिः तद्वते “देवाय द्योतमानाय “तुभ्यम् ॥ ‘ ङयि च ' ( पा. सू. ६. १. २१२) इति आद्युदात्तत्वम् ॥ “पूर्वपीतये इतरदेवेभ्यः पूर्वं पानाय “देवाः “येमिरे यमितवन्तः । यद्वा । स्तोतारः ऋत्विजो देवाय तुभ्यं येमिरे । आहवनीयं प्रति सोमं नियमितवन्तः । अग्रं पिबा मधूनां सुतं वायो' ( ऋ. सं. ४. ४६. १ ) इत्यादिमन्त्रान्तरप्रसिद्धिद्योतनार्थो हिशब्दः । किंच एते त्वदर्थं “सुतासः अभिषुताः “मधुमन्तः माधुर्योपेताः सोमाः “मदाय तव मोदाय “अस्थिरन् तिष्ठन्ति। किंच “क्रत्वे कर्मणे तत्सिद्ध्यर्थम् “अस्थिरन्। ऋत्विग्भिः धृताः तिष्ठन्ति । अतः त्वं पिबेति शेषः ॥ तिष्ठतेश्छान्दसे लुङि व्यत्ययेन झस्य रन् । 'स्थाध्वोरिञ्च' इति सिचः कित्त्वं धातोः इत्वं च । 'ह्रस्वादङ्गात् ' इति सिचोलोपः ॥
 
 
Line ७५ ⟶ ७९:
 
वह । वायो इति । निऽयुतः । याहि । अस्मऽयुः । जुषाणः । याहि । अस्मऽयुः ॥२
 
हे वायो “तुभ्यं तुभ्यं त्वदर्थम् ॥ ‘ सुपां सुलुक्' इति चतुर्थ्या लुक् ॥ “अयं “सोमः हूयमानः “कोशं कोशस्थानीयं ग्रहम् "अर्षति गच्छति प्राप्नोति। कीदृशः सोमः । “अद्रिभिः “परिपूतः अभिषवसाधनैः अपगतर्जीषत्वेन शोधितः । यद्वा। अद्रिभिरभिषुतो शापवित्रशोधनेन ग्रहणेन वा शोधितः । तथा “स्पार्हा स्पृहणीयानि तेजांसि “वसानः पिधानः । किंच “शुक्रा निर्मलानि दीप्तानि वा तेजांसि “वसानः सोमः “अर्षति त्वां प्राप्नोति ॥ ऋषी गतौ' । व्यत्ययेन शप् । हे वायो “आयुषु मनुष्येषु यष्टव्यत्वेन स्थितः “भागः भजनीयः “सोमः “तव त्वदर्थं “देवेषु मध्ये “हूयते । सत्स्वपि इतरेषु देवेषु यतः सोमस्तव भागः अतः प्रथमं तुभ्यं हूयते इत्यर्थः । किंच हे "वायो एवं तं सोमम् “अस्मयुः अस्माभिः तद्वान् ॥ मत्वर्थीयो युः ॥ त्वं “नियुतः “वह नियुत्संज्ञकानश्वान् वाहनाय प्रापय । ततः परं “याहि दिवं प्रति गच्छ। तथा कुर्वन् “अस्मयुः अस्माभिर्युक्तः सन् अस्माननुगृह्णन् अस्मान् कामयमानो वा ।। क्यचि छान्दसेऽन्त्यलोपे ' क्याच्छन्दसि ' इति उः ॥ “जुषाणः प्रीयमाणः "याहि गच्छ॥
 
 
Line ९४ ⟶ १००:
 
अध्वर्युऽभिः । भरमाणाः । अयंसत । वायो इति । शुक्राः । अयंसत ॥३
 
हे "वायो त्वं “नः “अध्वरम् अस्मत्संबन्धिनं यज्ञं “शतिनीभिः “नियुद्भिः “सहस्रिणीभिः च ताभिस्त्वदीयैरश्वैः नः अस्मद्यज्ञम् “उप “आ "याहि उपागच्छ । किमर्थम् । “वीतये त्वदभिमतकामाय तत्पूर्तये । आगत्य च “हव्यानि “वीतये सोमादिहविर्भक्षणाय । अध्वरं हव्यानि च उपलक्ष्य तेषामेव भक्षणाय शतसहस्रैरश्वैः अतिशीघ्रमागच्छेत्यर्थः । किंच “अयं “तव “भागः भजनीयः सोमः “ऋत्वियः प्राप्तकालः प्रदानावसरं प्राप्तः । ऋतुशब्देन प्रदानकालो लक्ष्यते ॥ ‘ छन्दसि घस्' (पा.सू. ५. १. १०६), 'सिति च ' (पा. सू. १. ४. १६) इति पदसंज्ञया भसंज्ञाया बाधात् ओर्गुणाभावे यण् ॥ किंच सोमः "सूर्ये उदिते सति तस्य रश्मिभिः “सचा सह “सरश्मिः भवति समानदीप्तिर्भवति । यद्वा । तैः सहितो भवति । यतः सूर्ये उदिते सति रश्मिः भवति अतः प्राप्तकालः इत्यर्थः। किंच सोमाः “अध्वर्युभिः चमसाध्वर्युभिः । तेषां दशत्वाद्बहुवचनम् । तैः “भरमाणाः भ्रियमाणाः “अयंसत नियता अभवन् । किंच हे "वायो ते सोमाः “शुक्राः “अयंसत अत्यन्तदीप्ताः उद्यताः । अतः तेषां भक्षणाय अयाहीत्यर्थः ।।
 
 
Line ११३ ⟶ १२१:
 
वायो इति । आ । चन्द्रेण । राधसा । आ । गतम् । इन्द्रः । च । राधसा । आ । गतम् ॥४
 
केवलं वायुं स्तुत्वा व्यासक्ततया इन्द्रवायू स्तौति । हे “वायो त्वामिन्द्रं च "वां युष्मान् “रथः युवयोः संबन्धी रथः “नियुत्वान् नियुद्भिरश्वैः तद्वान् सन्” "आ “वक्षत् देवयजनं प्रति युष्मानावहतु॥ वहेर्लेटि अडागमः । ‘ सिब्बहुलम् ' इति सिप् ॥ यद्यपि नियुतो वायोरेव रथस्योचिताः तथापि व्यासक्तदेवतात्वात् सहैवागमनात् इन्द्रार्थमपि वहन्ति । किमर्थम् । “अवसे गमनाय रक्षणाय वा । पुनश्च किमर्थम्। “प्रयांसि अन्नानि सोमलक्षणानि “सुधितानि सुष्ठु गृहीतानि “वीतये तेषां भक्षणाय। तथा “हव्यानि “वीतये इतरेषां सवनीयपुरोडाशादीनां खादनाय ॥ वेतेः क्तिन् । ‘ मन्त्रे वृष°' इत्यादिना तस्योदात्तत्वम् ॥ किंच “मध्वः मधुररसस्य “अन्धसः अन्नस्य सोमरूपस्य ॥ कर्मणि षष्ठी ।। मधुरं सोमं “पिबतम् । यतः “पूर्वपेयम् इतरदेवेभ्यः पूर्वपानं “वां युवयोः “हितम् ॥ पातेः ' अचो यत्' इति यत् । ‘ ईद्यति' इति ईकारः ॥ अभिमतम् । अतः प्रथमं पिबतमित्यर्थः । यद्यपि इन्द्रादपि वायोः पूर्वपानं त्वं हि पूर्वपा असि' ( ऋ. सं. ४. ४६. १ ), ' देव दधिषे पूर्वपेयम्' (ऋ. सं. ७. ९२. १ ) इत्यादिषु सर्वत्र प्रसिद्धं तथापि इन्द्रस्य इतरदेवेभ्यः पूर्वं वायुना सह पानं च इन्द्रतुरीयार्थवादनब्राह्मणे ‘ देवा वै सोमस्य राज्ञोऽग्रपेये न समपादयन् ' ( ऐ. ब्रा. २. २५) इत्यत्र प्रतिपादितम् । किंच आगमनसमये हे "वायो त्वम् “इन्द्रश्च "चन्द्रेण अस्मदाह्लादकेन हिरण्येन “राधसा गवादिरूपेण धनेन च सह “आ “गतम् आगच्छतम्। “राधसा रत्नेन धनेन सह "आ “गतम् ॥ गमेर्लोटि छान्दसः शपो लुक् । अनुदात्तोपदेश' इति अनुनासिकलोपः । लुङि च ' मन्त्रे घस' इति च्लेर्लुक् ॥
 
 
Line १३२ ⟶ १४२:
 
इन्द्रवायू इति । सुतानाम् । अद्रिऽभिः । युवम् । मदाय । वाजऽदा । युवम् ॥५
 
हे इन्द्रवायू “वां युवां “धियः कर्माणि स्तोत्रादिलक्षणानि “अध्वरान् “उप अस्मदीयान् यज्ञान् लक्षीकृत्य “ववृत्युः अतिशयेन वर्तयन्ति प्रवर्तयन्ति । किंच युष्मदर्थं “वाजिनं ग्रहणाय द्रोणकलशात् ग्रहान् प्रति गमनवन्तम् आमिक्षावन्तं वा 'इममिन्दुं पुरतो वर्तमानं सोमं “मर्मृजन्त अध्वर्यवो दशापवित्रेण संमार्जयन्ति। मार्जने दृष्टान्तः । “आशुम् अतिशीघ्रगामिनम् “अत्यं “न सततं गन्तारं “वाजिनं वेजनवन्तमश्वमिव । तं यथा स्वेदाद्यपनयनेन संमार्जयन्ति तद्वत् । किंच हे “इन्द्रवायू “तेषाम् अध्वर्यूणां संबन्धिनः शोधितान् सोमान् “पिबतं पानं कुरुतम् । तदर्थं “नः अस्माकं यज्ञं प्रति “इह इदानीम् “ऊत्या अस्मद्रक्षणेन सह “आ “गन्तम् आगच्छतम् । किंच हे इन्द्रवायू “अस्मयू अस्मद्यज्ञमिच्छन्तौ “युवं युवाम् “अद्रिभिः ग्रावभिः “सुतानाम् अभिषुतानाम् ॥ पूर्ववत्कर्मणि षष्ठी ।। तान् पिबतमिति शेषः । किमर्थम् । “मदाय तृप्तये मोदाय वा। यतः “युवं युवां “वाजदा वाजस्यान्नस्य दातारौ अतः पिबतमित्यन्वयः ॥ ॥ २४ ॥
 
 
Line १५१ ⟶ १६३:
 
युवाऽयवः । अति । रोमाणि । अव्यया । सोमासः । अति । अव्यया ॥६
 
हे “वायो “वां युवयोः तव च इन्द्रस्य च स्वभूताः “इमे “सोमाः "अप्सु अस्मदीयेषु कर्मसु ॥ ‘ऊडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् ।। “इह अस्मिन् अभिषवस्थाने “सुताः “अध्वर्युभिः “भरमाणाः तैर्भ्रियमाणाः गृहीता होतुं वा ह्रियमाणाः॥ कर्मणि कर्तृप्रत्ययः॥सन्तः “आ “अयंसत आगच्छन्त युवयोर्नियता भवन्ति । किंच त एव सोमाः “शुक्राः शुभ्रा दीप्ताः "अयंसत नियता भवन्ति । किंच “एते “आशवः व्यापकाः सोमाः "वां युबां प्रीणयितुमिति शेषः । “तिरः “पवित्रं तिर्यग्भूतं सोमान्तर्धायकं वा ऊर्णामयं पवित्रम् “अभ्यसृक्षत अभिलक्ष्य असृज्यन्त सृष्टा भवन्ति ॥ सृजेः कर्मणि लुङि ‘ लिङ्सिचावात्मनेपदेषु ' इति सिचः कित्त्वात् गुणाभावः अमागमाभावश्च ॥ किंच “युवायवः युवां कामयमानाः ”सोमासः सोमाः “अव्यया अव्ययानि अच्छिन्नानि “रोमाणि पवित्रसंबन्धीनि अविरोमाणि । यद्वा । अव्यया अविमयानि ॥ मकारो लुप्यते । तादृशानि रोमाणि "अति अतिक्रम्य पात्रात् गच्छन्तीति शेषः । पुनस्त एवं विशेष्यन्ते । अति अतिशयेम “अव्यया व्ययरहिताः सोमासः सोमाः असृक्षतेति शेषः ॥
 
 
Line १६४ ⟶ १७८:
 
वि । सूनृता । ददृशे । रीयते । घृतम् । आ । पूर्णया । निऽयुता । याथः । अध्वरम् । इन्द्रः । च । याथः । अध्वरम् ॥७
 
हे “वायो त्वं “ससतः आलस्यादिना निद्रां कुर्वतः “शश्वतः बहून् यजमानान् । शश्वदि बहुनाम, ‘शश्वत् विश्वम्' (नि. ३. १. ५) इति तन्नामसु पाठात् । “अति अतिक्रम्य उपेक्ष्य अस्मद्यज्ञं “याहि गच्छ। “इन्द्रश्च तथा करोतु । कं देशमिति तमाह। "यत्र “ग्रावा “वदति यस्मिन्देशे अभिषवार्थः पाषाणध्वनिः श्रूयते “तत्र “गच्छतं तं देशं प्रति आगच्छतम् । “गृहं यज्ञगृहं “गच्छतम् । पुनः स्थानमेव विशेष्यते । “सूनृता प्रियतथ्यात्मिका स्तुतिरूपा वाक् यत्र “वि “ददृशे विशेषेण दृश्यते श्रूयते इत्यर्थः। तत्र गच्छतम् । यत्र च “घृतम् अत्यन्तदीप्तमाज्यं होमार्थं गृहीतं “रीयते गच्छति आहवनीयं प्रति नीयते ॥ ‘ रीङ स्रवणे '। दिवादित्वात् श्यन् ॥ तत्र गच्छतम् । गमनप्रकारः एव विशेष्यते । “पूर्णया संपूर्णया पुष्टाङ्गया “नियुता ॥ जातावेकवचनम् ॥ नियुज्जात्या “अध्वरम् अस्मदीयं यज्ञम् “आ “याथः अभिमुख्येन प्रयाथः। किंच हे वायो त्वम् “इन्द्रश्च युवाम् “अध्वरम् अस्मदीयं यागम् “आ “याथः सहैवागच्छतम् । तथा अस्माभिरपि सहैव गच्छतमित्यर्थः ।।
 
 
Line १७७ ⟶ १९३:
 
साकम् । गावः । सुवते । पच्यते । यवः । न । ते । वायो इति । उप । दस्यन्ति । धेनवः । न । अप । दस्यन्ति । धेनवः ॥८
 
हे इन्द्रवायू “अत्र "अह अस्मिन्नेव यज्ञे ।। अहेति विनिग्रहार्थीयः ॥ “मध्वः मधुरस्य मधुसदृशस्य वा “तत् तस्य “आहुतिं प्रदेयद्रव्यं “वहेथे धारयतम् । “यं सोमम् “अश्वत्थं पर्वतादिव्याप्तिप्रदेशे स्थितं "जायवः जेतारो यजमानाः “उपतिष्ठन्त उपेत्य तिष्ठन्ति क्रयाद्यर्थम् । किंच “अस्मे अस्माकं संबन्धिनः “जायवः जेतारः कर्मनिर्वहितारः “ते ऋत्विजः “सन्तु समर्था भवन्तु यज्ञं निर्वहन्त्वित्यर्थः । यद्वा । ते प्रसिद्धाः प्रयोगकुशला जायवो जेतारः ऋत्विजः अस्मे सन्तु नान्यस्य । अत्र वहेथे इत्युक्तम् । कोऽत्र विशेष इति तत्राह । हे इन्द्रवायू अस्मिन् यज्ञे "गावः धेनवः “साकं सहैव “सुवते युष्मदर्थमेव क्षीरमुत्पादयन्ति दोग्ध्र्यो भवन्तीत्यर्थः । यद्वा । गावः साकं सहैव सुवते अपत्यमुत्पादयन्ति त्वद्दोहनार्थम् ॥ आदादिकः । ङित्त्वात् ‘ तास्यनुदात्तेत्' इति लसार्वधातुकानुदात्तत्वे धातुस्वरः ॥ किंच "यवः । जातावेकवचनम् । उपलक्षणमेतत् । यवादिभिः पुरोडाशादिकं “पच्यते इत्यर्थः । किंच हे "वायो इन्द्र च यतो गावः एवं सुवते अतः “ते त्वदर्थाः “धेनवः “न ”उप "दस्यन्ति नोपक्षीणा भवन्ति रोगादिना कृशा न भवन्ति । न केवलमनुपक्षीणाः किंतु “धेनवः युष्मत्प्रीणयित्र्यः गावः “नाप "दस्यन्ति चौराद्युपहारैः उपक्षीणा नष्टा न भवन्ति ॥
 
 
Line १९७ ⟶ २१५:
सूर्यस्यऽइव । रश्मयः । दुःऽनियन्तवः । हस्तयोः । दुःऽनियन्तवः ॥९
 
हे "सु “वायो शोभनफलप्रद वायुदेव "ते तव स्वभूताः “इमे पुरतो दृश्यमानाः "ये अश्वाः सन्ति “ते "नदी नदने द्यावापृथिव्यौ "अन्तः तयोरन्तराले तं त्वां “पतयन्ति पातयन्ति गमयन्ति । यद्वा । ते तव संबन्धिनोऽश्वाः पतयन्ति पतन्ति यज्ञदेशं गच्छन्ति ॥ ‘पत गतौ ' । चौरादिरदन्तः ॥ कीदृशास्ते । “बाह्रोजसः बाहुषु प्रकृष्टबलवन्तः । उपलक्षणमेतत् । सर्वाङ्गबला इत्यर्थः । किंच “उक्षणः सेक्तारः। युवान इत्यर्थः । “महि महदतिप्रभूतं “व्राधन्तः वर्धमानाः तथा “उक्षणः उक्षाणः तत्सदृशाः इत्यर्थः ।।‘वा षपूर्वस्य निगमे ' इति दीर्घाभावः ॥ किंच “धन्वन् “चित् धन्वनि उदकनिर्गमनापादानभूतेऽन्तरिक्षेऽपि निरालम्बे "अनाशवः नाशरहिता अव्याप्ता वा । आकाशे विलम्बमकुर्वाणा इत्यर्थः । अत एव" “जीराश्चित् । चिच्छब्दः पूजायाम् । अत्यन्तं क्षिप्रगतयः । यद्वा । अनाशवः इत्यनेन सह समुच्चयार्थश्चिच्छब्दः । आकाशमार्गेऽक्षीणाः शीघ्रगतयश्चेत्यर्थः । किंच “अगिरौकसः । गिरा ओकः स्थानं येषां नास्ति ते तादृशाः । भर्त्सनादिना स्थितिमलभमाना इत्यर्थः ॥ छान्दसः तृतीयाया अलुक् ॥ तदेव स्पष्टयति । “सूर्यस्य “रश्मयः इव दुर्नियन्तवः दुःखेन नियन्तव्याः । ते यथा क्षणेन दश दिशो व्याप्नुवन्ति बहवश्व तद्वदेतेऽपीत्यर्थः । पूर्वं गिरा अनिर्ग्राह्यत्वमुक्तम् । इदानीं हस्तेनापि अनिर्ग्राह्यत्वमाह । “हस्तयोः "दुर्नियन्तवः उभाभ्यामपि हस्ताभ्यां दुःखेन नियन्तव्याः देवयजनगमनाय शीघ्रगामिन इत्यर्थः ॥ ॥ २५ ॥
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१३५" इत्यस्माद् प्रतिप्राप्तम्