"मत्स्यपुराणम्/अध्यायः २१" इत्यस्य संस्करणे भेदः
Content deleted Content added
<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती |
No edit summary |
||
पङ्क्तिः १:
<poem>
श्राद्धमाहात्म्ये पिपीलिकावहासवर्णनम् |
ऋषय ऊचुः।
कथं सत्वरुतज्ञोऽभूद् ब्रह्मदत्तो धरातले।
तच्चाभवत् कस्य कुले चक्रवाक चतुष्टयम्।। २१.१ ।।
तस्मिन्नेवपुरे जातास्ते च चक्राह्वयास्तदा।
वृद्धद्विजस्य दायादा विप्रा जातिस्मराः पुरा।। २१.२ ।।
धृतिमांस्तत्त्वदर्शी च विद्या चण्डस्तपोत्सुकः।
नामतः कर्म्मतश्चैते सुदरिद्रस्य ते सुताः।। २१.३ ।।
तपसे बुद्धिरभवत्तदा तेषां द्विजन्मनाम्।
यास्यामः परमां सिद्धिमित्यूचुस्ते द्विजोत्तमाः।। २१.४ ।।
ततस्तद्वचनं श्रुत्वा सुदरिद्रो महातपाः।
उवाच दीनया वाचा किमेतदिति पुत्रकाः।। २१.५ ।।
अधर्म्म एष इति वः पिता तानभ्यवारयत्।
वृद्धं पितरमुत्सृज्य दरिद्रं वनवासिनः।। २१.६ ।।
कोनुधर्मोऽत्रभवितामत्त्यगाद् गतिरेव वा।
ऊचुस्ते कल्पिता वृत्तिस्तवतात! वदस्व तत्।। २१.७ ।।
वित्तमेतत् पुरो राज्ञः स ते दास्यति पुष्कलम्।
धनं ग्रामसहस्रापि प्रभाते पठतस्तव।। २१.८ ।।
ये विप्रमुख्याः कुरुजाङ्गलेषु दासास्तथा दासपुरे मृगाश्च।
कालञ्जरे सप्त च चक्रवाका ये मानसे ते वयमत्र सिद्धाः।। २१.९ ।।
इत्युक्त्वा पितरं जग्मुस्ते वनं तपसे पुनः।
वृद्धोऽपि राजभवनं जगामात्मार्थ सिद्धये।। २१.१० ।।
अनघो नाम वैभ्राजः पाञ्चालाधिपतिः पुरा।
पुत्रार्थी देवदेवेशं हरिं नारायणं प्रभुम्।। २१.११ ।।
आराधयामास विभुं तीव्र व्रतपरायणः।
ततः कालेन महता तुष्टस्तस्य जनार्दनः।। २१.१२ ।।
वरं वृणीष्व भद्रं ते हृदयेनेप्सितं नृप!
एवमुक्तस्त देवेन वव्रे स वरमुत्तमम्।। २१.१३ ।।
पुत्रं मे देहि देवेश! महाबलपराक्रमम्।
पारगं सर्वशास्त्राणां धार्मिकं योगिनां परम्।। २१.१४ ।।
सर्वसत्वरुतज्ञं मे देहि योगिनमात्मजम्।
एवमस्त्विति विश्वात्मा तमाह परमेश्वरः।। २१.१५ ।।
पश्यतां सर्वदेवानां तत्रैवान्तरधीयत।
ततः स तस्य पुत्रोऽभूत् ब्रह्मदत्तः प्रतापवान्।। २१.१६ ।।
सर्वसत्वानुकम्पी च सर्वसत्व बलाधिकः।
सर्वसत्त्वरुतज्ञश्च सर्वसत्वेश्वरेश्वरः।। २१.१७ ।।
अहसत्तेन योगात्मा स पिपीलिकरागतः।
यत्र तत् कीटमिथुनं रममाणमवस्थितम्।। २१.१८ ।।
ततः सा सन्नतिर्द्रृष्ट्वा तं हसन्तं सुविस्मिता।
किमप्याशङ्क्य मनसा तमपृच्छन्नरेश्वरम्।। २१.१९ ।।
अकस्मात् इतिहासस्ते किमर्थमभवन्नृप!।
हास्यहेतुं न जानामि यदकाले कृतं त्वया।। २१.२० ।।
सूत उवाच।
अवदद्राजपुत्रोऽपि स पिपीलिकभाषितम्।
रागवाग्भिः समुत्पन्नमेतद्धास्यं वरानने!।। २१.२१ ।।
न चान्यत् कारणं किञ्चिद्धास्यहेतौ शुचिस्मिते।
न सामन्यत्तदा देवी प्राहालीकमिदं वचः।। २१.२२ ।।
अहमेवाद्यहसिता न जीविष्ये त्वयाऽधुना।
कथं पिपीलिकालापं मर्त्यो वेत्ति विना सुरान्।। २१.२३ ।।
तस्मात्त्वयाहमेवेह हसिता किमतः परम्।
ततो निरुत्तरो राजा जिज्ञासुस्तत् पुरो हरेः।। २१.२४ ।।
आस्थाय नियमन्तस्थौ सप्तरात्रमकल्मषः।
स्वप्ने प्राह हृषीकेशः प्रभाते पर्यटन् पुरम्।। २१.२५ ।।
वृद्धद्विजोयस्तद्वाक्यात् सर्वं ज्ञास्यस्यशेषतः।
इत्युक्त्वान्तर्दधो विष्णुः प्रभातेऽथ नृपः पुरात्।। २१.२६ ।।
निर्गच्छन्मन्त्रिसहितः सभार्यो वृद्धमग्रतः।
गदन्तं विप्रमायान्तं तं वृद्धं सन्ददर्श ह।। २१.२७ ।।
ये विप्रमुख्याः कुरुजाङ्गलेषु दासास्तथा दासपुरे मृगाश्च।
कालञ्जरे सप्त च चक्रवाका ये मानसे ते वयमन्त्र सिद्धाः।। २१.२८ ।।
सूत उवाच।
इत्याकर्ण्य वचस्ताभ्यां स पपात शुचा ततः।
जातिस्मरत्वमगमत्तौ च मन्त्रिवरावुभौ।। २१.२९ ।।
कामशास्त्रप्रणेता च वाभ्रव्यस्तु सुबालकः।
पाञ्चाल इति लोकेषु विश्रुतः सर्वशास्त्रवित्।। २१.३० ।।
कण्डरीकोऽपि धर्मात्मा वेदशास्त्रप्रवर्तकः।
भूत्वा जातिस्मरौ शोकात् पतितावग्रतस्तदा।। २१.३१ ।।
हा वयं योगविभ्रष्टाः कामतः कर्मबन्धनाः।
एवं विलप्य बहुशस्त्रयस्ते योगपारगाः।। २१.३२ ।।
विस्मयाच्छ्राद्धमाहात्म्यमभिनंद्य पुनः पुनः।
ततस्तस्मै धनं दत्त्वा प्रभूतग्रामसंयुतम्।। २१.३३ ।।
विसृज्य ब्राह्मणन्तञ्च वृद्धं धन मुदान्वितम्।
आत्मीयं नृपतिः पुत्रं नृपलक्षणसंयुतम्।। २१.३४ ।।
विष्वक् सेनाभिधानन्तु राजा राज्येऽभ्यषेचयत्।
मानसे मिलिताः सर्वे ततस्ते योगिनो वराः।। २१.३५ ।।
ब्रह्मदत्तादयस्तस्मिन् पितृसक्ता विमत्सराः।
सन्नतिश्चाभवद् भ्रष्टा मयैतत् किल कारितम्।। २१.३६ ।।
राज्यत्यागफलं सर्वं यदेतदभिलष्यते।
तथेति प्राह राजा तु पुनस्तामभिनन्दयन्।। २१.३७ ।।
त्वत् प्रसादादिदं सर्वं मयैतत् प्राप्यते फलम्।
ततस्ते योगमास्थाय सर्व एव वनौकसः।। २१.३८ ।।
ब्रह्मरन्ध्रेण परमं पदमापुस्तपोधनाः।
एवमायुर्धनं विद्यां स्वर्गं मोक्षं सुखानि च।। २१.३९ ।।
प्रयच्छन्ति सुतान् राज्यं नृणां प्रीताः पितामहाः।
य इदं पितृमाहात्म्यं ब्रह्मदत्तस्य च द्विजाः।। २१.४० ।।
द्विजेभ्यः श्रावयेद्यो वा श्रृणोत्यथ पठेत वा।
कल्पकोटिशतं साग्रं ब्रह्मलोके महीयते।। २१.४१ ।।
</poem>
|