"मत्स्यपुराणम्/अध्यायः ९" इत्यस्य संस्करणे भेदः

(लघु) मत्स्यपुराणम्/अध्यायः-९ इत्येतद् मत्स्यपुराणम्/अध्यायः ९ इत्येतद् प्रति चालितम्
No edit summary
पङ्क्तिः १:
<poem>
मत्स्य उवाच।
एवं श्रुत्वा पुनः प्राह पुनरेव जनार्दनम्।
पूर्वेषां चरितं ब्रूहि मनूनां मधुसूदन ।।
मन्वन्तराणि सर्वाणि मनूनां चरितञ्च यत्।
प्रमाणञ्चैवकालस्य तच्छृणुष्व समाहितः।। ९.१ ।।
 
एकचित्तः प्रशान्तात्मा श्रृणु मार्तण्डनन्दन।
यामा नाम पुरा देवा आसन् स्वायम्भुवान्तरे।। ९.२ ।।
 
सप्तैवऋषयः पूर्वे ये मरीच्यादयः स्मृताः।
आग्नीध्रश्चाग्निबाहुश्च सहः सवन एव च।। ९.३ ।।
 
ज्योतिष्मान्‌ द्युतिमान्‌ हव्यो मेधा मेधातिथिर्वसुः।
स्वायम्भुवस्यास्य मनोर्दशैते वंशवर्द्धनाः।। ९.४ ।।
 
प्रतिसर्गमिमे कृत्वा जग्मुर्यत्परमम्पदम्।
एतत्‌ स्वायम्भुवं प्रोक्तं स्वारोचिषमतः परम्।। ९.५ ।।
 
स्वारोचिषस्य तनयाश्चत्वारो देववर्चसः।
नभो नभस्य प्रसृति भानवः कीर्तिवर्द्धनाः।। ९.६ ।।
 
दत्तोनिश्च्यवनस्तम्वः प्राणः कश्यप एव च।
और्वो बृहस्पतिश्चैव सप्तैते ऋषयः स्मृताः।। ९.७ ।।
 
देवाश्च तुषिता नाम स्मृताः स्वारोचिषेऽन्तरे।
हवीन्द्रः सुकृतो मूर्तिरापोज्योतिरयस्मयः।। ९.८ ।।
 
वसिष्ठस्य सुताः सप्त ये प्रजापतयः स्मृताः।
द्वितीयमेतत्कथितं मन्वन्तरमतः परम्।। ९.९ ।।
 
औत्तमीयं प्रवक्ष्यामि तथामन्वन्तरं शुभम्।
मनुर्नामौत्तमिर्यत्र दशपुत्रानजीजनत्।। ९.११ ।।
 
ईषऊर्जश्च तर्जश्च शुचिः शुक्रस्तथैव च।
मधुश्च माधवश्चैव नभस्योऽथ नभास्तथा।। ९.१२ ।।
सहः कनीयानेतेषामुदारः कीर्त्तिवर्द्धनः।
भावनास्तत्र देवाः स्युरूर्जाः सप्तर्षयः स्मृताः।। ९.१३ ।।
 
कौकुरुण्डिश्च दाल्‌भ्यश्च शङ्खः प्रवहणः शिवः।
सितश्चसस्मितश्चैव सप्तैते योगवर्द्वनाः।। ९.१४ ।।
 
मन्वन्तरं चतुर्थं तु तामसं नाम विश्रुतम्।
कविः पृथुस्तथैवाग्निरकपिः कपिरेव च।। ९.१५ ।।
 
तथैव जल्पधीमानौ मुनयः सप्तनामतः।
साध्या देवगणा यत्र कथितास्तामसेऽन्तरे।। ९.१६ ।।
 
अकल्मषस्तथा धन्वी तपोमूलस्तपोधनः।
तपो रति तपस्यश्च तपो द्युति परन्तपौ।। ९.१७ ।।
 
तपो भागी तपो योगी धर्माचाररताः सदा।
तामसस्य सुताः सर्वे दशवंश विवर्द्धनाः।। ९.१८ ।।
 
पञ्चमस्य मनोस्तद्वद्रैवतस्यान्तरं श्रृणु।
ऐन्द्रबाहुः सुबाहुश्च पर्जन्यः सोमपो मुनिः।। ९.१९ ।।
 
हिरण्यरोमा सप्ताश्वः सप्तैते ऋषयः स्मृताः।
देवाश्चाभूतरजसस्तथा प्रकृतयः शुभाः।। ९.२० ।।
 
अरुणस्तत्वदर्शी च धृतिमान्‌ हव्यवान्‌ कविः।
युक्तो निरुत्सुकः सत्वो निर्मोहोऽथप्रकाशकः।। ९.२१ ।।
 
धर्मवीर्यबलोपेता दशैते रैवतात्मजाः।
भृगुः सुधामा विरजाः सहिष्णुर्नाद एव च।। ९.२२ ।।
 
विवस्वानतिनामा च षष्ठे सप्तर्षयोऽपरे।
चाक्षुषस्यान्तरे देवा लेखा नाम परिश्रुताः।। ९.२३ ।।
 
ऋभवोऽथ ऋभाद्याश्च वारिमूलादिवाकसः।
चाक्षुषस्यान्तरे प्रोक्ता देवानां पञ्चयोनयः।। ९.२४ ।।
रुरुप्रभृतयस्तद्वच्चाक्षुषस्य सुता दश।
प्रोक्ताः स्वायम्भुवे वंशे ये मया पूर्वमेव तु।। ९.२५ ।।
 
अन्तरं चाक्षुषं चैतन्मया ते परिकीर्त्तितम्।
सप्तमं तत्‌ प्रवक्ष्यामि यद्वैवस्वतमुच्यते।। ९.२६ ।।
 
अत्रिश्चैव वसिष्ठश्च कश्यपो गौतमस्तथा।
भरद्वाजस्तथायोगी विश्वामित्रः प्रतापवान्।। ९.२७ ।।
 
जमदग्निश्च सप्तैते साम्प्रतं ये महर्षयः।
कृत्वा धर्म्मव्यवस्थानं प्रयान्ति परमम्पदम्।। ९.२८ ।।
 
साध्याविश्वेच रुद्राश्च मरुतो वसवोऽश्विनौ।
आदित्याश्च सुरास्तद्वत्‌ सप्तदेवगणाः स्मृताः।। ९.२९ ।।
 
इक्ष्वाकुप्रमुखाश्चास्य दशपुत्राः स्मृता भुवि।
मन्वन्तरेषु सर्वेषु सप्त सप्त महर्षयः।। ९.३० ।।
 
कृत्वा धर्म्मव्यवस्थानं प्रयान्तिपरमम्पदम्।
सावर्ण्यस्य प्रवक्ष्यामि मनोर्भावि तथान्तरम्।। ९.३१ ।।
 
अश्वत्थामा शरद्वांश्च कौशिको गालवस्तथा।
शतानन्दः काश्यपश्च रामश्च ऋषयः स्मृताः।। ९.३२ ।।
 
धृतिर्वरीयान् यवसः सुवर्णो वृष्टिरेव च।
चरिष्णुरीड्यः सुमतिर्वसुः शुक्रश्च वीर्यवान्।। ९.३३ ।।
 
भविष्यादशसावर्णेर्मनोः पुत्राः प्रकीर्त्तिताः।
रौच्यादयस्तथान्येऽपि मनवः सम्प्रकीर्तिताः।। ९.३४ ।।
 
रुचेः प्रजापतेः पुत्रो रौच्यो नाम भविष्यति।
मनुर्भूतिसुतस्तद्वद् भौत्यो नाम भविष्यति।। ९.३५ ।।
 
ततस्तु मेरुसावर्णिर्ब्रह्मसूनुर्मनुः स्मृतः।
ऋतश्च ऋतधामाच विष्वक्‌सेनो मनुस्तथा।। ९.३६ ।।
अतीतानागताश्चैते मनवः परिकीर्तिताः।
षडूनं युगसाहस्रमेभिर्व्याप्तं नराधिप।। ९.३७ ।।
 
स्वेस्वेऽन्तरे सर्वमिदमुत्पाद्य सचराचरम्।
कल्पक्षये विनिर्वृत्ते मुच्यन्ते ब्रह्मणा सह।। ९.३८ ।।
 
एते युगसहस्रान्ते विनश्यन्ति पुनः पुनः।
ब्रह्माद्या विष्णुसायुज्यं याता यास्यन्ति वै द्विजाः।। ९.३९ ।।
 
</poem>
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_९" इत्यस्माद् प्रतिप्राप्तम्