"ऋग्वेदः सूक्तं ३.२१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २४:
 
{{सायणभाष्यम्|
‘ इमं नः' इति पञ्चर्चं नवमं सूक्तम् । अत्रेयमनुक्रमणिका - ‘ इमं न उपाद्ये अनुष्टुभौ विराड्रूपा सतोबृहती चान्त्या' इति । द्वितीयातृतीये अनुष्टुभौ पञ्चमी विराड्रूपा सतोबृहती च । अनुक्तत्वात्प्रथमाचतुर्थ्यौ त्रिष्टुभौ । अस्यापि गाथी ऋषिः । पशौ स्तोकानुवचने इदं सूक्तम् । सूत्रितं च -- जुषस्व सप्रथस्तममिमं नो यज्ञम् ' ( आश्व. श्रौ. ३. ४ ) इति ।।
 
 
इ॒मं नो॑ य॒ज्ञम॒मृते॑षु धेही॒मा ह॒व्या जा॑तवेदो जुषस्व ।
Line ३६ ⟶ ३८:
 
स्तोकानाम् । अग्ने । मेदसः । घृतस्य । होतरिति । प्र । अशान । प्रथमः । निऽसद्य ॥१
 
गाथी प्रार्थयते । हे “जातवेदः जातप्रज्ञ अग्ने “नः अस्माकं संबन्धिनम् “इमं “यज्ञं पशुयागम् “अमृतेषु मरणधर्मरहितेषु यष्टव्यदेवेषु “धेहि तदधीनतया समर्पय । त्वं च “इमा इमान्यस्माभिर्दीयमानानि “हव्या हव्यानि हवींषि "जुषस्व सेवस्व । किंच “होतः देवानामाह्वातः । ‘ अग्निर्वै देवानां होता ' ( ऐ. ब्रा. ३. १४ ) इत्याम्नानात् । तादृश हे “अग्ने “निषद्य वेद्यामुपविश्य "प्रथमः सर्वेषामृत्विजामादिमः सन् “मेदसः वपाख्यस्य हविषः “घृतस्य आज्यस्यं च “स्तोकानाम् । द्वितीयार्थे षष्ठी । मेदोघृतयोर्ये स्तोका बिन्दवो विद्यन्ते तान्प्रकर्षेण “अशान भक्षय। पिबेत्यर्थः ॥ धेहि । दधातेर्लोटि रूपम् । जुषस्व । जुषी प्रीतिसेवनयोः' इत्यस्य लोटि आत्मनेपदिनो रूपम् । अशान । ‘ अश भोजने ' इत्यस्य लोटि ‘हलः श्नः शानज्झौ ' ( पा. सू. ३. १.८३) इति शानजादेशः । पश्चात् ‘ अतो हेः' इति हेर्लुक्। निघातः। प्रथमः। प्रथ प्रख्याने' । प्रथमः प्रथन्तेऽस्मात् द्वितीयादयः इति । ‘प्रथेरमच्' ( उ. सू. ५. ७४६ ) इत्यमच् । चित्त्वादन्तोदात्तः । निषद्य । ‘षद्लृ विशरणगत्यवसादनेषु ' इत्यस्य ल्यपि रूपम् । “सदिरप्रतेः' इति षत्वम् । ‘लिति' इति प्रत्ययात्पूर्वस्योदात्तत्वम् ॥
 
 
Line ४९ ⟶ ५३:
 
स्वऽधर्मन् । देवऽवीतये । श्रेष्ठम् । नः । धेहि । वार्यम् ॥२
 
“पावक पापशोधक हे अग्ने “स्वधर्मन् स्वायत्तधर्मके साङ्गेऽस्मिन् यज्ञे "ते तव भक्षणार्थं “देववीतये यजनीयदेवानां भक्षणार्थं च “घृतवन्तः धृतोपेताः “मेदसः मेदोरूपस्य हविषः “स्तोकाः बिन्दवः “श्चोतन्ति क्षरन्ति । अथवा देववीतये देवस्य तव वीतये इति योजनीयम् । तस्मात् “वार्यं वरणीयं संभजनीयं “श्रेष्ठम् उत्तमं धनं “नः अस्मभ्यं “धेहि प्रयच्छ ॥ श्चोतन्ति । ‘ श्चुतिर् क्षरणे' इत्यस्य लटि रूपम् । स्वधर्मन् । स्वेऽङ्गभूताः धर्माणो यस्येति बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । ‘ सुपां सुलुक् ' इति सप्तम्या लुक् । देववीतये । देवानां वीतिः प्रीतिर्यस्यां भक्षणक्रियायां सा देववीतिः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । श्रेष्ठम् । प्रशस्यशब्दादतिशायने इष्टन् । प्रशस्यस्य श्रः' इति श्रादेशः। गुणः । एकादेशस्वरः । धेहि । दधातेर्लोट् । वार्यम् । ‘ वृङ् संभक्तौ '। ऋहलोर्ण्यत्' इति ण्यत् । ‘ ईडवन्द ' इत्यादिनाद्युदात्तत्वम् । एतिस्तुशास्' इत्यादिना क्यप् वृणोतेरेव न वृङः ॥
 
 
Line ६२ ⟶ ६८:
 
ऋषिः । श्रेष्ठः । सम् । इध्यसे । यज्ञस्य । प्रऽअविता । भव ॥३
 
“सन्त्य यष्टृभिः संभजनीय यद्वा यष्टृभ्यः फलप्रद हे अग्ने “विप्राय मेधाविने “तुभ्यं त्वदर्थं “घृतश्रुतः घृतक्षरणयुक्ताः स्तोकाः सन्ति । “ऋषिः अतीन्द्रियार्थदर्शी अत एव “श्रेष्ठः सर्वातिशायी त्वं समिध्यसे घृतयुक्तमेदोबिन्दुभिः सम्यक् प्रज्वल्यसे । स त्वं “यज्ञस्य अस्माभिः क्रियमाणस्य पशुयागस्य “प्राविता प्रकर्षेण पालकः “भव ॥ तुभ्यम् । युष्मच्छब्दस्य ङयि ' तुभ्यमह्यौ ङयि ' (पा. सू. ७. २. ९५ ) इति तुभ्यादेशः । ‘ ङेप्रथमयोरम्' इति ङेरमादेशः । ‘ ङयि च ' इति आद्युदात्तत्वम् । सन्त्य । ‘षण संभक्तौ'; ‘षणु दाने' वा । क्तिच्क्तौ च संज्ञायाम्' इति क्तिच् । न क्तिचि दीर्घश्च' इति दीर्घनलोपाभावः । सन्तौ भवः भवे छन्दसि' इति तत्र साधुः' इति वा यत्प्रत्ययः । यस्येति लोपः। आमन्त्रितत्वान्निघातः। इध्यसे । 'ञिइन्धी दीप्तौ' । कर्मणि यक् । कित्त्वादनुनासिकलोपः । निघातः। प्राविता । अव रक्षणादिषु । तृचि रूपम् । समासस्वरः । भव । निघातः॥
 
 
Line ७५ ⟶ ८३:
 
कविऽशस्तः । बृहता । भानुना । आ । अगाः । हव्या । जुषस्व । मेधिर ॥४
 
“अध्रिगो अधृतगमन सततगमनस्वभाव । अत एव "शचीवः शक्तिमन् हे “अग्ने “तुभ्यं त्वदर्थं "मेदसः मेदोरूपस्य हविषः “घृतस्य “स्तोकासः बिन्दवः “श्चोतन्ति स्रवन्ति । तस्मात् “कविशस्तः कविभिः कर्माभिज्ञैर्होत्रादिभिः स्तुतस्त्वं “हता प्रभूतेन “भानुना तेजसा सहितः सन् “आगाः अस्मदीयं पशुयागमभ्यागच्छ । आगत्य च “मेधिर प्रज्ञावन्नग्ने “हव्या अस्माभिर्दीयमानानि वपादीनि हवींषि “जुषस्व सेवस्व ॥ अध्रिगो । गमनं गौरिति गम्लृ सृप्लृ गतौ ' इत्यस्य भावे ‘ गमेर्डोः' इति डोः । अधृता गौर्येन इत्यत्र ‘ गोस्त्रियोरुपसर्जनस्य ' इति गोशब्दस्य ह्रस्वत्वम् । धृतशब्दस्य" पृषोदरादित्वात् ध्रिभावः। संबोधने ‘संबुद्धौ च ' (पा. सू. ७. ३. १०६ ) इति गुणः। अपादादित्वान्निघातः । शचीवः । मतुपः मतुवसो र ० ' इति रत्वम् । कविशस्तः । ‘ शंसु स्तुतौ इत्यस्य निष्ठायामनुनासिकलोपः । ‘ यस्य विभाषा 'इतीट्प्रतिषेधः । ‘थाथघञ्क्ताजबित्रकाणाम् ' इत्यन्तोदात्तत्वम् । भानुना ।' भा दीप्तौ । “ दाभाभ्यां नुः' इति कर्तरि नुः । प्रत्ययस्वरः। अगाः। ‘ इण् गतौ ' इत्यस्य छान्दसे लुङि इणो गा' इति गादेशः । ‘ गातिस्था' इति सिचो लोपः । निघातः । मेधिर । ‘ मेधारथाभ्यामिरनिरचौ वक्तव्यौ ' इतीरन् । आमन्त्रितत्वान्निघातः ॥
 
 
Line ८९ ⟶ ९९:
श्चोतन्ति । ते । वसोऽइति । स्तोकाः । अधि । त्वचि । प्रति । तान् । देवऽशः । विहि ॥५
 
हे अग्ने “ओजिष्ठम् अतिशयेन सारयुक्तं “मेदः वपाख्यं हविः “मध्यतः पशोर्मध्यभागात् ते त्वदर्थम् “उद्भृतम् उद्धृतम् अध्वर्य्वादयः “वयम् अस्मिन् पशौ “ते तुभ्यं “प्र “ददामहे उद्धृतं तद्वपाख्यं हविः प्रयच्छामः । “वसो सर्वस्य जगतो वासयितर्हे अग्ने “त्वचि “अधि वपायामुपरि ये “स्तोकाः घृतमिश्रा बिन्दवस्ते “ते त्वदर्थं “श्चोतन्ति स्रवन्ति । यद्वा ते तव त्वच्यधि ज्वालाख्यशरीरस्योपरि श्चोतन्ति। “तान् स्तोकान् "देवशः देवेषु “प्रति “विहि प्रत्येकं विभजस्व ॥ मध्यतः । मध्यशब्दात् ‘पञ्चम्यास्तसिः ' ( पा. सू. ५.४.४४ ) इति तसिः । प्रत्ययस्वरः । उद्भृतम् । “ हृञ् हरणे'। कर्मणि क्तः । ‘हृग्रहोर्भश्छन्दसि' इति हकारस्य भकारः । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । ददामहे ।' दद दाने ' इत्यस्य लटि ङित्त्वादात्मनेपदम् । अतो दीर्घो यञि ' इति दीर्घः । निघातः । श्चोतन्ति । ‘श्चुतिर् क्षरणे' । पादादित्वादनिघातः । अन्तेर्लसार्वधातुकस्वरेण अनुदात्तत्वे कृते धातुस्वरः । त्वचि । तनु विस्तारे । तनोतेरनश्च वः' (उ. सू. २.२२१ ) इति कर्तरि कर्मणि वा चिक् । अकारनकारयोर्वकारादेशः । तनोति तायते वा त्वक् । ‘ सावेकाचः० इति विभक्तेरुदात्तत्वम् । विहि । वी कान्तिगत्यादिष्वित्यस्य लोटि अदादित्वाच्छपो लुक् । ह्रस्वश्छान्दसः । निघातः। खिलम् ॥ ॥ २१ ॥
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.२१" इत्यस्माद् प्रतिप्राप्तम्