"ऋग्वेदः सूक्तं १.११२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६४:
</span></poem>
{{सायणभाष्यम्|
‘ईळे ' इति पञ्चविंशत्यृचं सप्तमं सूक्तम् । आङ्गिरसस्य कुत्सस्यार्षम् । चतुर्विंशीपञ्चविंश्यौ त्रिष्टुभौ शिष्टास्त्रयोविंशतिर्जगत्यः । आद्यः पादो द्यावापृथिव्यः । द्वितीय आग्नेयः । शिष्टं सूक्तमाश्विनम् । तथा चानुक्रान्तम्-‘ईळे पञ्चाधिकाश्विनमाद्यौ पादौ लिङ्गोक्तदेवतावन्त्ये त्रिष्टुभौ ' इति । प्रवर्ग्ये अभिष्टवेऽप्येतत्सूक्तम् ॥ सूत्रितं च--’ग्रावाणेवेळे द्यावापृथिवी इति' (आश्व. श्रौ. [[आश्वलायन श्रौतसूत्रम्/अध्यायः ४|४. ६]] ) इति । प्रातरनुवाके चाश्विने क्रतौ जागते छन्दस्येतत्सूक्तम् । सूत्रितं च -’अगन्म महातारिष्मेळे द्यावापृथिवी इति जागतम् ' ( आश्व. श्रौ. ४. १५ ) इति । आश्विनशस्त्रेऽप्येतत् ‘ प्रातरनुवाकन्यायेन ' ( आश्व. श्रौ. ६. ५) इति अतिदेशात् । तथा अप्तोर्यामे सन्ति चत्वार्यतिरिक्तोक्थानि। तत्राच्छावाकातिरिक्तोक्थे एतत्सूक्तम् ।' यस्य पशवः' इति खण्डे सूत्रितम्-‘ईळे द्यावापृथिवी उभा उ नूनम् ' (आश्व. श्रौ. ९. ११ ) इति ।।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.११२" इत्यस्माद् प्रतिप्राप्तम्