"अग्निपुराणम्/अध्यायः १९६" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः ४:
<poem><span style="font-size: 14pt; line-height: 200%">नक्षत्रव्रतानि
अग्निरुवाच
नक्षत्रव्रतकं वक्ष्ये भे हरिः पूजितोऽर्थदः(१)
नक्षत्रपुरुषं चादौ चैत्रमासे हरिं यजेत्
मूले पादौ यजेज्जङ्घे रोहिणीस्वर्चयेद्धरिं
जानुनी चाश्विनीयोगे आषाढासूरुसञ्ज्ञके
मेढ्रं पूर्वोत्तरास्वेव कटिं वै कृत्तिकासु च
पार्श्वे भाद्रपदाभ्यान्तु कुक्षिं वै रेवतीषु च
स्तनौ चैवानुराधासु धनिष्ठासु च पृष्ठकं
भुजौ पूज्यौ विशाखासु पुनर्वस्वङ्गुलीर्यजेत्
अश्लेषासु नखान् पूज्य कण्ठं ज्येष्ठासु पूजयेत्
श्रोत्रे विष्णोश्च श्रवणे मुखं पुष्ये हरेर्यजेत्
यजेत्स्वातिषु दन्ताग्रमास्यं वारुणतोऽर्चयेत्
मघासु नसां नयने मृगशीर्षे ललाटकं
चित्रासु चार्द्रासु कचानब्दान्ते स्वर्णकं हरिं
गुडपूर्णे घटेऽभ्यर्च्य शय्यागोर्थादि दक्षिणा(२)
नक्षत्रपुरुषो विष्णुः पूजनीयः शिवात्मकः
<small><small>- - - -- - - -- - - -- - - -- - - -- - - -
टिप्पणी
पङ्क्तिः २४:
२ शय्यागोश्चादि दक्षिणा इति ख.. , ट.. च । शय्यागोन्नादि दक्षिणा इति घ.. , ञ.. , ज.. च । शय्याधेन्वादि सक्षिका इति ङ..
- - - -- - - -- - - -- - - -- - - -- - - -</small></small>
शाम्भवायनीयव्रतकृन्मासभे पूजयेद्धरिं
कार्त्तिके कृत्तिकायां च मृगशीर्षे मृगास्यके
नामभिः केशवाद्यैस्तु अच्युताय नमोऽपि वा
कार्त्तिके कृत्तिकाभेऽह्नि मासनक्षत्रगं हरिं
शाम्भवायनीयव्रतकं करिष्ये भुक्तिमुक्तिदं
केशवादि महामूर्तिमच्युतं सर्वदायकं(१)
आवाहयाम्यहन्देवमायुरारोग्यवृद्धिदं
कार्त्तिकादौ सकासारमन्नं(२) मासचतुष्टयं(३)
फाल्गुनादौ च कुशरमाषाढादौ च पायसं
देवाय ब्राह्मणेभ्यश्च नक्तन्नैवेद्यमाशयेत्(४)
पञ्चगव्यजलेस्नातस्तस्यैव प्राशनाच्छुचिः
अर्वाग्विसर्जनाद्द्रव्यं नैवेद्यं सर्वमुच्यते
विसर्जिते जगन्नाथे निर्माल्यन्भवति क्षणात्
नमो नमस्तेऽच्युत मे क्षयोस्तु पापस्य वृद्धिं समुपैतु पुण्यं
ऐश्वर्यवित्तादि सदाक्षयं मे(५) क्षयञ्च मा सन्ततिरभ्यपैतु
यथाच्युतस्त्वम्परतः परस्तात्स ब्रह्मभूतः परतः परात्मन्
<small><small>- - - -- - - -- - - -- - - -- - - -- - - -
टिप्पणी
पङ्क्तिः ४८:
५ ऐश्वर्यवित्तादि महोदयं मे इति झ..
- - - -- - - -- - - -- - - -- - - -- - - -</small></small>
तथाच्युतं त्वं कुरु वाञ्छितं मे मया कृतम्पापहराप्रमेय
अच्युतानन्द गोविन्द प्रसीद यदभीप्सितं
अक्षयं माममेयात्मन् कुरुष्व पुरुषोत्तम
सप्त वर्षाणि सम्पूज्य भुक्तिमुक्तिमवापुनुयात्
अनन्तव्रतमाख्यास्ये नक्षत्रव्रतकेर्थदं(१)
मार्गशीर्षे मृगशिरे गोमूत्राशो यजेद्धरिं
अनन्तं सर्वकामानामनन्तो भगवान् फलं
ददात्यनन्तञ्च पुनस्तदेवान्यत्र जन्मनि
अनन्तपुन्योपचयङ्करोत्येतन्महाव्रतं
यथाभिलषितप्राप्तिं करोत्यक्षयमेव च
पादादि पूज्य नक्ते तु भुञ्जीयात्तैलवर्जितं
घृतेनानन्तमुद्दिश्य होमो मासचतुष्टयं
चैत्रादौ शालिना होमः पयसा श्रावणादिषु
मान्धाताभूद्युवनाश्वादनन्तव्रतकात्सुतः
इत्याग्नेये महापुराणे नक्षत्रव्रतकानि नाम षण्णवत्यधिकशततमोऽध्यायः ॥
|