"मैत्रायण्युपनिषत्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १७४:
7 प्रपाठक ७ । अग्निर्गायत्रं त्रिवृद्रथन्तरं वसन्तः प्राणो नक्षत्राणि वसवः पुरस्तादुद्यन्ति तपन्ति वर्षन्ति स्तुवन्ति पुनर्विशन्ति अन्तर्विवरेणेक्षन्ति अचिन्त्योऽमूर्तो गभीरो गुणभुग्मयोऽनिर्वृत्तिर्योगीश्वरः सर्वज्ञो मेघोऽप्रमेयोऽनाद्यन्तः श्रीमान् अजो धीमाननिर्देश्यः सर्वसृक् सर्वस्यात्मा सर्वभुक् सर्वस्येशानः सर्वस्यान्तरान्तरः ॥ ७.१॥
 
इन्द्रस्त्रिष्टुप् पञ्चदशो बृहद्ग्रीष्मो व्यानः सोमो रुद्रा दक्षिणत उद्यन्ति तपन्ति वर्षन्ति स्तुवन्ति पुनर्विशन्ति अन्तर्विवरेण ईक्षन्ति \ः अनाद्यन्तोऽपरिमितोऽपरिच्च्हिन्नोऽपरप्रयोज्यःअनाद्यन्तोऽपरिमितोऽपरिच्छिन्नोऽपरप्रयोज्यः स्वतन्त्रोऽलिङ्गोऽमूर्तोऽनन्तशक्तिर्धाता भास्करः ॥ ७.२॥
 
मरुतो जगती सप्तदशो वैरूपम् वर्षा अपानः शुक्र आदित्याः पश्चादुद्यन्ति तपन्ति वर्षन्ति स्तुवन्ति पुनर्विशन्ति अन्तर्विवरेणेक्षन्ति तच्च्हान्तमशब्दमभयमशोकमानन्दम् तृप्तम् स्थिरमचलममृतमच्युतम् ध्रुवम् विष्णुसंज्ञितम् सर्वापरं धाम ॥ ७.३॥
पङ्क्तिः १८२:
मित्रावरुणौ पङ्क्तिस्त्रिणवत्रयस्त्रिंशो शाक्वररैवते हेमन्त शिशिरा उदानोऽङ्गिरसश्चन्द्रमा ऊर्ध्वा उद्यन्ति तपन्ति वर्षन्ति स्तुवन्ति पुनर्विशन्ति अन्तर्विवरेणेक्षन्ति प्रणवाख्यं प्रणेतारम् भारूपम् विगतनिद्रम् विजरम् विमृत्युम् विशोकम् ॥ ७.५॥
 
शनिराहुकेतुरगरक्षोयक्षनरविहगशरभेभादयोऽधस्तादुद्यन्तिशनिराहुकेतूरगरक्षोयक्षनरविहगशरभेभादयोऽधस्तादुद्यन्ति तपन्ति वर्षन्ति स्तुवन्ति पुनर्विशन्ति अन्तर्विवरेणेक्षन्ति यः प्राज्ञो विधरणः सर्वान्तरोऽक्षरः शुद्धः पूतः भान्तः क्षान्तः शान्तः ॥ ७.६॥
 
एष हि खल्वात्मन्तर्हृदयेऽणीयानिद्धोऽग्निरिव विश्वरूपोऽस्यैवान्नमिदं सर्वमस्मिन्नोता इमाः प्रजाः। एष आत्मापहतपाप्मा विजरो विमृत्युर्विशोकोऽविचिकित्सोऽविपाशः सत्यसङ्कल्पः सत्यकामः एष परमेश्वरः एष भूताधिपतिः एष भूतपालः एष सेतुः विधरणः एष हि खल्वात्मेशानः शम्भुर्भवो रुद्रः प्रजापतिर् विश्वसृग्घिरण्यगर्भः सत्यं प्राणो हंसः शस्ताच्युतो विष्णुर्नारायणः यश्चैषोऽग्नौ यश्चायं हृदये यश्चासावादित्ये स एष एकः तस्मै ते विश्वरूपाय सत्ये नभसि हिताय नमः ॥ ७.७॥
"https://sa.wikisource.org/wiki/मैत्रायण्युपनिषत्" इत्यस्माद् प्रतिप्राप्तम्