"आर्षेयकल्पः/उपोद्घातः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३७:
अथातिथ्यायां प्रधानयागकाले प्रेष्ठं वः ( सा० १२४४-४६) इत्यौशनं तृचे प्रस्तोता गायेत् । उशना गायत्र्यग्निः । तस्यां संस्थितायां
प्रतिहर्तारं त्वा वृण इति यजमानेन वृतः प्रतिहर्तेतरे च तानूनप्त्रमाज्य- मवमृश्य हविरसीति सुवितेमा धा ( ला० श्रौ० ५.६.६, वा.सं. ५.५) इत्यन्तं जपेयुः । मदन्तीरप ठपस्पृश्यांशुरंशुष्ट इत्यशीय ( वा.सं. ५.७, ला० श्रौ० ५.६.८) इत्यन्तेन राजानं हिरण्यमन्त- र्धायाभिमृशेयुः । एतदाप्यायनम् । दर्भमये प्रस्तरे दक्षिणं पाणिमुत्तानं कृत्वा तदुपरि सव्य न्यञ्चमेष्टाराय इति पृथिव्या ( ला० श्रौ० ५.६.९) इत्यन्तेन निह्नुवीरन् । निह्नवनं नाम द्यावापृथिव्योर्नमस्कारः । एतत्तानूनप्त्रस्पर्शादिक सूत्रकारेण यद्यपि ब्रह्मत्वप्रकरणे विहितं तथाप्यव- मृशन्तो जपेयुरित्यादिषु बहुवचननिर्देशात् उद्गातृभिरपि कर्तव्यम् । अन्ये त्वाहुः-यद्येतदुद्गातृभिरपि कर्तव्यमभविष्यत् तदा औद्गात्रप्रकरणे एवोक्त्वा ब्रह्मत्वेऽत्यदेक्ष्यत् । यथा सुत्यायां ब्रह्मणः प्राक् सुब्रह्मण्याया औद्गात्रेण समानं कर्मेति न च तथा कृतम् । ब्रह्मत्वप्रकरणे बहुवचननिर्देशे उद्रातृभ्योऽन्यानवार्त्विजोऽभिप्रेत्य दृश्यते । यथा तस्मिन् उपस्पृशेयुर् ( ला० श्रौ० ५.६.७) इति । तस्मान्न कर्तव्यमेव तानूनप्त्रस्पर्शादिकमुद्गातृभिरिति ।
अथ सुब्रह्मण्यः पत्नीशालायां दक्षिणस्य द्वारबाहोः पुरस्तात् सौमिकवेद्यन्तप्रदेशे तिष्ठन् यजमानेन पत्न्या चान्वारब्धो दक्षिणेनोत्क्रम्य ब्रह्मणि तिष्ठति सुब्रह्मण्यामुच्चैराह्वयेत् । आदित्यः संपादिन्द्र इति ऋष्यादयः । सुब्रह्मण्योमित्योंकारं प्लावयन् त्रिरुक्त्वोत्तमेन वचनेन सहइन्द्रागच्छेत्यादि ब्रुवाण( ला० श्रौ० ३.१.२) इत्यन्तं निगदं ब्रूयात् । पूर्वयोः प्रणवान्तयोः विरमेत् । मेने ब्रुवाणेति च । त्र्यहे सुत्यामागच्छ मघवन् देवा ब्रह्माण आगच्छतागच्छत(ला० श्रौ० १.३.३-७)इति निगदशेषं ब्रूयात् । एतावदहे सुत्यामिति यावदहे स्याद् ला०श्रौ० १.३.१) इति वचनात् । इदानीं त्र्यहे सुत्यामितिवचनम् । ठत्तरष्वहस्सु द्व्यहे श्वोऽद्येति द्रष्टव्यम् । उप- वसथ्येऽहनि श्वःसुत्यामितिवचनम् । तस्यान्ते श्वः सुत्या गौतमस्य (ला० श्रौ० १.४. १३) इति लिङ्गात् । धानंजय्यमते मघवन्नित्येतन्नास्ति । गौतममते त्वागच्छेत्येतदपि । पूर्वोक्तं चेति ( एवेति?) स्वमतम् । आगच्छ मघवन्निति एकवचनात् इत्यहे सुत्यामागच्छ मघवन् (ष० ब्रा० १.१ .२६) इति षड्विंशब्राह्मणाच्च तस्यैव तु प्रायेणाचारः । तत्र त्र्यहादयः शब्दा अन्तो दात्ताः । शेषाणां सूत्रपठित एव स्वरः । महाभाष्यकारश्चाह सुब्रह्मण्यायामोंकार उदात्तः । सुब्रह्मण्योम् । वाक्यादौ च द्वे द्वे । आकार आख्याते परादिश्च । इन्द्रागच्छ हरिव आगच्छ मघवन्वर्जम् । आगच्छ मघवन् सुप्यापराणामन्तर्द्व्यहे सुत्यां त्र्यहे सुत्याम् ( म० भा० १.२. ३७.१) इति । सुत्याशब्दस्तु संज्ञायां समज (पा० ३.३.९९) इत्यादिना अन्तोदात्तो व्याख्यातः । देवा ब्रह्माण इत्यनयोः वाक्यादौ द्वे द्वे इत्येतन्न प्रवर्तते । देवब्रह्मणोरनुदात्त (पा० १.२.३८) इति द्वितीयस्यानुदात्तवचनात् । अनुदात्तं पदमेकवर्जम् (पा० ६. १.१५८) इति शिष्टं सर्वमनुदात्तम् । एवं सुब्रह्मण्यां त्रिराहूय सासि सुब्रह्मणे (ष० ब्रा० १.२.९) इत्यादीनि षड्विंशब्राह्मणोक्तानि सप्त पदानि यजमानं वाचयित्वाप उपस्पृशेत् । एतच्च यजमानवाचनं यजुर्वेदे अध्वर्युकर्तृकतया विहितम् । षड्विंशे च सुब्रह्मण्यकर्तृकतयेति द्वयमप्याचर्यते । प्रत्याह्वानं वाचनसुपस्पशर्नं चेति केचित् । सुब्रह्मण्योपह्वयस्वेति यजमानवचनोक्त उपहवः । ततः प्रतिगृह्य ठपहूतउपहूत इत्यनुब्रूयात् । एवं पत्न्याप्युक्ते उपहूतेऽत्यनुज्ञाय यथार्थं स्यात् । ठपस्पर्शनोपहवौउपस्पर्शनोपहवौ शिष्टाचारादुक्तौ । इयं सुब्रह्मण्या अध्वर्युसंप्रैषाभावेऽपि कार्येति केचिदाहुः । तत्र प्रमाणं मृग्यम् ।।
 
[ प्रवर्ग्यसामगानम्]</span></poem>
पङ्क्तिः ४८:
[[File:प्रवर्ग्यसाम १८ Pravargya18.ogg|thumb|प्रवर्ग्यसाम १८ Pravargya18]]
 
<poem><span style="font-size: 14pt; line-height: 200%">अथ प्रस्तोता प्रेषितः पूर्ववत् पश्चात्गार्हपत्यस्योपविश्य प्रवर्ग्य- सामानिप्रवर्ग्यसामानि गायेत् । जैमिनिश्चाह-पश्चिमेन होतारं परीत्य दक्षिणतो घर्माभि- मुखघर्माभिमुखं उपविश्य गायेत ( जै० श्रौ० २३.२ ) इति । तत्र यदा देवस्त्वा सविता मध्वानक्तु (वा० सं० ६.२) इति महावीरमञ्जन्ति तदा हावांज (ग्रा० गे० २६.९.५६४ ३) इति शार्ङ्गं त्रिर्गायेन् । कक्षीवान् ऋषिः । जगती छन्दः । घर्मो देवता । सर्वेषां प्रवर्ग्यसाम्नां घर्मो देवता । रजतो- पधानकालेरजतोपधानकाले कशुक्रंनियुत्वा (आ० गा० ३.६.१४८) इति शुक्रं गायेत् । प्रजापतिर्गायत्री घर्मः । प्रज्वलनकाले कप्रसोमदेववीतय (आ० गा० २.२.१०४-५) इति । घर्मस्य तन्वौ घर्मः प्रजापतिः बृहती । जात- रूपोपधानकाले चन्द्रमत्राह (आ० गा० ३.६.१४९) इति । चन्द्रः । प्रजा- पतिगार्यत्री । अथ केचिदाहुः-आभिरूप्यात् कर्तव्यानीत्येके(ला० श्रौ० १.६.१६) इति सूत्रकारेण परिसाम्नां ब्राह्मणविधानाभावेऽपि आभिरूप्यात् गानं विहितम् । तच्चाभिरूप्यमन्येषामप्यभिरूपाणां साम्नाम् अविशिष्टमिति चन्द्रादनन्तरमवसरे सत्यन्यान्यपि घर्मलिङ्गानि सामानि गायेत् । तद्यथा ओं कायमान ( आ० गा० ६.१.२ १४) इति महावैश्वानरव्रतम् । वैश्वानरो बृहती । कसहो भ्राज (आ० गा० ६.२.२७४) इति इन्द्रस्य च सधस्थम् । इन्द्रस्त्रिष्टुप् । विष्णोस्त्रीणि स्वरीयांसि पञ्चानुगानं द्व्यनुगानं चतुरनुगानं च (आ० ब्रा० ६.२.७. ३-४) इति । विष्णुस्त्रिष्टुप् । एवमन्यान्यपि घर्मलिङ्गानि द्रष्टव्यानि । वयं तु तेषामन्येषामिव परिसाम्नां सूत्रे प्रतिपादनविध्यभावात् प्रतिहारे अनुपादानाच्च न कर्तव्यं गानमित्यवोचाम । रुचितो - घर्म इत्युक्ते उद्यँल्लोकमरोचय (आ० गा० २७९) इति घर्मरोचनं गायेत् । घर्मोऽ- नुष्टुप् । अथ अपश्यं गोपाम् ( गर्भो देवानाम्?) इत्यनुवाकेन तिष्ठन् घर्ममवेक्षेत । रुचितो घर्म इत्युक्तेऽनुवाकेन तिष्ठन्तोऽवेक्षेरन् । यमध्वर्युर्ब्रूयाद् (ला० श्रौ० ५.७.२ ) इति । ब्रह्मत्वे बहुवचनेन विधानादिति केचित् । तद- प्यौद्गात्रप्रकरणेतदप्यौद्गात्रप्रकरणे विहितं न भवतीति तानूनप्त्रस्पर्शादिवन्न कर्तव्य- मित्यन्ये । गङ्ग एहीत्युक्त्वा यदा धेनुमवसृजन्ति तदा कोहा स्वादिष्टया (आ० गा० ११८) इति धेनुसाम गायेत् । प्रजापतिगार्यत्री । तस्य सामान्तवद्वान्तं स्तोभमुक्त्वा भुवत् । इडेति देवतापदं स्वादिष्ठयेति ऋक्पादं च ब्रूयात् । एवं द्वितीयं देवतापदं ऋक्पादं च । तथा तृतीयम् । पुनश्च वान्तं स्तोभमुक्त्वा करदिडेत्यादि ब्रूयादित्येकः पक्षः । अन्यत्तु पक्षद्वयं सूत्रोक्तं विस्तरभयान्न लिखितम् । यदा पय आहरन्ति तदा इयोइया अग्ने युङ्क्ष्वा (आ० गा० ११९) इति पयो गायेत् । प्रजापतिगार्यत्री । आसेचनकाले आ त्वा विशन्त्विन्दव (ग्रा० ५.९.१९७.१) इति सिन्धुषाम । सिन्धुगार्यत्री । शफाभ्यां परि- ग्रहणकाले हाउप्राथा ( आ० गा० १४६-१४७) इति वसिष्ठस्य शफौ । बसिष्ठस्त्रिष्टुप् । ह्रीयमाणे घर्मे कहिं इन्द्रन्नर० (आ० गा० ९४-९५) व्रतपक्षौ । प्रजापतिस्त्रिष्टुप् । पूर्वरौहिणपुरोडाशाचरणकाले हिम् इन्द्रन्नर (आ० गा० २०५) इति राजनम् । इन्द्रस्त्रिष्टुप् । हुते घर्मे होइहा इमाउवां (आ० गा० १८१-२) इत्यश्विनोर्व्रते । अश्विनौ बृहती । उत्तर० रौहिणाचरणकाले काइही इन्द्रन्नर (आ० गा० २०६) इति रौहिणम् । इन्द्रस्त्रिष्टुप् । घर्मोपकरणानि सम्राडासन्द्यां समारोपयन्ति । तदा इत एत (ग्रा० ३.१०.९२.१) इति आरूढवदाङ्गिरसं त्रिर्गायेत् । ऊपा- स्थाने सुवा इति निधनम् ।। अङ्गिरसोऽनुष्टुप् । शार्ङ्गारूढवदाङ्गिरसे वा त्रिरभ्यस्येत् । अन्तरा पराचे(द्रा० श्रौ० २.१.३)तिवचनात् । प्रवर्ग्यसाम्ना- माद्यन्तयोस्त्रिर्गानमुक्तम् । इतरेषां सकृत् । एतानि सामानि प्रति- प्रवर्ग्यं गायेत् । सर्वेषूपसदन्तेषु आतिथ्यान्तवत्सोमाप्यायनं निह्नवनं सुब्रह्मण्याह्वानं च कार्यम् । अपराह्णे निह्नवने सव्यं पाणिमुत्तानं दक्षिणं न्यञ्चं कृत्वेति विशेषः । प्रवर्ग्योद्वासनकाले प्रस्तोता सम्राडा- सन्दीमुत्तरेण गत्वा पश्चात्तिष्ठन् अध्वर्युप्रेषितः त्यग्नाइर् (ग्रा० १२.१२. ४६५.४) इति प्रवर्ग्यसाम गायेत् । स्तोभान् प्रतिपदमुक्त्वा निधनायैव- वाइ इति ब्रूयात् । ए विश्वमित्यादि (दीनि ?) त्रीणि निधनानि मन्द्रस्वरान्तं कर्षन्तो घर्मोपयुक्ताः सर्वे पत्नी च ब्रूयुः । बृहस्पतिरत्यष्टिरग्निः । एवं मध्ये आहवनीयस्थाने च गायेत् । तत्रास्य स्थानत्रये सकृत् सकृद्गाने समुदायसिद्धं त्रिर्गानम् । न तु प्रतिस्थानं त्रिर्गानम् । तथा च तस्यां त्रिवृद्यथा प्रथमस्य प्रवर्ग्यसाम्नः इति प्रवर्ग्यसाम्नः प्रयोगे अवभृथसाम्नोऽतिदिष्टे तस्य त्रिर्वचने एकविंशतिः पदानि (ष० विं० ३.४.२०) इति श्रुत्युक्तमेकविंशतिपदत्वं तस्योपपद्यते । नान्यथा । परिषिच्यमाने च आहवनीये परिषेकजलमुपस्पृश्य अचिक्रदद्- (ग्रा० १४.४.४९७.१) वार्षाहरं त्रिर्गायेत् । वृषाहरिर्गायत्री सूर्यः । परिषिक्ते इष्टाहोत्रीयं (ग्रा० ४. ४.१५१.१) त्रिर्गायेत् । अप्सरसो गायत्रीन्द्रः । तस्य सर्वे पूर्ववन्निधनं ब्रूयुः । प्रत्याव्रजन् अभिप्रवः- (ग्रा० गे० ६.१.२३५.३, ऊ० गा० द० ३.३) श्यैतं साम त्रिर्गायेत् । प्रजापतिर्बृहतीन्द्रः । तृचे वैकस्यां बा यजमानो निधनमनूपेयात् । यदैकस्यां तदा आद्यायां ब्रूयात् । अन्त्यायाम् इति केचित् । पूर्वया द्वारा प्रपद्योत्तरेणाग्नीन गत्वा पश्चात् गार्ह- पत्यस्य तिष्ठन् प्रवर्ग्यस्थानं प्रेक्षमाणो वामदेव्यं (ऊ० गा० द० १.५) तृचे गायेत् । वामदेवो गायत्रीन्द्रः । अथाग्निप्रणयने अग्निमनुगच्छन् कभ्राजा अग्निर्मूर्द्धा ( आ० गा० २५१) इति अग्नेर्व्रतं त्रिर्गायेत् । अग्निर्गायत्र्यग्निः ।।
 
[ औदुम्बर्युच्छ्रयणम्]
"https://sa.wikisource.org/wiki/आर्षेयकल्पः/उपोद्घातः" इत्यस्माद् प्रतिप्राप्तम्