"आश्वलायन श्रौतसूत्रम्/अध्यायः ४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १५:
 
 
स्पृष्ट्वोदकं प्रवर्ग्येण चरिष्यत्सूत्तरेण खरं परिव्रज्य पश्चादस्योपविश्य प्रेषितोऽभिष्टुयादृगावानं १ ऋचमृचमनवानमुक्त्वा प्रणुत्यावस्येत् २ ब्रह्म-जज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरुचो वेन आ वः । सबुÞया उप मा अस्य विष्ठाः सतश्च योनिमसतश्च विवः । इयं पित्रे राष्ट्र्येत्यग्रे प्रथमाय जनुषे भूम-नेष्ठाः । तस्मा एतं सुरुचं ह्वारमह्यं घर्मं श्रीणन्ति प्रथमस्य धासेः । महान्मही अस्तभायद्विजातो द्यां पिता सद्म पार्थिवञ्च रजः । सबुध्नादाष्ट जनुषाऽभ्युग्नं बृहस्पतिर्देवता तस्य सम्राट् । अभि त्यं देवं सवितारमोण्योः कविक्रतुमर्चामि सत्यसवं रत्नधामभिप्रियं मतिङ्कविम् । ऊर्ध्वा यस्या मतिर्भा अदिद्युतत् सवीमनि हिरण्यपाणिरमिमीत सुक्रतुः कृपा स्वस्तृपा स्वरिति वा । संसीदस्व महाँ असीति संसाद्यमाने । अञ्जन्ति यं प्रथयन्तो न विप्रा इत्यज्यमाने । पतङ्गमक्तमसुरस्य मायया यो नः स नुत्यो अभिदासदग्ने भवा नो अग्ने सुमना उपेताविति द्वृचाः । कृणुष्व पाजः प्रसितिं न पृथ्वीमिति पञ्च परि त्वा गिर्वणो गिरोऽधि द्वयोरदधा उक्थं वचः शुक्रन्ते अन्यद्यजतन्ते अन्यदपश्यङ्गोपामनिपद्यमानं स्रक्के द्र प्सस्यायं वेनश्चोदयत् पृश्निगर्भाः पवित्रन्ते विततं ब्रह्मणस्पत इति द्वे वियत् पवित्रं धिषणा अतन्वत घर्मं शोचन्त प्रणवेषु बिभ्रतः । समुद्रे अन्तराय वो विचक्षणन्त्रिरह्नो नाम सूर्यस्य मन्वत । गणानां त्वा प्रथश्च यस्याऽपश्यं त्वेत्येतस्याद्यया यजमानमीक्षते द्वितीयया पत्नीं तृतीययाऽऽत्मानं काराधद्भोऽत्राश्विना वामिति - वा भात्यग्निर्ग्रावाणेवेडे द्यावापृथिवी इति प्रागुत्तमाया अरूरुचदुषसः श्निरग्रिय इत्यावपेतोत्तरेणा-र्धचेन पत्नीमोक्षेतोत्तमया परिहिते समुत्थाप्यैनानध्वर्यवो वाचयन्तीति तु पूर्वं पटलं ३ ६ 4.6</span></poem>
 
[[File:धवित्र होमम् Dhavitra Homam.ogg|thumb|धवित्र होमम् Dhavitra Homam]]
 
<poem><span style="font-size: 14pt; line-height: 200%">अथोत्तरं १ उपविष्टेष्वध्वर्युर्घर्मदुघामाह्वयति स सम्प्रैष उत्तरस्य २ अनभि-हिंकृत्य ३ उपह्वय सुदुघां धेनुमेतामिति द्वे अभि त्वा देव सवितः समीं वत्सं न मातृभिः सं वत्स इव मातृभिर्यस्ते स्तनः शशयो यो मयोभूर्गौरमीयेदनु वत्सं मिषन्तं नमसेदुपसीदत सञ्जानाना उपसीदन्नभिज्ञवा दशभिर्विवस्वतो दुहन्ति सप्तैकां समिद्धो अग्निरश्विना तप्तो वां घर्म आगतं । दुह्यन्ते गावो वृषणेह धेनवो दस्रा मदन्ति कारवः । समिद्धो अग्निर्वृषणा रतिर्दिवस्तप्तो घर्मो दुह्यते वामिषे मधु । वयं हि वां पुरुतमांसो अश्विना हवामहे सधमादेषु कारवः । तदु प्रयक्षतममस्य कर्मात्मन्वन्नभो दुह्यते घृतम्पय उत्तिष्ठ ब्रह्मणस्पत इत्येतामुक्त्वाऽवतिष्ठते दुग्धायामधुक्षत्पिप्युषीमिषमित्याह्रियमाण उपद्र व पयसा गोषमा घर्म सिञ्च फ्य उस्रियायाः । वि नाकमख्यत्सविता वरेण्यो नु द्यावापृथिवी सुप्रणीतिरित्यासिच्यमान आ नूनमश्विनोरृषिरिति गव्य आ सुते सिञ्चत श्रियमित्याज आसिक्तयोः समुत्ये महतीरप इति महावीरमादायोत्तिष्ठत्सूदूष्य देवः सविता हिरण्ययेत्यनूत्तिष्ठेत् प्रैतु ब्रह्मणस्प- तिरित्यनुव्रजेद्गन्धर्व इत्यापदमस्य रक्षतीति स्वरमवेक्ष्य तमतिक्रम्य नाके सुपर्णमुप यत्पतन्तमिति समाप्य प्रणवेनोपविशेदनिरस्य तृणं प्रेषितो यजति । तप्तो वां घर्मो नक्षति स्वहोता प्र वामध्वर्युश्चरति प्रयस्वान् । मधोर्दुग्धस्याश्विना तनाया वीतम्पातं पयस उस्रियायाः । उभा पिबतमश्विनेति चोभाभ्यामनवानमग्ने वीहीत्यनुवषट्कारो घर्मस्याग्ने वीहीति वा । ब्रह्मा वषट्कृते जपत्यनुवषट्कृते च विश्वा आशा दक्षिणसाद्विश्वान्देवानयाडिह । स्वाहाकृतस्य घर्मस्य मध्वः पिबतमश्विनेत्येवमेवापराह्णिके । यदुस्रिया-स्वाहुतं घृतं पयोऽयं स वामश्विना भाग आगतं । माध्वी धर्त्तारा विदथस्य सत्पती तप्तङ्घर्मं पिबतं सोम्यं मधु । अस्य पिबतमश्विनेति चाप्रेषितो होता-ऽनुवषट्कृते स्वाहाकृतः शुचिर्देवेषु घर्मो यो अश्विनोश्चमसो देवपानः । तमीं विश्वे अमृतासो जुषाणा गन्धर्वस्य प्रत्यास्ना रिहन्ति । समुद्रा दूर्मिमुदियर्त्ति वेनो द्र प्सः समुद्र मभि यज्जिगाति सखे सखायमभ्याववृत्स्वोर्ध्व ऊषण ऊतय द्वे तङ्घे मित्था नमस्विन इति प्रागाथीं पूर्वाह्ले काण्वीमपराह्लेऽन्यतरां वात्यन्तं काण्वीन्त्वेवोत्तमे पावक शोचे तव हि क्षयं परीत्युक्त्वा भक्षमाकाङ्क्षेद् वाजिनेन भक्षोपायो हुतं हविर्मधु हविरिन्द्र तमेऽग्नावश्याम ते देव घर्म । मधुमतः पितुमतो वा जवतोऽङ्गिरस्वतो नमस्ते अस्तु मा मा हिँ सीरिति भक्षजपः कर्मिणो घर्मं भक्षयेयुः सर्वे तु दीक्षिताः सर्वेषु दीक्षितेषु गृहपतेस्तृतीयोत्तमौ भक्षौ सम्प्रेषितः श्येनो न योनिं सदनन्धियाकृतमा यस्मिन् सप्त वासवा रोहन्तु पूव्यारुहः । ऋषिर्ह दीर्घश्रुत्तम इन्द्र स्य घर्मो अतिथिः । सूयवसाद्भगवती हि भूया इति परिदध्यात् ४ उत्तमे प्रागुत्तमाया हविर्हष्मो महि सद्म दैव्य-मित्यावपेत ५ ७ 4.7