"मत्स्यपुराणम्/अध्यायः १०" इत्यस्य संस्करणे भेदः

(लघु) मत्स्यपुराणम्/अध्यायः-१० इत्येतद् मत्स्यपुराणम्/अध्यायः १० इत्येतद् प्रति चालितम्
No edit summary
पङ्क्तिः १:
<poem>
पृथ्वीदोहनम्।
 
ऋषय ऊचुः।
बहुभिर्धरणी भुक्ता भूपालैः श्रूयते पुरा।
पार्थिवाः पृथिवीयोगात्‌ पृथिवी कस्य योगतः।। १०.१ ।।
 
किमर्थञ्च कृता संज्ञा भूमेः किं पारिभाषिणी।
गौरितीयञ्च विख्याता सूत! कस्माद् ब्रवीहि नः।। १०.२ ।।
 
सूत उवाच।
वंशे स्वायम्भुवस्यासीदङ्गो नाम प्रजापतिः।
मृत्योस्तु दुहिता तेन परिणीता सुदुर्मुखा।। १०.३ ।।
 
सुनीथा नाम तस्यास्तु वेनो नामसुतः पुरा।
अधर्म्मनिरतश्चासीद्‌ बलवान्वसुधाधिपः।। १०.४ ।।
 
लोकेऽप्यधर्म्मकृज्जातः परभार्यापहारकः।
धर्माचारस्य सिद्ध्यर्थं जगतोऽथमहर्षिभिः।। १०.५ ।।
 
अनुनीतोऽपि न ददावनुज्ञां स यदा ततः।
शापेन मारयित्वैनमराजक भयार्दिताः।। १०.६ ।।
 
ममन्थु र्ब्राह्मणास्तस्य बलाद्देहमकल्मषाः।
तत्कायान्मथ्यमानात्तु निपेतुर्म्लेच्छजातयः।। १०.७ ।।
 
शरीरे मातुरंशेन कृष्णाञ्जनसमप्रभाः।
पितुरंशस्य चांशेन धार्मिको धर्म्मचारिणः।। १०.८ ।।
 
उत्पन्नो दक्षिणाद्धस्तात्स धनुः सशरो गदी।
दिव्यतेजोमयवपुः सरत्नकवचाङ्गदः।। १०.९ ।।
 
पृथोरेवाभवद्यत्नात् ततः पृथुरजायत।
स विप्रैरभिषिक्तोऽपि तपः कृत्वा सुदारुणम्।। १०.१० ।।
 
विष्णोर्वरेण सर्वस्य प्रभुत्वमगमत्पुनः।
निः स्वाध्यायवषट्‌कारं निर्धर्मं वीक्ष्य भूतलम्।। १०.११ ।।
 
दग्धुमेवोद्यतः कोपाच्छरेणामितविक्रमः।
ततो गोरूपमास्थाय भूः पलायितुमुद्यता।। १०.१२ ।।
 
पृष्ठतोऽनुगतस्तस्याः पृथुर्दीप्तशरासनः।
ततः स्थित्वैकदेशे तु किं करोमीति चाब्रवीत्।। १०.१३ ।।
 
पृथुरत्यवदद्वाक्यमीप्सितं देहि सुव्रते।
सर्वस्य जगतः शीघ्रं स्थावरस्य चरस्य च।। १०.१४ ।।
 
तथैव सा ब्रवीद्‌भूमिर्दुदोह स नराधिपः।
स्वके पाणौ पृथुर्वत्सं कृत्वा स्वायम्भुवं मनुम्।। १०.१५ ।।
 
तदन्नमभवच्छुद्धं प्रजा जीवन्ति येन वै।
ततस्तु ऋषिभिर्दुग्धा वत्सः सोमस्तदाभवत्।। १०.१६ ।।
 
दोग्धा बृहस्पतिरभूत्पात्रं वेदस्तपो रसः।
वेदैश्च वसुधा दुग्धा दोग्धामित्रस्तदा भवत्।। १०.१७ ।।
 
इन्द्रोवत्सः समभवत् क्षीरमूर्जस्करं बलम्।
देवानां काञ्चनं पात्रं पितृणां राजतं तथा।। १०.१८ ।।
 
अन्तकश्चाभवद्दोग्धा यमो वत्सः स्वधारसः।
अलावुपात्रं नागानां तक्षको वत्सकोऽभवत्।। १०.१९ ।।
 
विषं क्षीरं ततो दोग्धा धृतराष्ट्रोऽभवत्पुनः।
असुरैरपि दुग्धेयमायसे शक्रपीडिनीम्।। १०.२० ।।
 
पात्रे मायामभूद्वत्सः प्राह्लादिस्तु विरोचनः।
दोग्धाद्विमूर्धा तत्रासीन्माया येन प्रवर्त्तिता।। १०.२१ ।।
 
यक्षैश्च वसुधा दुग्धा पुरान्तर्द्धानमीप्सुभिः।
कृत्वा वैश्रवणं वत्समामपात्रे महीपते।। १०.२२ ।।
 
प्रेतरक्षोगणैर्दुग्धा धारा रुधिरमुल्बणम्।
रौप्यनाभोऽभवद्‌ दोग्धा सुमाली वत्स एव च।। १०.२३ ।।
 
गन्धर्वैश्च पुरा दुग्धा वसुधा साप्सरोगणैः।
वत्सं चैत्ररथं कृत्वा गन्धान् पद्म दले तथा।। १०.२४ ।।
 
दोग्धा वररुचिर्नाम नाट्यवेदस्य पारगः।
गिरिभिर्वसुधा दुग्धा रत्नानि विविधानि च।। १०.२५ ।।
 
औषधानिच दिव्यानि दोग्धा मेरुर्महाचलः।
वत्सोऽभूद्धिमवांस्तत्र पात्रं शैलमयं पुनः।। १०.२६ ।।
 
वृक्षैश्चवसुधा दुग्धा क्षीरं छिन्नप्ररोहणम्।
पालाशपात्रं दोग्धातु शालः पुष्पलताकुलः।। १०.२७ ।।
 
प्लक्षोऽभवत्ततो वत्सः सर्ववृक्षोधनाधिपः।
एवमन्यैश्च वसुधा तदा दुग्धा यथेप्सितम्।। १०.२८ ।।
 
आयुर्धनानि सौख्यञ्च पृथौ राज्यं प्रशासति।
न दरिद्रस्तदा कश्चिन्नरोगी न च पापकृत्।। १०.२९ ।।
 
नोपसर्गभयं किञ्चित् पृथौ राजनिशासति।
नित्यं प्रमुदितालोका दुःखशोकविवर्जिताः।। १०.३० ।।
 
धनुष्कोट्या च शैनेन्द्रानुत्सार्य्यसमहाबलः।
भुवस्तलं समं चक्रे लोकानां हितकाम्यया।। १०.३१ ।।
 
न पुरग्रामदुर्गाणि नचायुधधरा नराः।
क्षयातिशयदुःखञ्च नार्थशास्त्रस्य चादरः।। १०.३२ ।।
 
धर्मैकवासनालोकाः पृथो राज्यं प्रशासति।
कथितानि च पात्राणि यत्क्षीरञ्च मया तव।। १०.३३ ।।
 
येषां यत्र रुचिस्तत्तद्देयं तेभ्यो विजानता।
यज्ञ श्राद्धेषु सर्वेषु मया तुभ्यं निवेदितम्।। १०.३४ ।।
 
दुहितृत्वङ्गता यस्मात् पृथौर्धर्म्मवतो मही।
तदानुरागयोगाच्च पृथिवी विश्रुता बुधैः।। १०.३५ ।।
 
</poem>
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_१०" इत्यस्माद् प्रतिप्राप्तम्