"आर्षेयकल्पः/उपोद्घातः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
अथार्षेयकल्पो व्याख्यातव्यः । तत्र च सर्वक्रतुप्रकृतिभूतस्य त्रिपर्वणो ज्योतिष्टोमस्य सर्वाहर्गणप्रकृतिभूतस्य च व्यूढस्य द्वादशाहस्य ब्राह्मणेनैव क्लृप्तिरुक्तेति तदुपजीवनेन क्रत्वन्तराण्येव कल्पितानि । अस्माभिस्त्वस्य प्रबन्धस्य कार्त्स्न्यार्थं तयोस्तावत् प्रयोगः सूत्रब्राह्मणा- नुसारेण प्रदर्श्यते । तत्राग्निष्टोमसंस्थस्य ज्योतिष्टोमस्यायं प्रयोगः ।।
 
सोमप्रवाकविधिः</span></poem>
[[File:सोमप्रवाकः Engagement of Priests.ogg|thumb|सोमप्रवाकः Engagement of Priests]]
 
<poem><span style="font-size: 14pt; line-height: 200%">ऋत्विगार्षेयोऽनूचानः साधुचरणः ( ला० श्रौ० १. १. ७) इत्यादिसूत्रोक्तलक्षणावृत्विग्याज्यौ । यज्ञशर्मा ज्योतिष्टोमेनाग्निष्टोमेन रथन्तरपृष्ठेन द्वादशशतदक्षिणेन सोमेन यक्ष्यते । तत्रौद्गात्रं भवता कर्तव्यमिति सोमप्रवाकेनाभ्यर्थितो यद्यार्त्विज्यमकरिष्यन् स्यात्तदा सोमं नमस्कृत्य नमः सोमाय राज्ञ (द्रा० श्रौ० १.१.९ इत्युक्त्वा तं प्रत्याचक्षीत । यदि करिष्यन् महन्मेऽवोच (द्रा० श्रौ० १ .१ १०) इति प्रतिमन्त्रयेत । आदिग्रहणेन मन्त्रविधिः । पूर्वमन्त्रान्तस्य उत्तर० मन्त्रादिरुपलक्षणम् । यदा सोमप्रवाकः पूर्वमेवौद्गात्रमनेन ज्ञातमस्तीति सोमप्रवचनमकृत्वा स्मरणाय केवलमागत्य तिष्ठति तदा तदागमनादेव सोमः प्रोक्तो भवतीति महन्मेऽवोच ( तां० ब्रा० १. १.१) इति मन्त्रं ब्रूयात् । आर्त्विज्यकरणे व्यवसिते तदवधार्य यस्मिन्नावसथे सोमप्रवाको भवति तं प्रति तस्मै दधिमिश्रमन्नमाहरेत् ।।
 
उद्गातृवरणार्हणे
"https://sa.wikisource.org/wiki/आर्षेयकल्पः/उपोद्घातः" इत्यस्माद् प्रतिप्राप्तम्