"आर्षेयकल्पः/अध्यायः ०६" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य कल्पः/श्रौतसूत्राणि/आर्षेयकल्पः/अध्यायः ०६ पृष्ठं [[आर्षेयकल...
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">कॢप्तो ज्योतिष्टोमोऽतिरात्रोऽषोडशिको यदि वा षोडशिमान्ब्राह्मणे षष्ठादिभिश्चतुर्भिरध्यायैरतिरात्रसंस्थो ज्योतिष्टोमोऽषोडशिकः कॢप्तः यदि वा षोडशिमानिति तु ब्राह्मणान्तरानुसारेणोक्तं अस्य चातिरात्रस्य प्रयोग आदवेवास्माभिर्दर्शितः वक्ष्यमाणानां रात्रेर्विशेषमाह अहीनिक्याँ रात्रौ पण्यंपण्यमित्सोतार इति श्रौतकक्षं दैवोदासं होतृषाम कौत्सस्य लोक आष्टादँष्ट्रमा त्वा विशन्त्विन्दव इत्येतासु समानमितरँ सात्त्रिक्या ६-१-१
-१
 
सर्वस्तोमस्योपवती प्रतिपत् स्वासु श्यैतं परिस्वानार्भवीया सँहितादुत्तरं जराबोधीयमान्धीगवादाथर्वणँ समानमितरं प्रथमेन साहस्रेण तस्य ज्योतिष्टोमोऽतिरात्रः षोडशिमान् ६-१-२
-२
 
अप्तोर्याम्नस्तृतीयस्य साहस्रस्याज्यबहिष्पवमानं जराबोधीयस्य लोके सुरूपमुद्धरत्याथर्वणं परि प्र धन्वेति स्वर्वन्निधनँ सौहविषँ समानमितरं पूर्वेण वैश्वजितानि पृष्ठानि पृष्ठानां गर्भा अनुब्राह्मणमतिरिक्तस्तोत्राणि ६-१-३
-३
 
नवसप्तदशस्या महीयवादुत्तरं पवस्व मधुमत्तम इति साकमश्वमभि सोमस आयव इति जनित्रँ रौरव यौधाजये नौधसस्यर्क्षु जनित्रं परि प्र धन्वेति सफँ समानमितरं ज्योतिष्टोमेनातिरात्रेणाषोडशिकेन ६-१-४
-४
 
या ज्योतिष्टोमस्य सा विषुवतस्तस्य सप्तदशान्युक्थान्यषोडशिकोऽतिरात्रः ६-१-५
-५
 
कॢप्ते गो आयुषी ६-१-६
-६
 
कॢप्तौ विश्वजिदभिजितौ ६-१-७
-७
 
या बृहस्पतिसवस्य सैकस्तोमानां प्रथमस्य तस्यैव ज्योतिष्टोमोऽतिरात्रः षोडशिमान् ६-१-८
-८
 
गोराज्यबहिष्पवमानमिन्द्रस्तोमस्य मध्यंदिनः पुनानः सोम धारयेति बृहती स्वासु श्यैतँ समानमितरं प्रथमेन साहस्रेण तस्य ज्योतिष्टोमोऽतिरात्रः षोडशिमाँस् ६-२-१
-१
 
तीव्रसुत आज्यबहिष्पवमानं मध्यंदिनश्च समानमितरं प्रथमेनैकस्तोमेन ६-२-२
-२
 
प्रतीचीनस्तोमस्य बहिष्पवमानमभिजितो गायत्री ज्योतिष उत्तरस्य बृहती समानमितरं द्वितीयेनैकस्तोमेन षोडशाः षोडशिनोऽनुब्राह्मणं वा ६-२-३
-३
 
ये व्युष्टिद्विरात्रस्याहनी ते आङ्गिरसद्विरात्रस्यो त्तरादह्न ऋषभजराबोधीये उद्धरति समन्तदैर्घश्रवसे अन्तराथर्वणँ सँहितादुत्तरं जराबोधीयं विशोविशीयस्य लोके श्रुध्यं ६-२-४
-४
 
याङ्गिरसद्विरात्रस्य पूर्वा सा चैत्ररथस्य तस्यायुष उक्थानि इति पूवमहः पवस्व वाचो अग्रियः पवस्वेन्दो वृषा सुत आ ते दक्षं मयोभुवँ श्रुध्यस्य लोके जराबोधियं नार्मेधाद्रात्रिमुपयन्त्यथ यदेव द्विदिवसस्योत्तममहस्तदे-तदित्युत्तरम् ६-२-५
-५
 
ये चैत्ररथस्याहनी ते कापिवनस्य त्रिवृत्पञ्चदशोऽग्निष्टोमः पूर्वमहरायुरतिरात्र उत्तरम् ६-२-६
-६
 
आभिप्लविकस्य प्रथमस्याह्न आज्यबहिष्पवमानं मध्यंदिनश्च रथंतरँ स्वारं च सौपर्णँ शग्ध्यू षु शचीपत इत्यभीवर्तः स्वासु कालेयँ स्वादिष्ठया मदिष्ठयेति गायत्रँ स्वाशिरां चार्को ऽया पवस्व देवयुः पवते हर्यतो हरिरिति सफाक्षारे प्र सुन्वानायान्धस इति औदलं चर्तनिधनमाज्यदोहमभि प्रियाणीति वैखानसमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम ६-३
Line ४७ ⟶ ३३:
पवस्व वाचो अग्रिय एष देवो अमर्त्य एष धिया यात्यण्व्या होता देवो अमर्त्यो मित्रं वयँ हवामहे महाँ इन्द्रो य ओजसे न्द्रे अग्ना नमो बृहदुच्चा ते जातमन्धस इति गायत्रं च गौषूक्तं च जराबोधीयं चर्षभश्च पावमानः प्रत्नं पीयूषं पूर्व्यं यदुक्थ्यमित्युत्सेधः परीतो षिञ्चता सुतमित्याभीशवमाथर्वणं पृश्नि तिस्रो वाच इति त्रिणिधनमाज्यदोहमन्त्यं बृहच्च सत्रासाहीयं च श्यैतं च रौरवं च परि स्वानो गिरिष्ठा इति गायत्रं च हाविष्मतं च स सुन्वे यो वसूनां प्राणा शिशुर्महीनामिति दीर्घ श्रुध्ये अयं पूषा रयिर्भग इति निषेधश्च श्यावाश्वं च क्रौञ्चं च यज्ञायज्ञीयं च परि प्र धन्वेति वाजदावर्यो ऽया रुचेति नित्यवत्सा धर्ता दिव इति दीर्घतमसोऽर्कोऽन्त्यो वारवन्तीयमग्निष्टोमसाम स्वासु ज्योतिष्टोमोऽतिरात्रः षोडशिमान् ६-५
 
पवस्व वाजसातय इति तिस्रोऽनुष्टुभश्चतस्रो गायत्रीः करोति पज्रयौधाजये अन्तरा गौङ्गवमौदलाज्यदोहे गौतमँ समानमितरं प्रथमेनाह्ना गर्गत्रिरात्रस्य ६-६-१
-१
 
उपास्मै गायता नर उपो षु जातमप्तुरं दविद्युतत्या रुचै ते असृग्रमिन्दवो राजा मेधाभिरीयते वृषा सोम द्युमाँ असीषे पवस्व धारयाभि सोमास आयव इति गौतममन्तरिक्षं दैर्घश्रवसं त एकर्चाः सन्तनि तिसृषु पौरुमद्गं गायत्रपार्श्वं मैधातिथं त एकर्चा द्विहिंकारं तिसृषु महानाम्न्यश्च वामदेव्यं च पार्थुरश्मं च श्रायन्तीयस्यर्क्षु संकृति समानमितरं मध्यमेनाह्ना गर्गत्रिरात्रस्य ६-६-२
-२
 
पवस्व वाचो अग्रियः पवस्वेन्दो वृषा सुतः पवमानस्य ते कवे गायत्रादुत्तरे चत्वार एकर्चा उत्तमं च बार्हतमनुष्टुभि त्रय एकर्चा उत्तमं तृचे समानामितरमुत्तमेनाह्ना गर्गत्रिरात्रस्य ६-६-३
-३
 
प्र सोमासो विपश्चित इति गायत्रमेकस्यामाश्वमेकस्यां जराबोधीयमेकस्यां प्र सोम देववीतय इति गौङ्गवमेकस्यां पज्रमेकस्यां यौधाजयमेकस्या-मौशनमौपगवमाष्टादँष्ट्रं प्रत्यस्मै पिपीषत इति नानदँ षोडशिसाम रात्रिः संधिः समानमितरं प्रथमेनाह्ना गर्गत्रिरात्रस्य ६-७-१
-१
 
उपो षु जातमप्तुरं दविद्युतत्या रुचे षे पवस्व धारया पर्यू ष्विति श्यावाश्वमिन्द्राय सोमपातव इत्यान्धीगवम्पवित्रं त इति यज्ञायज्ञीयम-न्त्यमुद्वँशीयस्य लोके तैरश्च्यमुद्वँशीयँ षोडशिसाम रात्रिः संधिः समानमितरं द्वितीयेनाह्ना गर्गत्रिरात्रस्य ६-७-२
-२
 
पवस्व वाचो अग्रियः पवस्वेन्दो वृषा सुत आ ते दक्षं मयोभुवमुद्धरति जराबोधीयँ सतोबृहतीद्विपदातिच्छन्दसश्च प्रतिलोमं बार्हतान्ययं पूषा रयिर्भग इति दीर्घतमसश्चार्कः क्रौञ्चं च धर्ता दिव इति यज्ञायज्ञीयमन्त्यँ समानमितरमुत्तमेनाह्ना गर्गत्रिरात्रस्य ६-७-३
-३
 
सांवत्सरिकस्य विषुवतो बहिष्पवमानमुभौ पर्यासावाश्वादुत्तरे सोमसाम च रोहितकूलीयं च पवस्वेन्द्रमच्छेति सफा क्षारे समानमितरं प्रथमेनाश्वत्रिरात्रस्य ६-८-१
-१
 
वृषा सोम द्युमाँ असि वृषा ह्यसि भानुनैते सोमा अभि प्रियँ सोमः पुनानो अर्षत्युत्ते शुष्मास ईरत इति पुरस्तात्पर्यासस्याहरत्यामहीयवादुत्तराण्या-शुभार्गवप्रभृतीनि षड् द्विहिंकारादुत्तराण्यच्छिद्रं च मैधातिथं च पौरुहन्मनमग्नेश्चार्कादुत्तराणि सुरूपप्रभृतीनि चत्वारि यज्ञायज्ञीयात्पूर्वाण्या-सितं च कौत्सं च शुद्धाशुद्धीयं च क्रौञ्चं च रयिष्ठँ समानमितरं मध्यमेनाह्ना गर्गत्रिरात्रस्या ६-८-२
-२
 
अष्टर्चादुत्तरन्नवमादह्नश्चतुरः षडृचानुपहरत्या ते दक्षं मयोभुवमिति पर्यास ऋषभात्पवमानादुत्तराणि सुरूपं चा दारसृच्चे डानां च संक्षारः स्वारं च सैन्धुक्षितं पृश्निन उत्तरान्यर्कपुष्पं कौल्मलबर्हिषं देवस्थानँ हाविष्मता-दुत्तराणि शांमदप्रभृतीनि चत्वारि यज्ञायज्ञीयादुत्तरं यद्वाहिष्ठीयँ समानमितरमुत्तमेनाह्ना गर्गत्रिरात्रस्य ६-८-३
-३
 
ये गर्गत्रिरात्रस्य प्रथमोत्तमे अहनी ते अन्तर्वसोः ६-९-१
-१
 
उपो षु जातमप्तुरं दविद्युतत्या रुचा पवस्वेन्दो वृषा सुतो राजा मेधाभिरीयत एते असृग्रमिन्दवो वृषा सोम द्युमाँ असि वृषा ह्यसि भानुनेषे पवस्व धारयाअथ यदेव छन्दोमपवमानस्य मध्यममहस्तदेतत्तस्य तृचकॢप्त आर्भवो ६-९-२
-२
 
यान्तर्वसोः प्रथमा सा पराकस्य ६-९-३
-३
 
वृषा सोम द्युमाँ असि वृषा ह्यसि भानुनेति पुरस्तात्पर्यासस्या-हरत्यामहीयवादुत्तरे आशु च भार्गवं मार्गीयवं चा ग्नेश्चार्कादुत्तरे सुरूप भासे यज्ञायज्ञीयात्पूर्वे आसित कौत्से समानमितरं मध्यमेनाह्ना गर्गत्रिरात्रस्य ६-९-४
-४
 
व्युष्टेरुत्तरस्याह्नो बहिष्पवमानमथ यदेव छन्दोमपवमानस्योत्तममहस्ततेतत्तस्य शशकर्णकॢप्ता बृहती ६-९-५
</span></poem>
-५
"https://sa.wikisource.org/wiki/आर्षेयकल्पः/अध्यायः_०६" इत्यस्माद् प्रतिप्राप्तम्