"ऋग्वेदः सूक्तं ३.२९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४६:
 
{{सायणभाष्यम्|
‘ अस्तीदम्' इति षोडशर्चं सप्तदशं सूक्तं वैश्वामित्रम् । अत्रानुक्रमणिका - अस्तीदं षोळशाद्याचतुर्थीदशमीद्वादश्योऽनुष्टुभः षष्ठ्येकादश्युपान्त्ये च जगत्यः पञ्चम्यृत्विग्भ्यो वा ' इति । आद्याचतुर्थीदशमीद्वादश्योऽनुष्टुभः षष्ठ्येकादश्युपान्त्ये च जगत्यः षष्टष्ठ्येकादशी चतुर्दशी पञ्चदशी च जगत्यः। शिष्ट अष्टौ त्रिष्टुभः । पञ्चमी मन्थता नरः' इत्येषा ऋत्विग्देवताकाग्निदेवताका वा । शिष्टा अग्निदेवताकाः । सूक्तविनियोगो लैङ्गिकः । वरुणप्रघासेषु अग्निप्रणयने ' इळायास्त्वा पदे ' इत्येषा । सूत्रितं च- ‘ इळायास्त्वा पदे वयमग्ने विश्वेभिः स्वनीक देवैरित्यर्धर्च आरमेत् ' (आश्व. श्रौ. २. १७) इति । तत्रैव अग्निप्रणयने उत्तरवेद्यामग्नौ स्थापिते सति सीद होतः' इत्येषा। ‘ निहितेऽग्नौ सीद होतः स्व उ लोके चिकित्वान् ' ( आश्व. श्रौ. २. १७) इति सूत्रितम् । अरण्यामग्निसमारोपणे 'अयं ते योनिः' इत्येषा । सूत्रितं च - अयं ते योनिर्ऋत्विय इत्यरणी गार्हपत्ये प्रतितपेत्पाणी वा' ( आश्व. श्रौ. ३. १० ) इति ॥
 
 
अस्ती॒दम॑धि॒मन्थ॑न॒मस्ति॑ प्र॒जन॑नं कृ॒तम् ।
Line ५८ ⟶ ६०:
 
एताम् । विश्पत्नीम् । आ । भर । अग्निम् । मन्थाम । पूर्वऽथा ॥१
 
यजमानोऽध्वर्य्वादीन्प्रति बूते । "इदम् अग्न्यर्थं यूपशकलम् "अस्ति । "अधिमन्थनम् । अरण्याः उपरि निधेयं मन्थनसाधनभूतं दण्डरज्वादिकम् "अस्ति । "प्रजननम् अग्निजननसाधनभूतं दर्भपिञ्जूलं “कृतं संपादितमस्ति । यद्वा प्रजननं मन्थनदण्डस्य विन्यासविशेषः । यस्मादेतानि यूपशकलादीन्यग्निमन्थनसाधनान्याहृतानि सन्ति तस्मात् "विश्पत्नीं विशां प्रजानामग्निसाध्याग्निहोत्रद्वारा स्वर्गादिफलसंपादनेन पालयित्रीम् "एताम् अरणीम् "आ "भर हे अध्वर्यो आहर । तस्यामाहृतायां "पूर्वथा यथा वयमाधानकालेऽग्निममथ्नीम यथा वा पूर्वे महर्षयोऽग्निममन्थिषुः तद्वद्वयमेनम् "अग्निम् अस्मिन्कर्मणि "मन्थाम। मन्थनेन निष्पन्नं करवाम ॥ अस्तीति पदद्वयस्य पादादित्वादनिघातः । विश्पत्नीम् । पतिशब्दस्य ‘ विभाषा सपूर्वस्य ' इति ङीप् नकारश्चान्तादेशः। ‘ परादिश्छन्दसि बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम् । भर । ‘ हृञ् हरणे ' इत्यस्य लोटि ‘ हृग्रहोर्भश्छन्दसि ' इति भकारः । मन्थाम। ‘ मन्थ विलोडने '। लोटि रूपम् । निघातः । पूर्वथा । पूर्वशब्दात् इवार्थे ' प्रत्नपूर्वविश्वेमात्थाल् छन्दसि ' इति थाल्प्रत्ययः । ‘लिति' इति प्रत्ययात्पूर्वस्योदात्तत्वम् ॥
 
 
Line ७१ ⟶ ७५:
 
दिवेऽदिवे । ईड्यः । जागृवत्ऽभिः । हविष्मत्ऽभिः । मनुष्येभिः । अग्निः ॥२
 
“जातवेदाः सर्वविषयज्ञानवानयमग्निः "अरण्योर्निहितः । देवैर्यज्ञार्थं नितरां स्थापितोऽस्ति । अत्र दृष्टान्तः । "गर्भइव इति । यथा गर्भः “गर्भिणीषु स्त्रीषु "सुधितः सुष्ठु निहितो वर्तते तद्वत् । स तादृशः "अग्निः "हविष्मद्भिः संभृतहविष्कैरत एव "जागृवद्भिः कर्मणि जागरूकैः "मनुष्येभिः मनुष्यैरस्माभिः "दिवेदिवे प्रत्यहमुत्पत्त्यर्थम् ईड्यः स्तुतिरूपाभिर्गीर्भिः स्तोतव्यः ॥ अरण्योः । ‘ऋ गतौ । ' अर्तिसृधृधमि' इत्यादिना अनिः । प्रत्ययस्वरः । निहितः। दधातेः कर्मणि निष्ठायां ‘ दधातेर्हिः ' इति हिरादेशः । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । सुधितः । दधातेः कर्मणि निष्ठा । तस्मिन् “ सुधित वसुधित° ' इत्यादिना निपातनात् धिरादेशः । दिवेदिवे । दिवु क्रीडादौ । इगुपधलक्षणः कः । ‘ नित्यवीप्सयोः' इति द्विर्वचनम् । तस्याम्रेडितत्वादनुदात्तत्वे पूर्वपदस्वरः । जागृवद्भिः । ‘ जागृ निद्राक्षये ' इत्यस्य क्वसौ रूपम् । ‘ द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम्' इति विकल्पितत्वात् द्विर्वचनाभावः । वसुस्रंसुध्वंस्वनडुहां दः ' (पा. सू. ८. २. ७२) इति वसोः सकारस्य दत्वम् । प्रत्ययस्वरः ॥
 
 
Line ८४ ⟶ ९०:
 
अरुषऽस्तूपः । रुशत् । अस्य । पाजः । इळायाः । पुत्रः । वयुने । अजनिष्ट ॥३
 
“चिकित्वान् ज्ञानवानध्वर्युस्त्वम् "उत्तानायाम् अधरारण्यामुत्तानशयायाम् उत्तरारणिम् "अव “भर अधोमुखां धारय । अनन्तरं सा अधरारणिः "सद्यः "प्रवीता तदानीमेव निषिक्तरेतस्का सती “वृषणं कामानां वर्षकमग्निं "जजान जनयतु । अथ “अस्य अग्नेः "रुशत् तमो विनाशयत् "पाजः तेजोमात्रं तत्राभूत्। अनन्तरम् "अरुषस्तूपः आरोचमानतेजःसंघोपेतः “इळायास्पुत्रः उत्तरवेद्या: उत्पन्नः अग्निः "वयुने अरण्यां योनिस्थाने "अजनिष्ट अजनि ॥ जजान । जन जनने '। लोडर्थे लिटि ‘ बहुलमन्यत्रापि संज्ञाछन्दसोः' इति णिलोपः । प्रत्ययान्तत्वाभावादाम्न भवति । निघातः ।। अरुषस्तूपः । न विद्यते रुषः क्रोधो यस्येत्यरुषः । क्रोधराहित्येन रोचमान इत्यर्थः । ‘ नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम् । ‘ ष्टुञ् स्तुतौ ' । ‘ स्तौतेर्दीर्घश्च ' ( उ. सू. ३. ३०५ ) इति पप्रत्ययः किञ्च धातोर्दीर्घश्च । स्तूयते इति स्तूपस्तेजःसंघः । अरुषः अरोचमानस्तेजःसंघो यस्येति बहुव्रीहौ पूर्वपदस्वर: । रुशत् । ‘रुश हिंसायाम् ' । शतरि रूपम् । वयुने । ‘ अज गतिक्षेपणयोः । ‘ अजियमिशीङ्भ्यश्च ' इत्युनन् चित्संज्ञकः । अजति वीयते वा वयुनमङ्गम् । प्रत्ययस्य व्यत्ययेनाद्युदात्तत्वम् । अजनिष्ट । जनी प्रादुर्भावे । लुङि सिचि रूपम् । निघातः ॥
 
 
Line ९७ ⟶ १०५:
 
जातऽवेदः । नि । धीमहि । अग्ने । हव्याय । वोळ्हवे ॥४
 
“जातवेदः जातप्रज्ञ हे "अग्ने अध्वर्य्वादयः “वयं "पृथिव्याः "अधि भूमेरुपरि उत्तरवेद्यां "नाभा नाभौ तस्या नाभिस्थाने मध्यप्रदेशे । तदेव स्थान विशेष्यते । “इळायाः "पदे मानव्या इडाया गोः पदे इडापदरूपे उत्तरवेद्यात्मके स्थाने “त्वा त्वां “हव्याय “वोळ्हवे पुरोडाशादिलक्षणं हविर्वोढुं “नि “धीमहि निदधीमहि । उक्तार्थे ब्राह्मण -- ‘ इळायास्त्वा पदे वयं नाभा पृथिव्या अधीत्येतद्वा इळायास्पदं यदुत्तरवेदीनाभिर्जातवेदो नि धीमहीति निधास्यन्तो ह्येनं भवन्त्यग्ने हव्याय वोळ्हव इति हव्यं हि वक्ष्यन्भवति ' ( ऐ. ब्रा. १. २८ ) इति ॥ नाभा । ‘ णह बन्धने '। 'इञ् ' इत्यनुवृत्तौ ‘ नहो भश्च ' इति इञ् भकारश्चान्तादेशः । ञित्त्वादुपधावृद्धिः । नह्यतीति नाभिर्मध्यस्थानम् । ' सुपां सुलुक्° ' इति सप्तम्या डादेशः । ञित्स्वरः । धीमहि । दधातेर्लिङि रूपम् । ‘ लिङः । सीयुट्' (पा. सू. ३. ४. १०२ ) इति सीयुट् । द्विर्वचनाभावश्छान्दसः । निघातः । वोळ्हवे । ‘ वह प्रापणे '। तुमर्थे तवेन् । 'सहिवहोरोदवर्णस्य' इति धात्वकारस्यौत्वम् । ढत्वधत्वष्टुत्वढलोपाः ।। नित्त्वादाद्युदात्तः ॥
 
 
Line ११० ⟶ १२०:
 
यज्ञस्य । केतुम् । प्रथमम् । पुरस्तात् । अग्निम् । नरः । जनयत । सुऽशेवम् ॥५
 
“नरः कर्मणां नेतारो हे अध्वर्य्वादयः "कविं क्रान्तदर्शिनम् "अद्वयन्तं द्वयमनाचरन्तमद्वैतं कुर्वाणं मनसा वाचा च एकविधमेव कर्म कुर्वाणमत एव “प्रचेतसं प्रकृष्टज्ञानोपेतम् "अमृतं मरणधर्मरहितं "सुप्रतीकं शोभनैरङ्गैर्ज्वालाभिः समेतं तमिमम् "अग्निं "मन्थत मन्थनेन निष्पादयत । किंच। हे "नरः कर्मणां नेतारः अध्वर्य्वादयः यूयं "यज्ञस्य ज्योतिष्टोमादेः "केतुं प्रज्ञापकं "प्रथमं मुख्याङ्गभूतम् । अग्निपूर्वकत्वात् सर्वेषामुत्तरक्रतूनाम् । "सुशेवं शोभनसुखोपेतं तादृशमग्निं “पुरस्तात् कर्मणः प्रारंभे "जनयत । तमिममग्निमेवंविधगुणयुक्तं कुरुतेति भावः । मन्थत ।' मन्थ विलोडने ' । लोटि रूपम् । पादादित्वादनिघातः । नरः । ‘ णीञ् प्रापणे । ‘ नयतेर्डिच्च' ( उ. सू. २. २५७ ) इति ऋप्रत्ययः । डित्त्वाट्टिलोपः । नयन्ति कर्माणि नीयन्ते कर्माण्येभिरिति वा नरः । आमन्त्रितत्वात् निघातः । अद्वयन्तम् । द्वयमिवाचरतीत्यर्थे ' सर्व प्रातिपदिकेभ्यः क्विब्वक्तव्यः' इत्याचारार्थे क्विप् । द्वयति । तस्य शतरि रूपं द्वयन्निति । न द्वयन्नद्वयन् । तम् । तत्पुरुषे नञ्स्वरः । सुप्रतीकम् । बहुव्रीहौ ‘ क्रत्वादयश्च ' इत्युत्तरपदाद्युदात्तत्वम् । जनयत । जनी प्रादुर्भावे ' । णिच् । अत उपधायाः इति वृद्धौ प्राप्तायां ‘जनीजॄष्क्नसुरञ्जोऽमन्ताश्च' इति मिद्वद्भावात् ‘मितां ह्रस्वः' इति ह्रस्वः । निघातः । सुशेवम् । शेवशब्दो वन्प्रत्ययान्त आद्युदात्तः । बहुव्रीहौ ‘आद्युदात्तं द्व्यच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् ॥ ॥ ३२ ॥
 
 
Line १२३ ⟶ १३५:
 
चित्रः । न । यामन् । अश्विनोः । अनिऽवृतः । परि । वृणक्ति । अश्मनः । तृणा । दहन् ॥६
 
"यदि अध्वर्य्वादयः "बाहुभिः स्वकीयैर्हस्तैरग्निं "मन्थन्ति मथ्नन्ति ततः स जातोऽग्निः “वनेषु काष्ठेषु “वाजी शीघ्रगमनवान् "अरुषः आरोचमानः सर्वेषां प्रीतिकरः सन “आ “वि “रोचते आ समन्ताद्विशेषेण दीप्यते । तत्र दृष्टान्तः । "अश्वो "न इति । यथाश्वो वनेषु वननीयेषु वाह्यालीस्थानेषु वेगवानारोचमानो वर्तते तद्वत् । तत्रैव दृष्टान्तान्तरम् । "चित्रो "न इति । यथा "यामन् यामनि वेगगमने ”अश्विनोः देवभिषजोः चित्रो नानाविधवर्णः रथः आरोचमानो वर्तते तद्वत् । "अनिवृतः केनाप्यप्रतिबद्धगमनः सोऽयमग्निः "अश्मनः उपलान् "तृणा तृणानि च "दहन् भस्मसात्कुर्वन् "परि “वृणक्ति दग्धस्थानानि परितो वर्जयति । तादृशोऽग्निरारोचते इति पूर्वेणान्वयः। मन्थन्ति । ‘मन्थ विलोडने '। लटि रूपम्। यदियोगादनिघातः । रोचते। ‘रुच दीप्तौ । भौवादिकः । लटि रूपम् । निघातः । यामन् । ' या प्रापणे '। ' आतो मनिन्क्वनिब्वनिपश्च' इति मनिन् । ‘सुपां सुलुक्' इत्यादिना सप्तम्या लुक् । नित्स्वरः । अनिवृतः । वृञ् वरणे'। निष्ठायां यस्य विभाषा' इतीट्प्रतिषेधः । निपूर्वो वृणोतिर्निवारणे वर्तते । न निवृतोऽनिवृतः । नञ्स्वरः । वृणक्ति । ‘ वृजी वर्जने' । रुधादिः । ‘ चोः कुः' इति कुत्वम् । निघातः । तृणा । ' तृह हिंसायाम्'।' तृहेः क्नो हलोपश्च' ( उ. सू. ५. ६८६ ) इति क्नः । कित्त्वादगुणः हलोपश्च । तृह्यते तद्गवादिभिरिति तृणम् । नित्स्वरः ।।
 
 
Line १३६ ⟶ १५०:
 
यम् । देवासः । ईड्यम् । विश्वऽविदम् । हव्यऽवाहम् । अदधुः । अध्वरेषु ॥७
 
“जातः मन्थनानन्तरमुत्पन्नः स च "चेकितानः सर्वं जानानः सन् “वाजी सततगमनस्वभावः “विप्रः कर्माभिज्ञः अत एव “कविशस्तः कविभिर्मेधाविभिर्होतृभिः स्तुतः सुदानुः सुष्ठु कर्मफलस्य दाता एवंविधः "अग्निः "रोचते दीप्यते । "देवासः देवाः इन्द्रादयः “ईड्यं होत्रादिभिः स्तुत्यं “विश्वविदं सर्वस्य जगतो वेदितारं "यम् अग्निम् "अध्वरेषु ज्योतिष्टोमादियज्ञेषु "हव्यवाहं हव्यानां वोढारम् "अदधुः व्यदधुः सोऽग्निर्दीप्यते इति पूर्वेणान्वयः ।। चेकितानः । ‘ कित ज्ञाने' इत्यस्य यङ्लुकि ' गुणो यङ्लुकोः ' इति अभ्यासस्य गुणः । ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । कविशस्तः । थाथघञ्ताणःजबित्रकाणाम्' इत्यन्तोदात्तत्वम् । अदधुः । दधातेर्लङि झेः 'सिजभ्यस्तविदिभ्यश्च ' इति जुस् । यद्वृत्तयोगादनिघातः । अडागमस्वरः ॥
 
 
Line १४९ ⟶ १६५:
 
देवऽअवीः । देवान् । हविषा । यजासि । अग्ने । बृहत् । यजमाने । वयः । धाः ॥८
 
यजमानो ब्रूते । “होतः होमनिष्पादक हे "अग्ने "स्वे स्वकीये “लोके उत्तरवेद्याः नाभौ "सीद “उ त्वं होमनिमित्तम् उपविशैव । तथा “चिकित्वान् ज्ञानवांस्त्वं "सुकृतस्य सुकृतजन्योपभोगस्य "योनौ स्थाने उत्तमलोके "यज्ञं यज्ञस्य कर्तारं यजमानं "सादय स्थापय । किंच “देवावीः । देवान् हविष्प्रदानेन अवतीति देवावीः । तादृशस्त्वं "हविषा पुरोडाशादिलक्षणेन हव्येन “देवान् "यजासि यज । अथ त्वं "यजमानं यागं कुर्वाणे मयि “बृहत् प्रभूतं पशुपुत्रादिसमेतं “वयः अन्नं “धाः विधेहि ॥ सीद । सदेर्लोटि रूपम् । सादय । सदेर्ण्यन्तस्य लोटि रूपम् । णिच्व्परः । देवावीः । अव रक्षणादिषु ।' अवितॄस्तृतन्त्रिभ्य ईः' इति ईप्रत्ययः । कृदुत्तरपदस्वरः । यजासि । यजेर्लेटि आडागमः । धाः । दधातेः छान्दसे लुङि रूपम् ॥
 
 
Line १६२ ⟶ १८०:
 
अयम् । अग्निः । पृतनाषाट् । सुऽवीरः । येन । देवासः । असहन्त । दस्यून् ॥९
 
यजमानोऽध्वर्य्वादीन्प्रति ब्रूते । हे "सखायः कर्मसहकारिणः यूयं "वृषणं कामानां वर्षितारं "धूमम् । धुनोति कम्पयतीति धूमोऽग्निः। एवंविधम् अग्निं "कृणोत कुरुत । मथनेन उत्पादयत । यद्यग्निर्न जायते तदानीमाह । “अस्रेधन्तः अक्षीणा अनुपरतसामर्थ्याः सन्तो यूयं "वाजं मथनलक्षणं युद्धम् "अच्छ अग्न्याभिमुख्येन “इतन प्राप्नुत । "सुवीरः शोभनसामर्थ्योपेतः "अयमग्निः पृतनाषाट् पृतनोपलक्षितं युद्धं सहमानो भवति । "येन युद्धं सहमानेनाग्निना "देवासः देवाः "दस्यून् उपक्षपयितॄनसुरान् “असहन्त अभ्यभवन् । तस्मादक्षीणबला यूयं मथनं कुरुतेति भावः ॥ कृणोत ।' कृवि हिंसाकरणयोः' । लोटि तप्रत्ययस्य ' तप्तनप्तनथनाश्च ' इति तबादेशः । पित्त्वाद्गुणः । पादादित्वादनिघातः । उप्रत्ययस्वरः । धूमम् । ‘ धूञ् कम्पने० ' । ' इषियुधीन्धिदसि ' इत्यादिना मक् । कित्त्वाद्गुणाभावः । धुनोति कम्पयति दाह्यानीति धूमोऽग्निः । प्रत्ययस्वरः । इतन । इण् गतौ ' इत्यस्य लोटि तप्रत्ययस्य तनादेशः । निघातः । पृतनाषाट् । ‘ षह मर्षणे '। ‘ छन्दसि सहः' इति ण्विः । णित्त्वादुपधावृद्धिः ।' सहेः साडः सः' इति षत्वम् । कृदुत्तरपदस्वरः । असहन्त । ‘ षह मर्षणे ' इत्यस्य लङि रूपम् । यद्योगादनिघातः । दस्यून् ।' दसु उपक्षये '।' यजिमनिशुन्धिदसिजनिभ्यो युच्' इति युच् । दस्यन्तीति दस्यवः शत्रवः । व्यत्ययेनाद्युदात्तत्वम् ॥
 
 
Line १७५ ⟶ १९५:
 
तम् । जानन् । अग्ने । आ । सीद । अथ । नः । वर्धय । गिरः ॥१०
 
हे "अग्ने “ऋत्वियः वसन्ताद्यृतौ भवः "अयम् अङ्गुल्या निर्दिश्यमानः पलाशाश्वत्थादिमयः काष्ठविशेषोऽरणिः “ते तव "योनिः उत्पत्तिस्थानं "यतः अरणेः "जातः त्वम् "अरोचथाः अशोभथाः । “जानन त्वं “तम् अरणिरूपं काष्ठविशेषम् “आ “सीद । तस्यामरण्यामारोपितः सन् नैरन्तयेंण तिष्ठ । "अथ अनन्तरं “नः अस्माकं "गिरः स्तुतिलक्षणा वाचः "वर्धय । यद्वा गीःशब्देन तद्वन्तो लक्ष्यन्ते । तथा स्तोतॄनस्मान् वर्धय । पशुपुत्रादिभिः समृद्धान् कुरु ॥ योनिः । ‘ यु मिश्रणे ' । ‘ वहिश्रि ' इत्यादिना निप्रत्ययः । ‘ नित ' इत्युक्तत्वादाद्युदात्तः । ऋत्वियः । 'छन्दसि घस्' ( पा. सू. ५, १. १०६ ) इति ऋतुशब्दात् प्राप्तार्थे घस्प्रत्ययः । घस्य इयादेशः । ‘ सिति इति पदसंज्ञायाम् ' ओर्गुणः' ( पा. सू. ६. ४. १४६ ) इति भसंज्ञाधीनो गुणो न भवति । प्रत्ययस्वरः । अरोचथाः । रुच दीप्तौ ' इत्यस्य लङि रूपम् । यद्वृत्तयोगादनिघातः । सीद । सदेर्लोटि • पाघ्रा° ' इत्यादिना सीदादेशः । निघातः । अथा। ' निपातस्य च ' इति सांहितिको दीर्घः । वर्धय । ' वृधु वर्धने ' । हेतुमति णिच् । निघातः ॥ ॥ ३३ ॥
 
 
Line १८८ ⟶ २१०:
 
मातरिश्वा । यत् । अमिमीत । मातरि । वातस्य । सर्गः । अभवत् । सरीमणि ॥११
 
योऽग्निर्यदा "गर्भः अरणीषु गर्भरूपतया वर्तते तदा सोऽग्निः "तनूनपादुच्यते । यष्टॄणां तनूः शरीराणि न पातयति न दहतीति व्युत्पत्तेः । यद्वा तनूशब्देनापोऽभिधीयन्ते नपाच्छब्देनैकान्तरिताः प्रजाः । तथा च अपां नप्ता । कथमेतत्। आपस्तता अन्तरिक्षे । ताभ्य ओषधिवनस्पतयो जायन्ते । तेभ्यो ह्येष इति । "यत् यदा "विजायते विशेषेण प्रत्यक्षतया जायते तदा "आसुरः कर्मविघ्नकारिणामसुराणां हन्ता अत एव “नराशंसः नरैः कर्मणां नेतृभिरध्वर्य्वादिभिः शंसनीयो “भवति । "यत् यदा “मातरि अन्तरिक्षे स्वं तेजः "अमिमीत निर्मिमीते तदा "मातरिश्वा भवति । मातरि अन्तरिक्षे श्वसिति चेष्टते इति व्युत्पत्तेः । एवंविधस्याग्नेः "सरीमणि सरणे शीघ्रगमने “वातस्य वायोः "सर्गः सृष्टिः "अभवत् भवति । यदाग्निररणीषु गर्भरूपतया वर्तते तदा तनूनपान्नामको भवति । यदा जायते तदा नराशंसनामको भवति । यदान्तरिक्षे विद्योतते तदा मातरिश्वनामको भवतीति ॥ तनूनपात् ।' तनु विस्तारे । 'कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः' इति ऊप्रत्ययः । व्यत्ययेनाद्युदात्तः । नपात् । ‘पा रक्षणे ‘ पत्लृ गतौ ' वा ण्यन्तः। क्विप् । न पाति न पातयतीति वा नपात्। 'नभ्राण्नपान्नवेदा' इत्यादिना निपातनात् नञः प्रकृतिभावः। नञ्स्वरः। तनूर्न पातीति तनूनपात् । कृदुत्तरपदप्रकृतिस्वत्वे प्राप्ते ‘ उभे वनस्पत्यादिषु युगपत् ' इति उभयपदप्रकृतिस्वरत्वम् । आसुरः । असुरस्यायमासुरः । अहितकारित्वेन संबन्धी । तस्येदम्' इत्यण् । प्रत्ययस्वरः । नराशंसः। ‘नॄ नये'।' ऋदोरप्' इत्यप् । प्रत्ययस्य पित्त्वान्नरशब्द आद्युदात्तः । ‘ शंसु स्तुतौ ' इत्यस्मात् घञन्त आद्युदात्तः । नरशब्दस्य ‘ अन्येषामपि दृश्यते ' इति दीर्घः । वनस्पत्यादित्वादुभयोः प्रकृतिस्वरत्वम् । विजायते । जनी प्रादुर्भावे'। दिवादित्वात् श्यन् । धातुस्वरः । अमिमीत । • माङ् माने शब्दे च '। जुहोत्यादिः । ‘भृञामित्' इत्यभ्यासस्येत्वम् । यद्योगादनिघातः । सरीमणि । ‘ सृ गतौ ' । हृभृसृस्तृसूभ्यः ' ( उ. सू. ४. ५८७ ) इति ईमनिन्प्रत्ययः । नित्स्वरः ॥
 
 
Line २०१ ⟶ २२५:
 
अग्ने । सुऽअध्वरा । कृणु । देवान् । देवऽयते । यज ॥१२
 
हे "अग्ने "कविः मेधावी “सुनिर्मथा शोभनेन मन्थनेन "निर्मथितः नितरां मथितोऽसि । तथा “सुनिधा शोभनेन निधानेन “निहितः असि । उत्तरवेद्यादिस्थानेषु नितरां प्रक्षिप्तोऽसि । किंच "स्वध्वरा अस्माभिः क्रियमाणानि कर्माणि सुष्ठु हिंसारहितानि "कृणु कुरु । तथा “देवयते देवान्कामयमानाय यजमानाय “देवान् यजनीयानिन्द्रादीन् "यज पूजय ॥ सुनिर्मथा । मथे विलोडने ' । अस्मात् संपदादिलक्षणो भावे क्विप् । प्रादिसमासः । कृदुत्तरपदस्वरः । निर्मथितः । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वत्वम् । सुनिधा । निपूर्वस्य दधातेर्भावे ‘ आतश्चोपसर्गे' इत्यङ् । ‘सुपां सुलुक्° ' इति तृतीयाया लुक् । कृदुत्तरपदस्वरः । कृणु । ' कृवि हिंसाकरणयोः । इत्यस्य लोटि ‘धिन्विकृण्व्योः ' इत्युप्रत्ययः । ‘ उतश्च प्रत्ययात्° ' इति हेर्लुक् । निघातः ॥
 
 
Line २१४ ⟶ २४०:
 
दश । स्वसारः । अग्रुवः । सम्ऽईचीः । पुमांसम् । जातम् । अभि । सम् । रभन्ते ॥१३
 
“मर्त्यासः मर्त्याः ऋत्विज: “अमृतं मरणधर्मरहितम् अत एव "अस्रेमाणं क्षयरहितं वीळुजम्भं हविर्भक्षणार्थं दृढदन्तं "तरणिम् । तरन्ति यजमानाः पापमनेनेति तरणिरग्निः । तम् "अजीजनन् मन्थनेनोदपीपदम् । अथ “जातं तमग्निमभिलक्ष्य “स्वसारः सरन्त्यः “दश दशसंख्याकाः "अग्रुवः कर्मकरणार्थमग्रमङ्गन्तीति अगुवोऽङ्गुलयः । तादृशाः अङ्गुलयः "समीचीः परस्परं सङ्गताः सत्यः "सं “रभन्ते शब्दं कुर्वते । जातमग्निं दृष्ट्वाध्वर्य्वादयो हर्षाद्धस्तद्वयसंपुटेन' शब्दं कुर्वन्ति इत्यर्थः । तत्र दृष्टान्तः । "पुमांसम् इति । यथा जातं पुत्रमुपलभ्य तत्रत्याः पित्रादयो हर्षादुद्धोषन्ति तद्वत् ॥ अजीजनन् । जनी प्रादुर्भावे ' इत्यस्य ण्यन्तस्य लुङि चङि रूपम् । अस्रेमाणम्। स्त्रिवु गतिशोषणयोः । भावे ‘ मनिन् ' इति मनिन्प्रत्ययः । लघूपधगुणः । ‘ लोपो व्योर्वलि' इति वलोपः । बहुव्रीहौ ‘ नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । तरणिम् । तॄ प्लवनतरणयोः' ।' अर्तिसृधृधम्यम्यश्यवितॄभ्योऽनिः । इत्यनिप्रत्ययः । गुणः । प्रत्ययस्वरः । स्वसारः । ‘ असु क्षेपणे ' इत्यस्मात् ‘ सुञ्यसेर्ऋन् ' इति ऋन्प्रत्ययः । सुष्ठु अस्यन्ति कर्मसु पदार्थानिति स्वसारः । न षट्स्वस्रादिभ्यः ' इति ङीपः प्रतिषेधः । नित्त्वादाद्युदात्तः । अग्रुवः । ‘ अगि गतौ । जञ्वादयश्च ' ( उ.सू. ४.५४२ ) इति रुप्रत्ययः । निपातनान्नलोपः। जसि तन्वादित्वादुवङादेशः । प्रत्ययस्वरः । समीचीः । ‘ इण् गती' इत्यस्मात् 'समीणः ' ( उ. सू. ४. ५३२ ) इति चट्प्रत्ययो धातोर्दीर्घश्च । टित्त्वात्। ‘ टिड्ढाणञ्° 'इत्यादिना ङीप् । संयन्तीति समीच्यः । यद्वा संपूर्वस्याञ्चतेः क्विप् । “ समः समि' इति समि इत्यादेशः । ‘ अञ्चतेश्वोपसंख्यानम्' इति ङीप् । “ अचः' इत्यकारलोपः। चौ ' इति दीर्घः । ‘ वा छन्दसि ' इति पूर्वसवर्णदीर्घः । एकादेशस्वरः । पुमांसम् । ‘ पा रक्षणे' इत्यस्मात् ‘ पातेर्डुम्सुन्' ( उ. सू. ४. ६१७ ) इति डुम्सुन् प्रत्ययः । 'पुंसोऽसुङ्' ( पा. सू. ७, १. ८९ ) इत्यसुङादेशः । पाति कुलमिति पुमान् । नित्स्वरः । रभन्ते । ‘ रभ शब्दे' इत्यस्य लटि रूपम् । निघातः ॥
 
 
Line २२७ ⟶ २५५:
 
न । नि । मिषति । सुऽरणः । दिवेऽदिवे । यत् । असुरस्य । जठरात् । अजायत ॥१४
 
“सनकात् सनातनोऽग्निः "सप्तहोता । सप्त होतारो होत्रका यस्यासौ सप्तहोता सन् “प्र “अरोचत गार्हपत्यस्थानेऽदीप्यत । "यत् यदा "मातुः पृथिव्याः “उपस्थे उत्सङ्गे तत्रापि “ऊधनि ऊधःस्थाने उत्तरवेद्याम् "अशोचत अशोभत तदा सोऽग्निः "सुरणः । सुष्ठु रणयति शब्दयतीति सुरणः । सर्वैः कमनीयतया दृश्यमानः सन् “दिवेदिवे प्रतिदिनं “न “नि "मिषति न निद्राति । किंतु सर्वदा यज्ञार्थं जागर्त्येव । "यत् यस्मात् "असुरस्य अग्नेः प्रेरकस्यारणीरूपस्य काष्ठस्य "जठरात् उदरात् "अजायत कर्मार्थमुदपद्यत तस्मान्न निमिषतीति पूर्वेणान्वयः ॥ अरोचत । ‘ रुच दीप्तौ ' इत्यस्य लङि रूपम् । निघातः । अशोचत् । ‘ शुच दीप्तौ । ऊधनि । सकारस्य नकारश्छान्दसः । मिषति । ‘ मिषु सेचने ' इत्यस्य लटि रूपम् । सुरणः । ‘रण शब्दे '। ‘ तत्करोति° ' इति णिच् । तस्मात् अकृच्छ्रार्थे खल् । लित्स्वरः । असुरस्य । ‘ असु क्षेपणे ' इत्यस्मात् ' असेरुरन्' इत्युरन्प्रत्ययः । अस्यतीत्यसुरः । नित्स्वरः । जठरात् । ‘ जनी प्रादुर्भावे' इत्यस्मात् ‘ जनेररष्ठ च ' ( उ. सू. ५. ७१६ ) इत्यरप्रत्ययः ठकारश्चान्तादेशः । प्रत्ययस्वरः । अजायत । जनी प्रादुर्भावे ' इत्यस्य लङि श्यनि ‘ ज्ञाजनोर्जा ' इति धातोर्जादेशः । यद्योगादनिघातः ॥
 
 
Line २४० ⟶ २७०:
 
द्युम्नऽवत् । ब्रह्म । कुशिकासः । आ । ईरिरे । एकःऽएकः । दमे । अग्निम् । सम् । ईधिरे ॥१५
 
"अमित्रायुधः अमित्रैः कर्मविघ्नकारिभिरसुरैः सह योद्धारः । यद्वा अमित्राणि पापानि । तैः सह योद्धारः । तत्र दृष्टान्तः । "मरुतामिव "प्रयाः इति । यथा मरुतां देवानां प्रयाः प्रकर्षेण शत्रूनभियान्तीति प्रया बलानि शत्रूणां हन्तॄणि तद्वत्कर्मविघ्नकारिणां पापानां च हन्तारः “ब्रह्मणः सर्वस्य जगतः स्रष्टुः "प्रथमजाः प्रथममुत्पन्नाः "कुशिकासः कुशिकगोत्रोत्पन्ना ऋषयः "विश्वं स्थावरजङ्गमात्मकं सर्वं जगत् "विदुः "इत् जानन्त्येव । तेऽमी कुशिकाः “द्युम्नवत् हविर्युक्तं “ब्रह्म स्तोत्रम् “एरिरे । अग्नये अ समन्तात्प्रेरयन्ति । ते च "दमे स्वे स्वे गृहे “एकएकः एकैकः भूत्वा
"अग्निं "समीधिरे आज्याद्याहुतिभिः सम्यग्दीपयन्ति । अमित्रायुधः । ‘ युध संप्रहारे । क्विप् । कृदुत्तरपदस्वरः। संहितायां पूर्वपदस्य दीर्घश्छान्दसः । प्रयाः । ‘ या प्रापणे' । 'अन्येभ्योऽपि दृश्यन्ते' इति विच् । प्रथमजाः ।' जनी प्रादुर्भावे'।' जनसन' इत्यादिना विट् । 'विड्वनोः । इत्यात्वम् । विदुः । विदेर्लटि ‘ विदो लटो वा' इति झेः उसादेशः । ईरिरे । ' ईर गतौ ' इत्यस्य लिटि रूपम् । मन्त्रत्वादाम्न भवति । दमे ।' दमु उपशमने '। करणे घञ् ।' नोदात्तोपदेशस्य इति वृद्धिप्रतिषेधः । ञित्स्वरः । ईधिरे । ' ञिइन्धी दीप्तौ ' इत्यस्य लिटि इन्धिभवतिभ्यां च' इति किद्वद्भावान्नकारलोपः । निघातः ॥
 
 
Line २५४ ⟶ २८७:
ध्रुवम् । अयाः । ध्रुवम् । उत । अशमिष्ठाः । प्रऽजानन् । विद्वान् । उप । याहि । सोमम् ॥१६
 
“होतः होमनिष्पादक "चिकित्वः कर्मविषयज्ञानवन् हे अग्ने "अद्य इदानीं "प्रयति प्रवर्तमाने "अस्मिन् ज्योतिष्टोमादौ "यज्ञे “त्वा त्वां "यत् यस्मात् कारणात् "अवृणीमहि त्वद्विषयं वरणमकुर्म तस्मात्तादृशस्त्वम् "इह कर्मणि देवान् “ध्रुवमयाः ध्रुवं यथा भवति तथास्माभिर्दत्तानि हवींषि प्रापय" । “उत अपि च "अशमिष्ठाः हविःस्वीकरणात्तृप्तैर्देवैः शान्तस्त्वमकारिष्टाः । अथ “प्रजानन् इमं यज्ञं सम्यक् जानन "विद्वान् यत्किञ्चित्सर्वं जानानस्त्वं "सोमम् अस्माभिः क्रियमाणमिममभिषुतं सोममभिलक्ष्य "उप "याहि समीपे आगच्छ ॥ प्रयति । ‘इण् गतौ ' इत्यस्य शतरि रूपम् । ‘शतुरनुमः' इति विभक्तेरुदात्तत्वम् । अवृणीमहि । ' वृञ् वरणे । क्र्यादित्वात् श्ना । लङि उत्तमबहुवचने ‘ई हल्यघोः' इति ईत्वम् । आमन्त्रितस्याविद्यमानवत्त्वेन पादादित्वात् अनिघातः । अयाः । ' या प्रापणे ' इत्यस्य लङि सिपि रूपम् । निघातः । अशमिष्ठाः । ‘शमु उपशमने ' इत्यस्य ण्यन्तस्य कर्मणि' लुङि ' स्यसिच्सीयुट्' (पा. सू. ६. ४. ६२ ) इति विकल्पेन इडागमः । तस्यासिद्धत्वात् ' णेरनिटि ' इति णिलोपः । निघातः । प्रजानन् । “ ज्ञा अवबोधने' । शतरि रूपम् । याहि । यातेर्लोटि रूपम् ॥ ॥ ३४ ॥ ॥ २ ॥
 
 
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
 
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ।।
 
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिता
भाष्ये तृतीयाष्टके प्रथमोऽध्यायः समाप्तः ।।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.२९" इत्यस्माद् प्रतिप्राप्तम्