"पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२५२" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: रिक्तं पृष्ठं निर्मितम्
 
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:

{{c|'''<big>प ञ्च मो ल्ला सः</big>'''}}

{{c|अथ श्रष्टादशपदानि}}
{{rule|3em}}

{{gap}}अथ सर्वासु स्मृतिषु प्रमाणनिरूपणानन्तरमेवाष्टादश पदनिरूपणम् । प्रमाणनिरूपणानन्तरं प्रमेयनिरूपणं न्याय्यमिति तदनन्तरमेव अष्टादशपदाख्यं प्रमेयं निरूप्यते ।

{{c|ऋणादानम्}}

{{gap}}तत्र ऋणादान एव मानुषदिव्यात्मकसकलप्रमाणसाध्य त्वेन व्यवहारस्य निरूपणात्प्रथम्यादुद्देशक्रमेण प्रथमं ऋणा- दानारूय विवादपदं निरूप्यते । अत एवोक्तं तेषामाद्यमृणा- दानम् ' इति । अत्र ऋणादानविधिस्सप्तविधः । ईदृशमृणं देयं ईदृशमृणमदेयमनेनाधिकारिणा देयं अस्मिन् समये देयमनेन प्रकारेण देयमित्यधमर्णे पञ्चविधः । उत्तभर्णे तु दानविधिः आदानविधिश्चेति द्विविधः । यथोक्तं नारदेन-

{{gap}}ऋणं देयमदेयं च येन यत्र यदा भवेत् ।<br>
{{gap}}दानग्रहणधर्माश्च ऋणादानविधिस्स्मृतः ।।

इति । तत्र ऋणप्रदानपूर्वकत्वादितरेषां प्रथमं तत्पदानगकार- माह याङ्गवल्क्यः-

{{gap}}अशीतिभागो तृद्धिस्स्यात् मासिमासि सबन्धके ।<br>
{{gap}}वर्णकपाच्च तद्वत्त्रिचतुःपञ्चकमन्यथा ।।<br>
{{gap}}विश्वासार्थमधमर्णेनोत्तमर्णे यदाधीयते । तदाधिरत्र वन्धक- मुच्यते । सवन्धके प्रयोगे प्रयुक्तभक्तयस्याशीतितमो भागो वृद्धि- धैम्यां भवति । तेन पणविशत्याम् पणपादो मासिमासि वृद्धि- भवति तथा च मनः-

{{gap}}वसिष्ठवचनप्रोक्तां वृद्धिं वार्धुषिके शृणु ।