"अकुलवीरतन्त्रम्" इत्यस्य संस्करणे भेदः

<poem> श्रीमच्छन्दपादकेभ्यो नमः श्रीमीनसहजनन्दं... नवीन पृष्ठं निर्मीत अस्ती
अङ्कनम् : 2017 स्रोत संपादन
(भेदः नास्ति)

१२:२३, २२ मार्च् २०१९ इत्यस्य संस्करणं

श्रीमच्छन्दपादकेभ्यो नमः
श्रीमीनसहजनन्दं स्वकीयाङ्गसमुद्भवम् ।
सर्वमाधारगम्भीरमचलं व्यपकं परम् ।
अथातः सम्प्रवयामि अकुलवीरं महद्भूतम् ।
गुह्याद् गुह्यतरं गुह्यं सिद्धसद्भावसन्ततिः ॥ १॥
अनग्रहाय लोकानां सिद्धनाथेन भाषितं ।
गोपनीयं प्रयत्नेन यदीच्छन् शाश्वतं पदम् ॥ २॥
संसारार्णवमग्नातां भूतानां महदाश्रयम् ।
यथा नदीनदाः सर्व्वे सागरे समुपागताः ॥ ३॥
तथा अकुलवीरेषु सर्व्वधर्म्मा लयङ्गताः ।
सर्व्वाधारमशेषस्य जगतः सर्व्वदा प्रभुः ॥ ४॥
सहजानन्दं न विन्दन्ति सर्व्वधर्म्म्मसमासृताः ।
अनानन्तमलैर्ग्रस्ता महामायान्धच्छदिताः ॥ ५॥
शास्त्रजालेन सन्तुष्टा मोहितास्त्यजयन्तिताः (?) ।
न विन्दन्ति पदं शान्तं कौलानां निष्कलं गुरुम् ॥ ६॥
संवादयन्ति ये केचिन् न्यायवैशेषिकास्तथा ।
बौधास्तु अरिहन्ता ये सोमसिद्धान्तवादिनः ॥ ७॥
मीमांस पञ्चस्त्रोताश्च वामसिद्धान्तदक्षिणाः ।
इतिहासपुराणञ्च भूततत्त्वन्तु गारुडम् ॥ ८॥
एभिः शैवागमैः सर्व्वैः परोक्षञ्च क्रियान्विताइः ।
सविकल्पसिद्धिर्सञ्चारंतत् सर्व्वं पापबन्धवित् ॥ ९॥
विकल्पबहुलाः सर्व्वै^र्म्मिथ्यावादा निरर्थकाः ।
न ते मुञ्चन्ति संसारे अकुलवीरविवर्ज्जिताः ॥ १०॥
सर्व्वज्ञं सर्व्वमासृत्य सर्व्वतो हितलक्षणम् ।
सर्व्वेषां सिद्धिस्तत्रस्था सर्व्वसिद्धिञ्च तत्र वै ॥ ११॥
यत्नासौ अकुलवीरो दृश्यते सर्व्वतोमुखम् ।
तं विदित्वा परं रूपं मनो निश्चलतां व्रजेत् ॥ १२॥
शब्दरूपरसस्पर्शगन्धञ्चैवात्र पञ्चमम्
सर्व्वभावाश्च तत्रैव प्रलीणाः प्रलयं गताः ॥ १३॥
भावाभावविनिर्म्मुक्त उदयास्तमनवर्ज्जितः ।
स्वभावमतिमतं शान्तं मनो यस्य मनोमयम् ॥ १४॥
अकुलवीरमिति ख्यातं सर्व्वाधारपापरम् ।
नाधारलक्षभेदन्तु न नादगोचरे पठेत् ॥ १५॥
हृदि स्थाने न वक्त्रे च घण्टिका तालरन्ध्रके ।
न इडा पिङ्गला शान्ता न चास्तीति गमागमे ॥ १६॥
न नाभिचक्रकण्ठे च न शिरे नैव मस्तके ।
तथा चक्षुरुन्मीलने च न नासाग्रनिरीक्षणे ॥ १७॥
न पूरककुम्भके तत्र रेचके [च] तथा पुनः ।
न बिन्दुभेदके ग्रन्थौ ललाटे न तु वह्निके ॥ १८॥
प्रवेशनिर्गमे नैव नावाहनविसर्ज्जनम् ।
न करणैर्नासनं मुद्रैर्नमासे भिन्नतालुके ॥ १९॥
न निरोधो न चोद्धारो नातीतां चालनं न हि ।
न प्रेर्य्यप्रेरकञ्चैव न स्थानन्नैव चश्रयम् ॥ २०॥
न चात्मनैव तद् ग्राह्यं ग्राह्यातीतपदं भवेत् ।
एतत् पक्षविर्निर्मुक्तं हेतुदृष्टान्तवर्ज्जितम् ॥ २१॥
न दूरे न च वै निकटे न भरितो न च रिक्तकः ।
न उन्नोन सोऽधिक एभिः पक्षैर्विवर्ज्जितम् ॥ २२॥
यश्च विंशात्मको ह्येष पुद्गल नास्ति यत्र वै ।
यत्र लक्षं न विद्येत अकुलवीर स उच्च्यते ॥ २३॥
यस्यैवं संशितं कऽश्चित् समरस संशितः ।
स ब्रह्मा सो हरिश्चैशः स रुद्रो स च ईश्वरः ॥ २४॥
स शिवः परमदेवः स सोमार्क्काग्निकस्तथा ।
स च सांख्यः पुराणाश्च अर्हन्तबुद्ध एव च ॥ २५॥
स्वयं देवी स्वयं देवः स्वयं शिष्यः स्वयं गुरुः ।
स्वयं ध्यानं स्वयं ध्याता स्वयं सर्व्वत्र देवता ॥ २६॥
यादृशेन तु भावेन पुरुषो भावयेत् सदा ।
तादृशां फलमाव्प्नोति नात्र कार्य्यविचारणात् ॥ २७॥
अस्यैव हि हि नामानि पृथग्भूतानि योगिभिः ।
अनाम तस्य गियन्ते भ्रान्तिज्ञानविमोहितैः ॥ २८॥
धर्म्माधर्म्मसमाक्लिष्टाविकल्पतमश्छादिताः ।
तेन मुञ्चन्ति संसारं नरकं योनिसंकुलम् ॥ २९॥
अकुलवीरं महद्भूतं यदा पश्यन्ति सर्व्वगम् ।
स बाह्याभ्यन्तरे नित्यं एकाकारं चराचरम् ॥ ३०॥
निस्तरङ्गं निराभासं पदभेदविवर्ज्जितम् ।
सर्व्वावयवनिर्म्मुक्तं निर्लयं निर्व्वकारजम् ॥ ३१॥
अदृष्टनिर्गुणं शान्तं तत्त्वातीतं निरञ्जनम् ।
सर्व्वज्ञं परिपूर्णञ्च स्वभावश्चैवमक्षयम् ॥ ३२॥
कार्य्यकारणनिर्म्मुक्तमचिन्त्यमनामयम् ।
मायातीतं निरालम्बं व्यापकं सर्व्वतोमुखम् ॥ ३३॥
समत्वं एकभूतञ्च ऊहापोहविवर्ज्जितम् ।
अकुलवीरं महद्भूतं अस्तिनास्तिविवर्ज्जितम् ॥ ३४॥
न मनो न च वै बुद्धिर्न चिन्ताचेतनाअदिकम् ।
न कालः कलनाशक्तिर्न शिवो न च इन्द्रियः ॥ ३५॥
न भूते गृह्यते सो हि न सुखं दुःखमेव च ।
न रसो हि न सुखं दुःखमेव च ॥ ३६॥
न रसो विरसश्चैव न कृतो न च जायते ।
न च्छाय न च तापस्तु न शीतो न च उष्णवान् ॥ ३७॥
न दृश्यते मन स्तत्र उदयास्तमनवर्ज्जितम्
न सीमा दृश्यते तत्र न च तिर्थ्यं न चहिवहि ॥ ३८॥
अद्वैतमचलं शान्तं संगदोषविवर्ज्जितम् ।
निराकुलं निर्व्विकल्पञ्च निबद्धञ्च मलक्षणम् ॥ ३९॥
अनाथं सर्व्वनाथञ्च उन्मनां मदवर्ज्जितम् ।
अनिगृढमसन्धिञ्च स्थावरं जङ्गमेव च ॥ ४०॥
ज्वलज्ज्वलनभूम्या च आपोञ्चैव तथैव च ।
सर्व्वं समरसं पूर्णं अकुलवीरन्तु केवलम् ॥ ४१॥
यस्यैषा सम्।स्थिता मुक्तिः स मुक्तो भवबन्धनात् ।
न तस्य मातापिता व बान्धवं न च देवता ॥ ४२॥
न यज्ञं नोपवासञ्च न क्रिया वर्णभेदकम् ।
त्यक्त्वा विकल्पस।घातम् अकुलवीरलयं गताः ॥ ४३॥
न जपो नार्च्चनं स्नानं न होमं नैव साधनम् ।
अग्निप्रवेशनं नास्ति हेतन्तभृगु नोदनम् ॥ ४४॥
नियमोऽपि न तस्यास्ति नोपवासो विधीयते ।
पितृकार्य्यं न करोताति तीर्थयात्राव्रतानि च ॥ ४५॥
धर्म्माधर्म्मफलं नास्ति न स्नानं नोदकक्रिया ।
स्वयं त्यज सर्व्वकार्य्याणि लोकाचाराणि यानि च ॥ ४६॥
समयाचारविचारञ्च कृतका बन्धकानि तु ।
संकल्पञ्च निकल्पञ्च ये चान्ये किल धर्म्मिणः ॥ ४७॥
भवे योगी निराचारो पशुचारविवर्ज्जितः ।
सिद्धिश्चविविधाकार पाताले च रसायनम् ॥ ४८॥
प्रत्यक्षञ्च या लब्धं न गृह्नीयात् कदाचन ।
सर्व्वञ्च पाशजालञ्च अधोमार्गप्रदायकः ॥ ४९॥
एतेषु मोचना नास्ति अकुलवीरविवर्ज्जिताः ।
यथा म्ऱ्^ताः न जानन्ति स्वादं कटुमधुरस्य तु ॥ ५०॥
तथा अकुलवीरन्तु न जानन्ति स्वभावगम् ।
यथा मदिरा महान्तस्य कथितं नेवशकृते ॥ ५१॥
रस्यपरमानन्दमतिगुह्यं सुगोपितम्
लोकानां च हितार्थाय सिद्धनाथेन भाषितम् ॥ ५२॥
निर्व्विकल्पं पदं शान्तं यत्र लीनं परापरम् ।
मोक्षस्य तन्महास्थानं मन्त्ररूपविवर्ज्जितम् ॥ ५३॥
तत्रैव सृष्टिरूपेण पुनस्तत्र लयं गता ।
किन्तेन बहुनोक्तेन सर्व्वबन्धविवर्ज्जितम् ॥ ५४॥
अकुलवीरं यदा लब्धं तदा किं कौलिकैः क्रमैः ।
लभ्द्वा तु मोक्षसद्भावम् अकुलवीरं महापहम् ॥५५॥
कौलमार्गे द्वयो सन्ति क्ऱ्^तका सहजा तथा ।
कुण्डलि क्ऱ्^तका ज्ञेया सहजा समरस स्थिता ॥ ५६॥
प्रेर्यप्रेरकभावस्था कृतका साऽभिधीयते ।
ततः स पातयेद् भूमै मुद्रामन्त्रैर्नियोगितैः ॥ ५७॥
आहुते पतने चान्ये कर्णजापेन धूपकैः ।
एतत् साध्यमिदं तत्त्वं एतद् ध्यानञ्च धारणा ॥ ५८॥
अनेकैः कर्म्मसंघातैः नानामार्गविभावनैः ।
विकल्पकललोल्लोया उद्भ्रान्ता भ्रान्तचेतसः ॥ ५९॥
हृदि शोकेन सन्तप्ता व्यासङ्गाच्च महाभयैः ।
हर्षविषादसम्पन्ना शोच्यमाना मुहुर्मुहुः ॥ ६०॥
तावद्भ्रमन्ति संसारे कल्पाकल्पैर्भवार्णवैः ।
दग्धबीजेषु संभूतिर्यथा नैव प्रजायते ॥ ६१॥
मूलछिन्ने यथा वृक्षे न प्ररोहं विद्यते ।
अकुलवीरगतं भिन्नं नानाभावानुबन्धनैः ॥ ६२॥
न बध्यते यथा विमले रसं विप्रलयं गतम् ।
तद्वदकुलवीरे च सत्त्वे भ्राभ्राख्य यद्गतः ॥ ६३॥
तिमिरेण यथाच्छन्नमुदितार्कं न पश्यति ।
अज्ञानमनस्तद्वद् भ्रान्तिजालविमोहिता ॥ ६४॥
अकुले वीरे च सम्प्राप्ते सर्व्वमेतद्विनिश्यति ।
दधिमधे यथा सर्पिः काष्ठे चाग्नि स्थितो यथा ॥ ६५॥
पुष्पे गन्धस्तिले तैलं वृक्षे चाया समाश्रिता ।
मद्यमध्ये यथानन्दं दीपे प्रभा समाश्रिता ॥ ६६॥
पद्ममध्ये च कुण्डल्या अङ्गप्रत्यङ्गमेव च ।
रक्तार्थाकुलवीरे च तत्सर्व्वं विनियोजितम् ॥ ६७॥
भावाऽभावादिसम्।युक्तैः प्रत्ययैर्द्दृष्टिगोचरैः ।
अकुलवीरं न जानन्ति कृतकैर्मोहितात्मनः ॥ ६८॥
पाशजालनिबद्धाश्च महामायविमोहिताः ।
न जानन्ति पदं शान्तमचिन्त्यं नित्यसम्भवः ॥ ६९॥
सर्व्वव्यापिभावस्थं स्थानवर्णविवर्ज्जितम् ।
सर्व्वभूतस्थितं ह्येकमध्ययं धेयवर्ज्जितम् ॥ ७०॥
स च सर्व्वगतो भावः स्थिरे पूर्णो निरन्तरे ।
तत्र मनो विलीनन्तु अचलं भवतन्मयम् ॥ ७१॥
मनोवृद्धिस्तथा चिन्त्यं क्क्षिप्ता तन्मयतां गता ।
यथा तिष्ठति तत्त्वस्थः शिवनिष्कलमव्यये ॥ ७२॥
तदा तन्मयतां याति निर्म्मलं निश्चलं पदम् ।
अकुलवीरं महद्भुतमेकवीरं च सर्व्वगम् ॥ ७३॥
दुर्लभं सुरसिद्धानां योगिनीनाञ्च गोचरम् ।
केचिद् वदन्तीदं धर्म्ममिदं शास्त्रमिदं तपः ॥ ७४॥
अयं लोकमिमं स्वर्गमिदं साध्यमिदं फलम् ।
इदं ज्ञानञ्च विज्ञानं शुद्धाशुद्धमिदं परम् ॥ ७५॥
ज्ञेयञ्च तत्त्वकूटञ्च यत्र ध्यानञ्च धारणा ।
तदासौ योगिनी ह्येकः नान्यस्तु हि द्वितीयकः ॥ ७६॥
अनागतन्तु गतञ्चैव न हच्छेन्न च तिष्ठति ।
न भूतं न भविष्यञ्च स्थितिप्रलयवर्जितम् ॥ ७७॥
न चाहं प्रचितैर्दोषैः लिप्तते न कदाचन ।
नाहं कश्चिन्न मे कश्चिन्न बद्धो न च बाधकः ॥ ७८॥
न मुक्ति वै न च न मुक्तमे मोक्षस्य च स्पृहा ।
गच्छंस्तिष्ठन् स्थपन् जाग्रद्भूञ्जानओ मैथुनेऽपि वा ॥ ७९॥
भयदारिद्रशोकैश्च विविधैर्भक्षणैस्तथा ।
चिकित्सा नैव कुर्व्वीत इन्द्रियाअर्थैः कदाचन ॥ ८०॥
आचरेत् सर्व्ववर्णैस्तु न तु भक्ष्यं विचारयेत् ।
एवं स चरते योगी यथारण्ये हुताशनः ॥ ८१॥
पिण्डबधाञ्च नानास्ति अवस्था मुर्खवासनाम् ।
सोमशून्यस्तथा वह्निप्राणायमवर्ज्जितम् ॥ ८२॥
अप्रमेयनिराभासं धारणाध्यानवर्ज्जितम् ।
येन जन्मसहस्राणि भक्त्या संपूजितो गुरुः ॥ ८३॥
ते लभन्ति महाज्ञानं अकुलवीरन्तु मोक्षदम्
योगिनीराकिणीचक्रे यस्य भक्तिः सुनिश्चला ॥ ८४॥
अकुलवीरं महद्भूतं गम्भीरं गहनामयम् ।
पिण्डातीतं यदा ज्ञेयमपिण्डं पिण्डवर्ज्जितम् ॥ ८५॥
पदव्यञ्जननिर्म्मुक्तं विमलं सततोदितम्।
तल्लिने तन्मयात्मानं विन्दते श्वाश्वतं पदम् ॥ ८६॥
चितातीतं भवेत् सो हि योगसंयोगवर्ज्जितम् ।
निर्व्वाणं वासनाहीनं तृप्तात्म च निरामयः ॥ ८७॥
तेन लब्धा न सन्देहोऽमला मलच्छेदनाः ।
तस्य प्रवर्त्तते क्षिप्तं तस्यैव सर्व्वसर्व्वगम् ॥ ८८॥
वेदसिद्धान्तशास्त्राणि नानाविधानि शिखानि च ।
तानि सर्व्वाणि मोहानि कायक्लेशैर्निरर्थकम् ॥ ८९॥
विद्याहञ्ख़ारग्रस्तास्तु गर्व्विताः कुगतिं गताः ।
अनर्थेन च सन्तुष्टा बहुग्रन्थार्थचिन्तकाः ॥ ९०॥
अकुलवीरं न विन्दन्ति कृतकैर्म्मोहितामनः ।
गर्व्वितानं कुतो ज्ञानं ग्रन्थकोटिशतैरपि ॥ ९१॥
कर्पूरकुङ्कुमादीनां वस्त्रताम्बूलमेव च ।
खरवद्भवति तद्भारं सर्व्वं तस्य निरर्थकम् ।
अकुलवीरञ्च देहस्थं यदा पश्यति सर्व्वगम् ॥ ९२॥
धर्म्माधर्म्मफलं नास्ति नोदकं तीर्थसेवना ।
न क्रिया सत्यश्चैवं वा कर्मकाण्डे न भावना ॥ ९३॥
न तस्य कर्म्मकर्म्माणि लोकाचाराणि यानि च ।
चरिताः समयाचारा जनैर्भ्रान्तिविमोहितैः ॥ ९४॥
अकुलवीरं न जानन्ति किं विशिष्टं कुतः स्थितम् ।
कृतका बन्धना लोके कल्पिताश्च कुपण्डितैः ॥ ९५॥
सम्।कल्पविकल्पञ्च कलाकर्म्माणि यानि च ।
सिद्धयो विविधा लोके पातालम् च रसायनम् ॥ ९६॥
प्रत्यक्षञ्च यदा लब्धं न विगृह्णीयात् कदाचन ।
सर्व्वे ते पाशबद्धाश्च अधोमार्गप्रदायकाः ॥ ९७॥
न चैतैर्म्मुक्तिः सम्।सारे अकुलं बीरवर्ज्जिताः ।
यथा मदिरमानन्दं कथितं नैव जायते ॥ ९८॥
तद्वदकुलवीराख्यं स्वसम्।वेद्यनिरोपणम् ।
न जानन्ति नरा मूढाः सारात् सारतरं परम् ॥ ९९॥
तावद् भ्रान्तिविमुग्धात्मा यावत्तलं न विन्दति ।
चितातीते यदा योगी स योगी योगचिन्तकः ॥ १००॥
विरक्ता वासना यस्य तृप्तात्म च निरामयः ।
तावद् भ्रमन्ति मोहात्मा नानाभावानुबन्धनैः ॥ १०१॥
यावत् सममेकत्वं परमानन्दं न विन्दति ।
मुर्खाणां च यथाशास्त्रं कुमारीसुरतिं यथा ॥ १०२॥
अकुलवीरं विन्दन्ति कथ्यमानैः कुमारिकाः ।
दिशवेशाविनिर्मुल्तं स्थानवर्णविवर्ज्जितम् ॥ १०३॥
निराकुलं निर्व्विकल्पं निर्गुणञ्च सुनिर्म्मलम् ।
अनाथं सर्व्वनाथञ्च प्रमादोन्मादवर्ज्जितम् ॥ १०४॥
घननिविडनिसन्धिस्थावरे जङ्गमेषु च ।
जले ज्वलने तथा पवने भूम्याकाशे तथैव च ॥ १०५॥
सर्वत्र समरसं भरितमकुलवीरन्तु केवलम् ।
न ज्ञातं येन देहस्थं स मुक्तः सर्व्वबन्धनात् ॥ १०६॥
न तस्य क्रियाबन्धेन न वेद्यं न च वेदना ।
न यज्ञो नोपवासश्च न चर्य्या न क्रियोदयः ॥ १०७॥
न वर्णो वर्णभेदश्च अकुलवीरं यदागतम् ।
न जापो नार्चानग्नीनां न होमो नैव साधनम् ॥ १०८॥
नाग्निप्रवेशनन्तस्य मन्त्रपूजाचरणोदकम् ।
नियमाश्च न तस्यास्ति क्षेत्रपीठे च सेवनैः ॥ १०९॥
न क्रिया नार्चनाकाद्यैर्न तीर्थानि व्रतानि च ।
निरालम्बपदं शान्तं तथातीतं निरञ्जनम् ॥ ११०॥
सर्व्वज्ञपरिपूर्णञ्च स्वभावेन विलक्ष्यते ।
कार्य्यकारणनिर्म्मुक्तमचिन्तितञ्च अनामयम् ॥ १११॥
मायातीतं निरालम्बं व्यापकं सर्व्वतोमुखम् ।
स्वदेहे संस्थितं शान्तमकुलवीरं तदुच्च्यते ॥ ११२॥
समस्तमेकदाभूतं द्वैताभावविवर्ज्जितम् ।
अकुलवीरं महद्भूतमस्तिनास्तिविवर्ज्जितम् ॥ ११३॥
मनोबुद्धिचित्तस्तचित्ता नैव स्वचेतना ।
न कालकलना चैव न शक्तिश्च न चेन्द्रियः ॥ ११४॥
न भूते गृह्यते सो हि न दुःखं सुखमेव च ।
न रसोऽधिरसस्च्चैव कृतकं नैव कारकम् ॥ ११५॥
न च्छाया नातपो वह्निर्न च शीतोष्णववेदना ।
न दिनं रात्रिमित्युक्तमुदयास्तमनवर्ज्जितम् ॥ ११६॥
न मनो दृश्यते तत्र नोर्द्ध्वमध्यं च ज्ञायते ।
अक्षोभ्यमचलम् शान्तमीदृशं तत्त्वनिर्णयम् ॥ ११७॥
यादृशेन तु भावेन पुरुषो भावयेत् सदा ।
तादृशं फलमाप्नोति नात्र कार्य्यविचारणात् ॥ ११८॥
एवञ्च कुलसद्भावमवाच्यं परमामृतम् ।
अगम्यं गम्यते कस्माद् भ्रान्तिज्ञानविहोहिताः ॥ ११९॥
न दूरे न निकटे चैव प्रत्यक्षं न परोक्षता ।
न भरितो न रिक्तो वा निपुणो नापि चाधिकः ॥ १२०॥
एतत्पक्षविनिर्म्मुक्तो हेतुदृष्टान्तवर्ज्जितः ।
कृतकैर्म्मोहिता मूढाः कर्म्मकाण्डरतास्तु ये ॥ १२१॥
न तेषां मुक्तिः संसारे नरके योनिसंकुले ।
अकुलवीरं महद्भूतं यदा पश्यति सर्व्वगम् ॥ १२२॥
सबाह्याभ्यन्तरैकत्व/म् सर्व्वत्रैव व्यवस्थितम् ।
निस्तरङ्गं निराभासं पदच्छेदविवर्ज्जितम् ॥ १२३।
। सर्व्वावयवनिर्म्मुक्तं निर्व्विकारञ्च निर्म्मलम् ।
अदृश्यं निर्गुणं नित्यं निर्णिरोधञ्च निश्चलम् ॥ १२४॥
न ध्यानं धारणा नैव न स्थानं वर्णमेव च ।
न रेचकं पूरकञ्चैव नरोद्घातञ्च कुम्भकम् ॥ १२५॥
न चान्तमादिमध्यस्थं न सतो वृद्धिरेव च ।
ग्राह्यग्राहकनिर्म्मुक्तग्रन्थातीतञ्च यद्भवेत् ॥ १२६॥
एतैः सर्व्वैर्व्विनिर्म्मुक्तं हेतुदृष्टान्तवर्ज्जितम् ।
सबाह्याभ्यन्तरैकत्वं सर्व्वत्रैव व्यवस्थितम् ॥ १२७॥
समरसानन्द्ररूपेण एकाकारं चराचरे ।
ये च ज्ञातं स्वदेहस्थमकुलवीरं महद्भूतम् ॥ १२८॥
यस्याअ वशं स्थितः कश्चित् समरसं रससंस्थितम् ।
स ब्रह्मा स हरिश्चैव स रुद्रञ्चैवेश्वरस्तथा ॥ १२९॥
स शिवः शाश्वतो देवः स च सोमार्कशङ्करः ।
स विशाख्यो मयुराक्षो अर्हन्तो बुधमेव च ॥ १३०॥
स्वयं देवि स्वयं देवः स्वयं शिष्यः स्वयं गुरुः ।
स्वयं ध्यानं स्वयं ध्याता स्वयं सर्व्वेश्वरो गुरुः ॥ १३१॥
सर्व्वज्ञः सर्व्वमासृत्य सर्व्वतो हितलक्षणः ।
सर्व्वयोगिनी तत्रस्था सर्व्वे सिद्धास्च तत्र वै ॥ १३२॥
सर्व्वं सर्व्वा^र्थकं चैव सर्व्वज्ञानश्च तत्र वै ।
यथासौ महार्थञ्च अकुलवीरमिति स्मृतम् ॥ १३३॥
शब्दः स्पर्शो रसो रूपं गन्धो वद्याणिपम च ।
सर्वे भीराश्च तत्रैव ये प्रलीनाः प्रलयं गताः ॥ १३४॥
नाधारे ध्येयलक्ष्ये च न नादगोचरे परे ।
न ह्ऱ्^दि नाभिकण्ठे वा वक्त्रे घण्टिकरन्ध्रयोः ॥ १३५॥
न इडा पिङ्गला चैव सुष्मण च गमागमैः ।
न नाभिचक्रे कण्ठे च न शिरे बिन्दुके तथा ॥ १३६॥
चक्षुकर्णोन्मीलनं नैवं नासिकाग्रनिरीक्षणे ।
न पूरके कुम्भके चैव रेचके च तथा पुनः ॥ १३७॥
न बिन्दुभेदग्रन्थौ च ललाटे न च चन्द्रमाः ।
प्रवेशे निर्गमे चैव शिखा ऊर्द्ध्वे न बिन्दुके ॥ १३८॥
न करैर्न सरैर्मुद्रैः नाकाशो वायुमण्डले ।
न चापे चन्द्रसुर्य्ये च भावाभावे समागमे ॥ १३९॥
अनौपम्यं निरालम्बं पक्षापक्षविवर्ज्जितम् ।
अज्ञानमलग्रस्तात्मा महामायविमोहिताः ॥ १४०॥
शास्त्रार्थेन विमुढात्मा मोहिता विदुषो जनाः ।
न विदन्ति पदं शान्तं कैवल्यं निश्क्रियं गुरुम् ॥ १४१॥
संख्यादयस्च ये केचित् न्यायवैशेषिकास्तथा ।
बौद्धारहन्ताश्च ये केचित् सोमसिद्धान्तदक्षिणाः ॥ १४२॥
मीमांसा पञ्चरात्रञ्च वामदक्षिणकौलिकाः ।
इतिहासपुराणानि भूततत्त्वञ्च गारुडम् ॥ १४३॥
एते चैव समाः सर्व्वे केचित् वाऽपि क्रियान्विताः ।
विकल्पसिद्धिदाः सर्व्वे तद्विदुर्न च पण्डिताः ॥ १४४॥
विकल्पबहलाः सर्व्वे मिथ्यावादनिरर्थकाः ।
न ते मुच्यन्ति संसारे अकुलवीरविवर्ज्जिताः ॥ १४५॥
यानि कानि च स्थानानि गिरिर्नगरसागरम् ।
सर्व्वत्र संस्थितं नित्यं स्थावरे जङ्गमेषु च ॥ १४६॥
पञ्चभूतात्मकं सर्व्वे यत् किञ्चित् सचराचरम् ।
शिवाद्यदेवपर्य्यन्तं सर्व्वं तत्रैव संस्थितं ॥ १४७॥
ईदृशं योगिनं दृष्ट्वा उपसर्पन्ति ये नराः ।
गन्दैः पुष्पैश्च धूपैश्च खानपानादिभक्षणैः ॥ १४८॥
तर्पयन्ति च ये भक्तास्त्रिविधैस्चैवान्तरात्मना ।
तेऽपि बन्दैः प्रमुच्यन्ति मुक्तिमार्गी न काड्क्षिणः ॥ १४९॥
ब्रहेन्द्रविष्णुरुद्रञ्च अरहन्ता बुद्धमेव च ।
विषाख्यो मयूराक्ष ये च ऋषयस्तपोधनाः ॥ १५०॥
देवादिभो नरेन्द्राश्च ये चान्ये मोक्षकाङ्क्षिणः ।
ते सर्व्वे मोक्षमिच्छन्ति अकुलवीरन्तु मोक्षदम् ॥ १५१॥
अथान्यं संप्रवक्ष्यामि भिन्नावस्थां स्वभागः ।
पूर्वं यदुक्ता सर्व्वे अन्वयमार्गे त्वकौलिके ॥ १५२॥
 * * * * * * * * * *
 * * * * * * * नात्र संशयः ॥ १५३॥
न जरास्तेषां न मृत्युश्च न शोको दुःखमेव च ।
सर्व्वव्याधिहरश्चैव न पुनर्भवसंभवः ॥ १५४॥
अकुलवीरं स्थितं दिव्यं सिद्धनाथप्रसादतः ।
सर्व्वतः सर्व्वदा शुद्धः सर्व्वतः सर्व्वदा प्रभुः ॥ १५५॥
इति मच्छेन्द्रपादावतारिते कामरूपिस्थाने योगिनीप्रसादाल्लब्धम् अकुलवीरं समाप्तम् ।

"https://sa.wikisource.org/w/index.php?title=अकुलवीरतन्त्रम्&oldid=197069" इत्यस्माद् प्रतिप्राप्तम्