"ऋग्वेदः सूक्तं ५.४९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २३:
 
{{सायणभाष्यम्|
“ देवं वः' इति पञ्चर्चं पञ्चमं सूक्तमात्रेयस्य प्रतिप्रभस्यार्षम् । त्रैष्टुभं वैश्वदेवम् । “ देवं वः प्रतिप्रभोऽन्त्या तृणपाणिः' इत्यनुक्रमणिका । विनियोगो लैङ्गिकः ॥
 
 
दे॒वं वो॑ अ॒द्य स॑वि॒तार॒मेषे॒ भगं॑ च॒ रत्नं॑ वि॒भज॑न्तमा॒योः ।
Line ३५ ⟶ ३७:
 
आ । वाम् । नरा । पुरुऽभुजा । ववृत्याम् । दिवेऽदिवे । चित् । अश्विना । सखिऽयन् ॥१
 
“देवं द्योतमानं "सवितारं सर्वस्याभ्यनुज्ञातारं "वः । त्वामित्यर्थः । यद्वा होतुरिदं वाक्यम् । वः यजमानेभ्यो युष्मभ्यमर्थाय "अद्य इदानीम् "एषे उपगच्छामि । "भगं "च भजनीयं देवम् "आयोः मनुष्यस्य यजमानस्य "रत्नं रमणीयं हविः “विभजन्तम् । ‘भगो वां विभजतु ' इति हि भगस्य विभजनं प्रसिद्धम् । ‘रायो विभक्ता संभरश्च वस्वः' ( ऋ. सं. ४. १७. ११ ), ‘ भगो विभक्ता शवसा ' (ऋ. सं. ५. ४६. ६ ) इति च श्रुतिः । यद्वा । चतुर्थ्यर्थे षष्ठी । यजमानार्थं रत्नं रमणीयं धनं विभजन्तम् । हे "नरा नेतारौ हे "पुरुभुजा । पुरु भुञ्जाते इति पुरुभुजौ। हे “अश्विना अश्विनौ "वां युवां "दिवेदिवे प्रतिदिनम् “आ “ववृत्याम् आवर्तयाम्यस्मदभिमुखम् । “सखीयन् युवयोः सखित्वमिच्छन् । “चित् इति पूरणः ॥
 
 
Line ४८ ⟶ ५२:
 
उप । ब्रुवीत । नमसा । विऽजानन् । ज्येष्ठम् । च । रत्नम् । विऽभजन्तम् । आयोः ॥२
 
“असुरस्य शत्रूणां निरसितुः सवितुः "प्रति "प्रयाणं प्रत्यागतिं "विद्वान् जानन् "सूक्तैः “सवितारं "देवं "दुवस्य परिचर हे अन्तरात्मन् । किंच "आयोः मनुष्याय “ज्येष्ठं "रत्नं धनं "च “विभजन्तम् । गमयन्तमित्यर्थः । "नमसा नमस्कारेण हविषा वा “विजानन् । विशेषेण भावयन्नित्यर्थः ॥ यद्वान्तर्णीतण्यर्थोऽयम् ॥ ज्ञापयन् "उप "ब्रुवीत स्तौतु भवान् ॥
 
 
Line ६१ ⟶ ६७:
 
इन्द्रः । विष्णुः । वरुणः । मित्रः । अग्निः । अहानि । भद्रा । जनयन्त । दस्माः ॥३
 
अयमग्निः "अदत्रया अदनीयानि ॥ अदेरौणादिकोऽत्रप्रत्ययः । सुपां सुलुक् ' इति याजादेशः । अथवा अत्तीत्यदत्रा जिह्वा । तया “वार्याणि वरणीयानि काष्ठानि “दयते । दयतिरनेककर्मात्र दहने वर्तते । दहतीत्यर्थः । सामर्थ्यादग्निरिति गम्यते । यद्वा । अदनीयानि वरणीयान्यन्नानि दयते ।। ददाति यजमानाय ॥ ‘दय दानगतिहिंसाबलाख्यानेषु ' ॥ कीदृशोऽग्निः । "पूषा पोषकः "भगः भजनीयः "अदितिः अखण्डनीयः । यद्वा । पूषादयस्त्रयोऽपि प्रत्येकमदनीयानि वार्याणि चान्नानि दयते । “उस्रः सूर्यः “वस्ते आच्छादयति । सामर्थ्यात्तेजांसि । इन्द्रादयः पञ्चापि देवाः "दस्माः दर्शनीयाः "अहानि सर्वाण्यागन्तॄणि "भद्रा शोभनानि “जनयन्त जनयन्ति । दिवसानां यागदानादिविशिष्टत्वमेव भद्रत्वम् ॥
 
 
Line ७४ ⟶ ८२:
 
उप । यत् । वोचे । अध्वरस्य । होता । रायः । स्याम । पतयः । वाजऽरत्नाः ॥४
 
"तत् प्रसिद्धं "वरूथं वरणीयमस्मदभिमतं धनं “नः अस्मभ्यम् "अनर्वा अप्रत्यृतः केनाप्यतिरस्कृतः "सविता देवः प्रयच्छत्विति शेषः । “तत् : धनं "सिन्धवः स्यन्दनशीलाः "इषयन्तः गच्छन्त्यो नद्यः "अनु अनुसृत्य “ग्मन् गच्छन्तु । धनं दातुं गच्छन्त्वित्यर्थः । "यत् यस्मात् "अध्वरस्य यागस्य “होता होमनिष्पादकोऽहम् "उप “वोचे उपेत्य ब्रवीमि तस्मात्तत्प्रयच्छन्त्विति शेषः । वयं चात्रयः "रायः धनस्य बहुविधस्य “पतयः स्वामिनः "स्याम भवेम । “वाजरत्नाः अन्नेन बलेन वा रमणीयाः । अथवा यद्यस्माद्वोचे स्तौमि तस्मात् सविता नो वरूथमागच्छतु । तस्मान्नद्यश्च नो वरूथं यज्ञमनु ग्मन् अनुगच्छन्त्विति वा योज्यम् ॥
 
 
Line ८८ ⟶ ९८:
अव । एतु । अभ्वम् । कृणुत । वरीयः । दिवःपृथिव्योः । अवसा । मदेम ॥५
 
"ये यजमानाः “वसुभ्यः यज्ञनिवासेभ्यो देवेभ्यः “ईवत् गमनवत् "नमः अन्नं पश्वात्मकं "प्र “दुः प्रादुः । "ये च "मित्रे देवे "वरुणे च "सूक्तवाचः सूक्तवचसो भवन्ति तानस्मान् "अभ्वं महद्धनं तेजो वा "अवैतु अवगच्छतु । हे देवाः "कृणुत कुरुत चैतेभ्यः "वरीयः उरुतरं सुखम् । "दिवस्पृथिव्योः द्यावापृथिव्योः “अवसा रक्षणेन "मदेम हृष्येम ॥ ॥ ३ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.४९" इत्यस्माद् प्रतिप्राप्तम्