"ऋग्वेदः सूक्तं ५.७९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १६७:
 
न । इत् । त्वा । स्तेनम् । यथा । रिपुम् । तपाति । सूरः । अर्चिषा । सुऽजाते । अश्वऽसूनृते ॥९
 
हे दिवः “दुहितः उषः त्वं “व्युच्छ विभातं कुरु । “अपः अस्मदीयं कर्म प्रति “चिरं विलम्बं “मा “तनुथाः मा कृथाः । “त्वा त्वां “रिपुं “स्तेनं “यथा संतापयति राजादिः तद्वत “सूरः सूर्यः “अर्चिषा तेजसा “नेत् नैव "तपाति तप्यात् । शीघ्रं नोदत्वित्यर्थः ।।
 
 
Line १८० ⟶ १८२:
 
या । स्तोतृऽभ्यः । विभाऽवरि । उच्छन्ती । न । प्रऽमीयसे । सुऽजाते । अश्वऽसूनृते ॥१०
 
हे “उषः त्वमस्मभ्यं “वा अथवा दित्सितं किम् “एतावत् एव । इच्छब्द एवकारार्थः । अस्मिन् सूक्ते प्रार्थितमेवेत्यर्थः । अथवा "भूयः “दातुमर्हसि । अप्रार्थितमपि । यद्दातव्यमस्ति तत्सर्वं देहि इत्यर्थः । हे “विभावरि उषः “या त्वं “स्तोतृभ्यः तेषां लौकिकवैदिकव्यवहारार्थं व्युच्छन्ती तमो विवासयन्ती “न “प्रमीयसे न हंसि । न क्रुध्यसीत्यर्थः । सा त्वं दातुमर्हसीति ॥ ' मीञ् हिंसायाम् ' इत्यस्मात् श्नास्थाने व्यत्ययेन श्यन् ॥ ॥ २२ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.७९" इत्यस्माद् प्रतिप्राप्तम्