"आर्षेयकल्पः/उपोद्घातः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११:
सोमप्रवाकविधिः
 
ऋत्विगार्षेयोऽनूचानः साधुचरणः ( ला० श्रौ० १. १. ७) इत्यादिसूत्रोक्तलक्षणावृत्विग्याज्यौ । यज्ञशर्मा ज्योतिष्टोमेनाग्निष्टोमेन रथन्तरपृष्ठेन द्वादशशतदक्षिणेन सोमेन यक्ष्यते । तत्रौद्गात्रं भवता कर्तव्यमिति सोमप्रवाकेनाभ्यर्थितो यद्यार्त्विज्यमकरिष्यन् स्यात्तदा सोमं नमस्कृत्य नमः सोमाय राज्ञ (द्रा० श्रौ० १.१.९ इत्युक्त्वा तं प्रत्या- चक्षीतप्रत्याचक्षीत । यदि करिष्यन् महन्मेऽवोच (द्रा० श्रौ० १ .१ १०) इति प्रतिमन्त्रयेत । आदिग्रहणेन मन्त्रविधिः । पूर्वमन्त्रान्तस्य उत्तर० मन्त्रादिरुपलक्षणम् । यदा सोमप्रवाकः पूर्वमेवौद्गात्रमनेन ज्ञातमस्तीति सोमप्रवचनमकृत्वा स्मरणाय केवलमागत्य तिष्ठति तदा तदा- गमनादेवतदागमनादेव सोमः प्रोक्तो भवतीति महन्मेऽवोच ( तां० ब्रा० १. १.१) इति मन्त्रं ब्रूयात् । आर्त्विज्यकरणे व्यवसिते तदवधार्य यस्मिन्नावसथे सोमप्रवाको भवति तं प्रति तस्मै दधिमिश्रमन्नमाहरेत् ।।
सोमप्रवाको भवति तं प्रति तस्मै दधिमिश्रमन्नमाहरेत् ।।
 
उद्गातृवरणार्हणे
 
अथोद्गातर्यागते यजमानः पर्जन्यो म उद्गातेति तस्य देववरणं यज्ञशर्मा मानुष इति मानुषवरणं च कुर्यात् । स एतान् देवान् ऋत्विजो वृत्वा अथैतान् मानुषान् वृणीत (ष० ब्रा० ३३३) इति श्रुतेः । यजमान- परिचारका उद्गातारमर्हयिष्यन्तो विष्टरद्वयपाद्यार्घ्याचमनीयमधुपर्काना- हरन्ति । उद्गाता त्वर्हणे(मं० ब्रा० २.८.१) ति गां निरीक्ष्य इदमहमिमाम् (मं० ब्रा० २.८.२) इति तिष्ठन् जपेत् । विष्टराविति त्रिरुक्ते तौ प्रतिगृह्य तयोरकस्मिन् या ओषधीर् ( मं० ब्रा० २.८.३) इति पूर्व- मन्त्रेणोपविशेत्पूर्वमन्त्रेणोपविशेत् । पाद्यमिति त्रिरुक्ते यतो देवीर् (मं० ब्रा० २ ८.५) इति पाद्यजलं प्रोक्ष्य सव्यं पादम् (मं० ब्रा० २.८.६) इति सव्ये निनयेत् । दक्षिणं पादम् (मं० ब्रा० २.८.७) इति दक्षिणे च । पूर्वमन्यम् (मं० ब्रा० २.८.८) इति पादद्वये जलं निनीय या ओषधीर् (मं० ब्रा० २.८.४) इत्युत्तरेण मन्त्रेण इतरस्मिन् विष्टरे धौतौ पादौ निदध्यात् । अर्घ्यति त्रिरुक्ते अन्नस्य (म० ब्रा० २.८.९) इति अर्घ्यं प्रतिगृह्णीयात् । आचमनीयमिति त्रिरुक्ते यशोऽसि यशो मयि धेहि ४० ब्रा० २ .८. १०) इति तत् प्रतिगृह्य आचमेत् । मधुपर्क इति त्रिरुक्ते यशसो यशोऽसि (मं० ब्रा० २.८.११) इति प्रतिगृह्य तस्यैकदेशम् इदमन्नमयं रस इमा गावः सह श्रिया । तत् सवितुर्वरेण्यं वाग्बहु बहु मे भूयात् स्वाहा इति पीत्वा हस्तं प्रक्षाल्य पुनस्तस्यैकदेशम् इदमन्नयंरस इमा गावः सह श्रिया भर्गो देवस्य धीमहि प्राणो वै वाचो भूयात् बहुर्मे भूयो भूयात् स्वाहेति पुनस्तथैव । इदमन्नमयंरस इमा गावः सह श्रिया धियो यो नः प्रचोदयान्मनो वाव सर्वं सर्वं मे भूयात् स्वाहेति पीत्वा पुनस्तूष्णीं पीत्वाचम्य शेषं ब्राह्मणाय दद्यात् । गौरिति त्रिरुक्ते मांसभक्षणेच्छुश्चेत् कुरुतेति ब्रूयात् । उत्सृक्ष्यन् ओं कृतो धर्मस्तृणान्यत्तु पिबतूदकम् उत्सृजत ( द्रा० श्रौ० १ .२. १९) डति ब्रूयात् । अस्मिन्नर्हणविधौ सूत्रोक्तव्यतिरिक्तं गृह्यमुपसंहृतमविरुद्धत्वात् । तत्रान्ये ब्रुवते । सूत्रकारेण क्रत्वङ्गतया पृथगेव मधुपर्कप्रयोगस्य विधानात् गृह्यकारेण चैवमयज्ञे कुरुते(द्रा० गृ० ४.४.२५-६)ति वचनात्तदा यज्ञेऽपि स्वोक्तस्य कृत्स्नस्य विधेरभ्युपगमात् सूत्रगृह्योक्तयोर्विकल्प एवाश्रयणीयो न त्वनयोरुपसंग्रह इति ।
 
[ देवयजनयाचनम्]
Line २६ ⟶ २५:
सर्वेषामार्त्विज्योपक्रमवेलायां यज्ञोपवीतमाचमनं च नित्यं कर्मानुष्ठानकाले यज्ञाङ्गानामव्यवायाभिमुख्यं च । प्राङ्मुखैश्च कर्म कर्तव्यमनादेशे ।
दीक्षणीयाप्रवर्ग्योपसत्प्रायणीयासु प्रस्तोतुः सामगानम् प्रस्तोतारं त्वां वृणा इति यजमानेन वृतः प्रस्तोता पूर्वया द्वारा पत्नीशालां प्रविश्य उत्तरेण अग्नीन् गत्वा पश्चाद्गार्ह- पत्यस्योपविष्टस्तिष्ठन् वा दीक्षणीयायां त्यमूषु ( ग्राम गे० ९.११. ३३२.१-२) इति तार्क्ष्यसामनी गायेत् । अङ्गानां प्रधानसंनिधौ कर्तव्यत्वात् । यज्ञाङ्गाव्यवायाभिमुख्यप्राङ्मुखकरणानां च विहितत्वात् । यथोक्त एवैषां गमनदेशः तद्गमनमार्गश्च सिद्धः । अत एव प्रवर्ग्यो- द्वासनसूत्रम्-पूर्वया द्वारा प्रपद्योत्तरेणाग्नीन् गत्वा पश्चात् गार्हपत्यस्य तिष्ठन् महावीरायतनं प्रेक्षमाणो वामदेव्यं गायेत (ला० श्रौ० १. ६.१३) इति । इह तु विशेषाश्रावणत् उपविष्टस्तिष्ठन् वेत्युक्तम् । तथा च जैमिनिः ऐष्टिकानि पाशुकानि च सामानि अधिकृत्य आह- प्रागावृत्तस्तिष्ठन्नुपविष्टो वा मध्यमया वाचा गायेत् (जै० श्रौ० २६.५ इति । तत्र दीक्षणायीयां प्रधानयागकाले त्यमूषु (ग्रा० गे० ९.११. ३३२.१-२) इति तार्क्ष्यसामनी त्रिर्गायेत् । तार्क्ष्यस्त्रिष्टुबिन्द्र इति ऋषिच्छन्दोदेवताः । अङ्गानां प्रधानकालस्य न्याय्यत्वात् प्रधानयागकालः इत्युक्तम् । जैमिनि- राह-यानि पशौ शिष्टानि सामानि वपान्ते तानि गायेत् । प्रदानयागकाले उप सत्सु चेष्टिषु च (२६.३) इति । सर्वत्रानादेशे परिसामानि प्रस्तोता गायेत् स्वाध्यायवत् स्वासु । तृचापत्तीनि तृचेषु त्रिरितराणि (ला० श्रौ० १.५. १२-२) इति । सूत्रे तृचोत्पन्नानां परिसाम्नां तृचे गानमितरेषां तु त्रिर्गानेन तृचीकरणमुक्तमित्यनयोः तार्क्ष्यसाम्नोः प्रत्येकं त्रिर्गानम् । प्रायणीयायां चरुहोमकाले प्रो अयासीद् (सा० ११५२-५४) इति प्रवद्भार्गवं तृचे गायेत् । भृगुर्जगती सोमः ।
उद्गातुर्देवयजनगमनोपस्थाने
 
उद्गातुर्देवयजनगमनोपस्थाने स्वयमुद्गाता राजक्रयकाले औपवसथ्येऽहनि वा देवो देवमेतु (ता० ५१० १.१.२) इति स्वगृहात् प्रथममुदीचीं गत्वा यथाकालं देवयजनं प्रति गच्छेत् । दूरं व्रजित्वा विहाय दौष्कृत्येति बद्वानाम (ला० श्रौ० १ . १. २२-३) इति देवयजनस्य साधारणं पन्थानमापद्य उत्तरं महावेदिपार्श्वमाक्रम्य तनैव स्थित्वा दक्षिण- वेद्यन्तमीक्षमाणः पितरो भूर् तां०ब्रा० १.१.५) इत्युपतिष्ठेत । तत्र सूत्रम्-अन्तरेण चत्वालोत्करौ संचरः सर्वत्रानादेशे तदाप्नानं तीर्थम्
ला० श्रौ० ८२१० १.५.३.४) इति ।
 
Line ३५ ⟶ ३३:
सुब्रह्मण्यं त्वा वृणे इति यजमानेन वृतः सुब्रह्मण्यः क्रीते राजनि सोमवहनमुत्तरेण गत्वा तस्योत्तरामीषामुत्क्रम्यान्तरेणेषे सपत्रां पलाशशाखां शमीशाखां वा हस्तेन कृत्वाक्षस्य पश्चाद्भूमा- ववतिष्ठेत । शाकटीमन्ववरुह्याह्वयेत् । राज्ञोऽप्रत्यवरोहाय (नि० सू० ३.८.२२) इति निदानवचनात् भूम्यामवस्थानमुक्तम् । सुब्रह्मण्यः सुब्रह्मण्या- माह्वयेदिति । अध्वर्युः संप्रैषं सुब्रह्मण्याह्वाने सर्वत्राकाङ्क्षेत । रज्जुद्वयं धारयन् दक्षिणमनड्वाहं पूर्वं शाखया प्रेष्येत् । पश्चादुत्तरम् । प्राचीवर्तमाने शकटे सुब्रह्मण्योमिति मध्यमया वाचा त्रिर्ब्रूयात् । प्रतीचीवर्तमाने षट्कृत्वः । नात्र निगदः । सासि सुब्रह्मण्य इति यजमानवाचनं केचिदिच्छन्ति । पूर्वेण पत्नीशालायामनुडुहि विमुक्ते शकटस्य छदिषि शाखामवगुह्य तामेवेषामनूत्क्रम्याहवनीयाग्नेः क्रीतस्य च सोमस्य व्यवायमकुर्वन् यथार्थं स्यात् । राजवाहनं चानडुद्भ्यां युक्तं यजमानतः प्रतिगृह्णीयात् । एवमन्यदपि यत्कर्मसंयुक्तं यद् द्रव्यं तत्कर्मा- नन्तरं कृतकार्यं चेत् तत् प्रतिग्राह्यम् । तद्यथा कुशास्तरणवस्त्रं प्रस्तोता पत्न्यावृतं च यथोक्तम् । अथैतत् प्रस्तोता वास आदत्ते येन पत्न्यावृता भवतीति । ठद्गातौदुम्बरीवेष्टनम् । प्रतिहर्ता दशापवित्रम् ।
 
अथातिथ्यायां प्रधानयागकाले प्रेष्ठं वः ( सा० १२४४-४६) इत्यौशनं तृचे प्रस्तोता गायेत् । उशना गायत्र्यग्निः । तस्यां संस्थितायां प्रतिहर्तारं त्वा वृण इति यजमानेन वृतः प्रतिहर्तेतरे च तानूनप्त्रमाज्य- मवमृश्य हविरसीति सुवितेमा धा ( ला० श्रौ० ५.६.६, वा.सं. ५.५) इत्यन्तं जपेयुः । मदन्तीरप ठपस्पृश्यांशुरंशुष्ट इत्यशीय ( वा.सं. ५.७, ला० श्रौ० ५.६.८) इत्यन्तेन राजानं हिरण्यमन्त- र्धायाभिमृशेयुः । एतदाप्यायनम् । दर्भमये प्रस्तरे दक्षिणं पाणिमुत्तानं कृत्वा तदुपरि सव्य न्यञ्चमेष्टाराय इति पृथिव्या ( ला० श्रौ० ५.६.९) इत्यन्तेन निह्नुवीरन् । निह्नवनं नाम द्यावापृथिव्योर्नमस्कारः । एतत्तानूनप्त्रस्पर्शादिक सूत्रकारेण यद्यपि ब्रह्मत्वप्रकरणे विहितं तथाप्यव- मृशन्तो जपेयुरित्यादिषु बहुवचननिर्देशात् उद्गातृभिरपि कर्तव्यम् । अन्ये त्वाहुः-यद्येतदुद्गातृभिरपि कर्तव्यमभविष्यत् तदा औद्गात्रप्रकरणे एवोक्त्वा ब्रह्मत्वेऽत्यदेक्ष्यत् । यथा सुत्यायां ब्रह्मणः प्राक् सुब्रह्मण्याया औद्गात्रेण समानं कर्मेति न च तथा कृतम् । ब्रह्मत्वप्रकरणे बहुवचननिर्देशे उद्रातृभ्योऽन्यानवार्त्विजोऽभिप्रेत्य दृश्यते । यथा तस्मिन् उपस्पृशेयुर् ( ला० श्रौ० ५.६.७) इति । तस्मान्न कर्तव्यमेव तानूनप्त्रस्पर्शादिकमुद्गातृभिरिति ।
अथातिथ्यायां प्रधानयागकाले प्रेष्ठं वः ( सा० १२४४-४६) इत्यौशनं तृचे प्रस्तोता गायेत् । उशना गायत्र्यग्निः । तस्यां संस्थितायां
प्रतिहर्तारं त्वा वृण इति यजमानेन वृतः प्रतिहर्तेतरे च तानूनप्त्रमाज्य- मवमृश्य हविरसीति सुवितेमा धा ( ला० श्रौ० ५.६.६, वा.सं. ५.५) इत्यन्तं जपेयुः । मदन्तीरप ठपस्पृश्यांशुरंशुष्ट इत्यशीय ( वा.सं. ५.७, ला० श्रौ० ५.६.८) इत्यन्तेन राजानं हिरण्यमन्त- र्धायाभिमृशेयुः । एतदाप्यायनम् । दर्भमये प्रस्तरे दक्षिणं पाणिमुत्तानं कृत्वा तदुपरि सव्य न्यञ्चमेष्टाराय इति पृथिव्या ( ला० श्रौ० ५.६.९) इत्यन्तेन निह्नुवीरन् । निह्नवनं नाम द्यावापृथिव्योर्नमस्कारः । एतत्तानूनप्त्रस्पर्शादिक सूत्रकारेण यद्यपि ब्रह्मत्वप्रकरणे विहितं तथाप्यव- मृशन्तो जपेयुरित्यादिषु बहुवचननिर्देशात् उद्गातृभिरपि कर्तव्यम् । अन्ये त्वाहुः-यद्येतदुद्गातृभिरपि कर्तव्यमभविष्यत् तदा औद्गात्रप्रकरणे एवोक्त्वा ब्रह्मत्वेऽत्यदेक्ष्यत् । यथा सुत्यायां ब्रह्मणः प्राक् सुब्रह्मण्याया औद्गात्रेण समानं कर्मेति न च तथा कृतम् । ब्रह्मत्वप्रकरणे बहुवचननिर्देशे उद्रातृभ्योऽन्यानवार्त्विजोऽभिप्रेत्य दृश्यते । यथा तस्मिन् उपस्पृशेयुर् ( ला० श्रौ० ५.६.७) इति । तस्मान्न कर्तव्यमेव तानूनप्त्रस्पर्शादिकमुद्गातृभिरिति ।
अथ सुब्रह्मण्यः पत्नीशालायां दक्षिणस्य द्वारबाहोः पुरस्तात् सौमिकवेद्यन्तप्रदेशे तिष्ठन् यजमानेन पत्न्या चान्वारब्धो दक्षिणेनोत्क्रम्य ब्रह्मणि तिष्ठति सुब्रह्मण्यामुच्चैराह्वयेत् । आदित्यः संपादिन्द्र इति ऋष्यादयः । सुब्रह्मण्योमित्योंकारं प्लावयन् त्रिरुक्त्वोत्तमेन वचनेन सहइन्द्रागच्छेत्यादि ब्रुवाण( ला० श्रौ० ३.१.२) इत्यन्तं निगदं ब्रूयात् । पूर्वयोः प्रणवान्तयोः विरमेत् । मेने ब्रुवाणेति च । त्र्यहे सुत्यामागच्छ मघवन् देवा ब्रह्माण आगच्छतागच्छत(ला० श्रौ० १.३.३-७)इति निगदशेषं ब्रूयात् । एतावदहे सुत्यामिति यावदहे स्याद् ला०श्रौ० १.३.१) इति वचनात् । इदानीं त्र्यहे सुत्यामितिवचनम् । ठत्तरष्वहस्सु द्व्यहे श्वोऽद्येति द्रष्टव्यम् । उप- वसथ्येऽहनि श्वःसुत्यामितिवचनम् । तस्यान्ते श्वः सुत्या गौतमस्य (ला० श्रौ० १.४. १३) इति लिङ्गात् । धानंजय्यमते मघवन्नित्येतन्नास्ति । गौतममते त्वागच्छेत्येतदपि । पूर्वोक्तं चेति ( एवेति?) स्वमतम् । आगच्छ मघवन्निति एकवचनात् इत्यहे सुत्यामागच्छ मघवन् (ष० ब्रा० १.१ .२६) इति षड्विंशब्राह्मणाच्च तस्यैव तु प्रायेणाचारः । तत्र त्र्यहादयः शब्दा अन्तो दात्ताः । शेषाणां सूत्रपठित एव स्वरः । महाभाष्यकारश्चाह सुब्रह्मण्यायामोंकार उदात्तः । सुब्रह्मण्योम् । वाक्यादौ च द्वे द्वे । आकार आख्याते परादिश्च । इन्द्रागच्छ हरिव आगच्छ मघवन्वर्जम् । आगच्छ मघवन् सुप्यापराणामन्तर्द्व्यहे सुत्यां त्र्यहे सुत्याम् ( म० भा० १.२. ३७.१) इति । सुत्याशब्दस्तु संज्ञायां समज (पा० ३.३.९९) इत्यादिना अन्तोदात्तो व्याख्यातः । देवा ब्रह्माण इत्यनयोः वाक्यादौ द्वे द्वे इत्येतन्न प्रवर्तते । देवब्रह्मणोरनुदात्त (पा० १.२.३८) इति द्वितीयस्यानुदात्तवचनात् । अनुदात्तं पदमेकवर्जम् (पा० ६. १.१५८) इति शिष्टं सर्वमनुदात्तम् । एवं सुब्रह्मण्यां त्रिराहूय सासि सुब्रह्मणे (ष० ब्रा० १.२.९) इत्यादीनि षड्विंशब्राह्मणोक्तानि सप्त पदानि यजमानं वाचयित्वाप उपस्पृशेत् । एतच्च यजमानवाचनं यजुर्वेदे अध्वर्युकर्तृकतया विहितम् । षड्विंशे च सुब्रह्मण्यकर्तृकतयेति द्वयमप्याचर्यते । प्रत्याह्वानं वाचनसुपस्पशर्नं चेति केचित् । सुब्रह्मण्योपह्वयस्वेति यजमानवचनोक्त उपहवः । ततः प्रतिगृह्य उपहूत इत्यनुब्रूयात् । एवं पत्न्याप्युक्ते उपहूतेऽत्यनुज्ञाय यथार्थं स्यात् । उपस्पर्शनोपहवौ शिष्टाचारादुक्तौ । इयं सुब्रह्मण्या अध्वर्युसंप्रैषाभावेऽपि कार्येति केचिदाहुः । तत्र प्रमाणं मृग्यम् ।।
 
"https://sa.wikisource.org/wiki/आर्षेयकल्पः/उपोद्घातः" इत्यस्माद् प्रतिप्राप्तम्