"मत्स्यपुराणम्/अध्यायः २४" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
बुधोत्पत्तिवर्णनम्।
 
सूत उवाच।
ततः संवत्सरस्यान्ते द्वादशादित्यसन्निभः।
दिव्यपीताम्बरधरो दिव्याभरणभूषितः।। २४.१ ।।
 
तारोदराद्विनिष्क्रान्तः कुमारश्चन्द्रसन्निभः।
सर्वार्थशास्त्रविद् धीमान् हस्तिशास्त्रप्रवर्तकः।। २४.२ ।।
 
नामयद्राजपुत्रीयं विश्रुतं गजवैद्यकम्।
राज्ञः सोमस्य पुत्रत्वाद्राजपुत्रो बुधः स्मृतः।। २४.३ ।।
 
जातमात्रः स तेजांसि सर्वाण्येवाजयद् बली।
ब्रह्माद्यास्तत्र चाजग्मु र्देवा देवर्षिभिः सह २४.४ ।।
 
बृहस्पतिगृहे सर्वे जातकर्मोत्सवे तदा।
अपृच्छंस्ते सुरास्तारां केन जातः कुमारकः।। २४.५ ।।
 
ततः सा लज्जिता तेषां न किञ्चिदवदत्तदा।
पुनः पुनस्तदा पृष्टा लज्जयन्ती वराङ्गना।। २४.६ ।।
 
सोमस्येति चिरादाह ततोऽगृह्णाद्विधुः सुतम्।
बुध इत्यकरोन्नाम्ना प्रादाद्राज्यञ्च भूतले।। २४.७ ।।
 
अभिषेकं ततः कृत्वा युवानमकरोद् विभुः।
ग्रहसाम्यं प्रदायाथ ब्रह्मा ब्रह्मर्षि संयुतः।। २४.८ ।।
 
पश्यतां सर्वदेवानां तत्रैवान्तरधीयत।
इलोदरे च धर्मिष्ठं बुधः पुत्रमजीजनत्।। २४.९ ।।
 
अश्वमेधशतं साग्रमकरोद्यः स्वतेजसा।
पुरूरवा इति ख्यातः सर्वलोकनमस्कृतः।। २४.१० ।।
 
हिमवच्छिखरे रम्ये समाराध्य जनार्दनम्।
लोकैश्वर्यमगाद्राजा सप्तद्वीप पतिस्तदा।। २४.११ ।।
 
केशिप्रभृतयो दैत्याः कोटिशो येन दारिताः।
उर्वशी यस्य पत्नीत्वमगमद्रूपमोहिता।। २४.१२ ।।
 
सप्तद्वीपा वसुमती सशैलवनकानना।
धर्मेण पालिता तेन सर्वलौक हितैषिणा।। २४.१३ ।।
 
चामर ग्राहिणीकीर्तिः सदाचैवाङ्गवाहिका।
विष्णोः प्रसादाद्देवेन्द्रो ददावर्धासनन्तदा।। २४.१४ ।।
 
धर्मार्थकामान्‌ धर्मेण सममेवाभ्यपालयत्।
धर्मार्थकामाः सन्द्रष्टुमाजग्मुः कौतुकात्पुरा।। २४.१५ ।।
 
जिज्ञासवस्तच्चरितं कथं पश्यति नः समम्।
भक्त्या चक्रे ततस्तेषामर्घ्यं पाद्यादिकं नृपः।। २४.१६ ।।
 
आसनत्रयमानीय दिव्यं कनकभूषितम्।
निवेश्याथाकरोत् पूजामीषद्धर्मेऽदिकां पुनः।। २४.१७ ।।
 
जग्मतुस्तेन कामार्थवतिकोपं नृपं प्रति।
अर्थ शापमदात्तस्मै लोभात्त्वं नाशमेष्यसि।। २४.१८ ।।
 
कामोऽप्याह तवोन्मादो भविता गन्दमादने।
कुमारवनमाश्रित्य वियोगादुर्वशीभवात्।। २४.१९ ।।
 
धर्मोऽप्याह चिरायुस्त्वं धार्मिकश्च भविष्यसि।
सन्ततिस्तव राजेन्द्र यावच्चन्द्रार्क तारकम्।। २४.२० ।।
 
शतशो वृद्धिमायातु न नाशम्भुवि यास्यति।
इत्युक्त्वान्तर्दधुः सर्वे राजा राज्यं तदन्वभूत्।। २४.२१ ।।
 
अहन्यहनि देवेन्द्रं द्रष्टुं याति सराजराट्।
कदाचिदारुह्य रथं दक्षिणाम्बरचारिणम्।। २४.२२ ।।
 
सार्द्धमर्केण सोऽपश्यन्नीयमानामथाम्बरे।
केशिना दानवेन्द्रेण चित्रलेखामथोर्वशीम्।। २४.२३ ।।
 
तं विनिर्जित्य समरे विविधायुधपाणिना।
बुधपुत्रेण वायव्यमस्त्रं मुक्त्वा यशोऽर्थिना।। २४.२४ ।।
 
तथा शक्रोऽपि समरे येन चैवं विनिर्जितः।
मित्रत्वमगमद्देवैर्ददाविन्द्राय चोर्वशीम्।। २४.२५ ।।
 
ततः प्रभृति मित्रत्वमगमत् पाकशासनः।
सर्वलोकातिशायित्वं बलमूर्जो यशः श्रियम्।। २४.२६ ।।
 
प्रादाद्वज्रीतु सन्तुष्टो गेयतां भरतेन च।
सा पुरूरवसः प्रीत्या गायन्तीं चरितं महत्।। २४.२७ ।।
 
लक्ष्मी स्वयं वरं नाम भरतेन प्रवर्त्तितम्।
मेनकामुर्वशीं रम्भां नृत्यतेति तदा दिशत्।। २४.२८ ।।
 
ननर्त्त सलयं तत्र लक्ष्मीरूपेण चोर्वशी।
सा पुरूरवसं द्रृष्ट्वा नृत्यन्ती कामपीडिता।। २४.२९ ।।
 
विस्मृताभिनयं सर्वं यत्पुरा भरतोदितम्।
शशाप भरतः क्रोधाद्वियोगादस्य भूतले।। २४.३० ।।
 
पञ्चपञ्चाशदब्दानि लता सूक्ष्मा भविष्यसि।
पुरूरवाः पिशाचत्वं तत्रैवानु भविष्यसि।। २४.३१ ।।
 
ततस्तमुर्वीशी गत्वा भर्तारमकरोच्चिरम्।
शापान्ते भरतस्याथ उर्वशी बुधसूनुतः।। २४.३२ ।।
 
अजीजनत् सुतानष्टौ नामतस्तान्निबोधत।
आयुर्द्रृढायुरश्वायु धनायुर्धृतिमान्वसुः।। २४.३३ ।।
 
शुचिविद्यः शतायुश्च सर्वे दिव्यबलौजसः।
आयुषो नहुषः पुत्रो वृद्धशर्मा तथैव च।। २४.३४ ।।
 
रजिर्दम्भो विपाप्मा च वीराः पञ्च महारथाः।
रजेः पुत्रशतं जज्ञे राजेयमिति विश्रुतम्।। २४.३५ ।।
 
रजिराराधयामास नारायणमकल्मषम्।
तपसा तोषितो विष्णुर्वरान् प्रादान्महीपतेः।। २४.३६ ।।
 
देवासुरमनुष्याणामभूत् स विजयी तदा।
अथ देवासुरं युद्धमभूद्वर्षशतत्रयम्।। २४.३७ ।।
 
प्रह्लादशक्रयोर्भीमं न कश्चिद्विजयी तयोः।
ततो देवासुरैः पृष्टः प्राह देवश्चतुर्मुखः।। २४.३८ ।।
 
अनयोर्विजयी कः स्यात्‌ रजिर्यत्रेति सोऽब्रवीत्।
जयाय प्रार्थितो राजा सहायस्त्वं भवस्व नः।। २४.३९ ।।
 
दैत्यैः प्राह यदि स्वामी वो भवामि ततस्त्वलम्।
नासुरैः प्रतिपन्नं तत्‌ प्रतिपन्नं सुरैस्तथा।। २४.४० ।।
 
स्वामी भव त्वमस्माकं संग्रामे नाशयद्विषः।
ततो विनाशिताः सर्वे येऽवध्या वज्रपाणिना।। २४.४१ ।।
 
पुत्रत्वमगमत् तुष्टस्तस्येन्द्रः कर्मणा विभुः।
दत्वेन्द्राय तदा राज्यं जगाम तपसेरजिः।। २४.४२ ।।
 
रजिपुत्रैस्तदाच्छिन्नं बलादिन्द्रस्य वैभवम्।
यज्ञभागञ्च राज्यञ्च तपो बल गुणान्वितैः।।२४.४३ ।।
 
राज्याद्‌भ्रष्टस्तदाशक्रो रजिपुत्रैर्निपीडितः।
प्राहवाचस्पतिं दीनः पीडितोऽस्मि रजेः सुतैः।। २४.४४ ।।
 
न यज्ञभागो राज्यं मे निर्जितश्च बृहस्पते।
राज्यलाभाय मे यत्नं विधत्स्व धिषणाधिप।। २४.४५ ।।
 
ततो बृहस्पतिः शक्रमकरोद् बलदर्पितम्।
ग्रहशान्तिविधानेन पौष्टिकेन च कर्मणा।। २४.४६ ।।
 
गत्वाऽथ मोहयामास रजिपुत्रान्‌ बृहस्पतिः।
जिनधर्मं समास्थाय वेदबाह्यं सवेदवित्।। २४.४७ ।।
 
वेदत्रयी परिभ्रष्टां श्चकार धिषणाधिपः।
वेदबाह्यान् परिज्ञाय हेतुवादसमन्वितान्।। २४.४८ ।।
 
जधान शक्रो वज्रेण सर्वान्‌ धर्मबहिष्कृतान्।
नहुषस्य प्रवक्ष्यामि पुत्रान्‌ सप्तैव धार्मिकान्।। २४.४९ ।।
 
ततः प्रभृति मित्रत्वमगमत्पाकशासनः।
सर्वलोकातिशायित्वं बलमूर्जो यशः श्रियम्।। २४.५० ।।
 
यतिः कुमारभावेऽपि योगी वैखानसोऽभवत्।
ययातिश्चाकरोद्राज्यं धर्मैक शरणः सदा।। २४.५१ ।।
 
शर्मिष्ठा तस्य भार्याभूद्‌ दुहिता वृषपर्वणः।
भार्गवस्यात्मजा तद्वत् देवयानी च सुव्रता।। २४.५२ ।।
 
ययातेः पञ्च दायादास्तान् प्रवक्ष्यामि नामतः।
देवयानी यदुं पुत्रं तुर्वसुञ्चाप्यजीजनत्।। २४.५३ ।।
 
तथाद्रुह्य मनुं पूरुं शर्मिष्ठाजनयत्‌ सुतान्।
यदुः पूरुश्चाभवतां तेषां वंशविवर्धनौ।। २४.५४ ।।
 
ययातिर्नाहुषश्चासीत् राजा सत्यपराक्रमः।
पालयामास स महीमीजे च विधिवन्मखैः।। २४.५५ ।।
 
अतिभक्त्या पितॄनर्च्य देवांश्च प्रयतः सदा।
अथाजयत्‌ प्रजाः सर्वा ययातिरपराजितः।। २४.५६ ।।
 
स शाश्वतीः समा राजा प्रजाधर्मेण पालयत्।
जरामार्च्छन्महाघोरं नाहुषो रूपनाशिनीम्।। २४.५७ ।।
 
जराभिभूतः पुत्रान् स राजा वचनमब्रवीत्।
यदुं पूरुं तुर्वसुञ्च द्रुह्यं चानुञ्च पार्थिवः।। २४.४८ ।।
 
यौवनेन चलान्‌ कामान् युवायुवतिभिः सह।
विहर्तुमहमिच्छामि साहाय्यं कुरुतात्मजाः।। २४.५९ ।।
 
तं पुत्रो देवयानेयः पूर्वजो यदुरब्रवीत्।
साहाय्यं भवतः कार्यमस्माभि र्यौवनेन किम्।। २४.६० ।।
 
ययातिरब्रवीत् पुत्रान् जरा मे प्रतिगृह्यताम्।
यौवनेनाथ भवतां चरेयं विषयानहम्।। २४.६१ ।।
 
यजतो दीर्घसत्रैर्मे शापाच्चोशनसो मुनेः।
कामार्थः परिहीनो मेऽतृप्तोऽहं तेन पुत्रकाः।। २४.६२ ।।
 
स्वकीयेन शरीरेण जरामेनां प्रशास्तु वः।
अहं तन्वाभिनवया युवाकामानवाप्नुयाम्।। २४.६३ ।।
 
न तेऽस्य प्रत्यगृह्णन्त यदु प्रभृतयो जराम्।
चतुरस्तान् स राजर्षिरशपच्चेति नः श्रुतम्।। २४.६४ ।।
 
तमब्रवीत्ततः पूरुः कनीयान् सत्यविक्रमः।
जरां मा देहि नवया तन्वा मे यौवनात्‌ सुखी।। २४.६५ ।।
 
अहं जरावन्तमादाय राज्ये स्थास्यामि चाज्ञया।
एवमुक्तः स राजर्षिस्तपोवीर्य्य समाश्रयात्।। २४.६६ ।।
 
संस्थापयामास जरां तदा पुत्रे महात्मनि।
पौरवेणाथ वयसा राजा यौवनमास्थितः।। २४.६७ ।।
 
ययातेश्चाथ वयसा राज्यं पूरुरकारयत्।
ततो वर्षसहस्रान्ते ययातिरपराजितः।। २४.६८ ।।
 
अतृप्त इव कामानां पूरुं पुत्रमुवाच ह।
त्वया दायादवानस्मि त्वं मे वंशकरः सुतः।। २४.६९ ।।
 
पौस्वो वंश इत्येष ख्यातिं लोके गमिष्यति।
ततः स नृपशार्दूलः पूरुं राज्येऽभिषिच्य च।।
कालेन महता पश्चात्काल धर्म्ममुपेयिवान्।। २४.७० ।।
 
पूरुवंशं प्रवक्ष्यामि श्रृणुध्वमृषिसत्तमाः।।
यत्र ते भारता जाता भरतान्वय वर्द्धनाः।। २४.७१ ।।
 
</poem>
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_२४" इत्यस्माद् प्रतिप्राप्तम्