"ऋग्वेदः सूक्तं ७.२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३६:
 
{{सायणभाष्यम्|
॥ श्रीगणेशाय नमः ॥
 
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
 
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
 
‘ जुषस्व नः' इत्येकादशर्चं द्वितीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभम् । आप्रशब्दोक्तत्वादिदं तनूनपाद्रहितम् । समिद्धाद्या अग्निविशेषाः प्रत्यृचं देवता उक्ताः । तथा चानुक्रम्यते- जुषस्वैकादशाप्रम् इति । पशाविष्टाविदमाप्रीसूक्तम् । सूत्रितं च -- जुषस्व नः समिधमिति वसिष्ठानाम् ' ( आश्व. श्रौ. ३. २) इति । पत्नीसंयाजे त्वष्ट्यागस्य याज्या त्वाष्ट्रे पशावपि पुरोडाशस्यानुवाक्येयमिति पूर्वमुक्तम् ॥
 
 
जु॒षस्व॑ नः स॒मिध॑मग्ने अ॒द्य शोचा॑ बृ॒हद्य॑ज॒तं धू॒ममृ॒ण्वन् ।
Line ४८ ⟶ ५६:
 
उप । स्पृश । दिव्यम् । सानु । स्तूपैः । सम् । रश्मिऽभिः । ततनः । सूर्यस्य ॥१
 
हे “अग्ने “नः अस्माकं “समिधम् “अद्य “जुषस्व सेवस्व । “यजतं यजनीयं प्रशस्तं “धूमम् “ऋण्वन् प्रेरयन् “बृहत् अत्यन्तं “शोच दीप्यस्व च । किंच “दिव्यम् अन्तरिक्षभवं “सानु समुच्छ्रितं “स्तूपैः तप्तैः रश्मिभिः “उप “स्पृश । अपि च “सूर्यस्य रश्मिभिः तेजोभिः “सं “ततनः संगच्छस्व ॥
 
 
Line ६१ ⟶ ७१:
 
ये । सुऽक्रतवः । शुचयः । धियम्ऽधाः । स्वदन्ति । देवाः । उभयानि । हव्या ॥२
 
“ये "देवाः “सुक्रतवः सुप्रज्ञाः सुकमणो वा “शुचयः दीप्तिमन्तः “धियंधाः कर्मणां धारयितारः “उभयानि सौमिकानि च हविःसंस्थादीनि च “हव्या हव्यानि “स्वदन्ति स्वदयन्ति भक्षयन्ति तेषाम् “एषां मध्ये यज्ञैः हविर्भिः स्तोत्रैर्वा “यजतस्य यजनीयस्य “नराशंसस्य नरैः प्रशंसनीयस्य अग्निविशेषस्य “महिमानं महत्त्वम् “उप “स्तोषाम वयमुपस्तुमः । तथा च यास्कः - ‘ नरा अस्मिन्नासीनाः शंसन्ति । अग्निरिति शाकपूणिर्नरैः प्रशस्यो भवति । तस्यैषा भवति । नराशंसस्य महिमानमेषामुप स्तोषाम यजतस्य यज्ञैर्ये सुकर्माणः शुचयो धियं धारयितारः स्वदयन्तु देवा उभयानि हवींषि सोमं चेतराणि च ' (निरु. ८. ६) इति ॥
 
 
Line ७४ ⟶ ८६:
 
मनुष्वत् । अग्निम् । मनुना । सम्ऽइद्धम् । सम् । अध्वराय । सदम् । इत् । महेम ॥३
 
हे अध्वर्यवः “वः यूयम् “ईळेन्यं स्तुत्यम् "असुरं बलवन्तं "सुदक्षं सुप्रज्ञं "रोदसी रोदस्योः “अन्तः मध्ये "दूतं देवानां हविर्वहनार्थं चरन्तं “सत्यवाचं “मनुष्वत् मनुष्यवत् “मनुना “समिद्धं यथेदानीं मनुष्याः समिन्धते तथा पूर्वं मनुना प्रजापतिना समिद्धम् “अग्निम् “अध्वराय यज्ञाय “सदमित् सदैव “सं “महेम संपूजयत । मध्यमपुरुषस्य व्यत्ययेनोत्तमपुरुषत्वम् ॥
 
 
Line ८७ ⟶ १०१:
 
आऽजुह्वानाः । घृतऽपृष्ठम् । पृषत्ऽवत् । अध्वर्यवः । हविषा । मर्जयध्वम् ॥४
 
“सपर्यवः परिचरणमिच्छन्तः "अभिज्ञु अभिगतजानुकं “भरमाणाः पादौ भरन्तः “बर्हिः “नमसा हविषा सह “अग्नौ “प्र “वृञ्जते प्रभरन्ति । तदेव विशदयति । हे “अध्वर्यवः “घृतपृष्ठं घृतसंसिक्तपृष्ठं "पृषद्वत् स्थूलबिन्दुभिर्युक्तं बर्हिः “हविषा सह "आजुह्वानाः “मर्जयध्वम् अग्निं परिचरत ।।
 
 
Line १०० ⟶ ११६:
 
पूर्वी इति । शिशुम् । न । मातरा । रिहाणे इति । सम् । अग्रुवः । न । समनेषु । अञ्जन् ॥५
 
"स्वाध्यः सुकर्माणः "देवयन्तः देवकामा यजमानाः “रथयुः रथकामाश्च ।। जसि पूर्वसवर्णो ह्रस्वश्च ॥ “देवताता देवतातौ यज्ञे “दुरः यज्ञगृहद्वाराणि "वि “अशिश्रयुः आश्रितवन्तः । किंच “समनेषु यज्ञेषु “पूर्वी प्राचीने प्रागग्रे जुहूपभृतौ “शिशुं “न वत्समिव मातरौ गावौ “रिहाणे अग्निं लिहाने “अग्रुवो “न यथा नद्यः क्षेत्राण्युदकेन तद्वत् “सम् “अञ्जन् अध्वर्यवः आज्येन समञ्जन्ति ॥ ॥ १ ॥
 
 
Line ११३ ⟶ १३१:
 
बर्हिऽसदा । पुरुहूते इति पुरुऽहूते । मघोनी इति । आ । यज्ञिये इति । सुविताय । श्रयेताम् ॥६
 
“उत अपि च "योषणे युवत्यौ स्त्रीरूपे वा “दिव्ये दिवि भवे "मही महत्यौ। “बर्हिषदा बर्हिषि सीदन्त्यौ “पुरुहूते बहुभिः स्तुते “मघोनी धनवत्यौ “यज्ञिये यज्ञार्हे "उषासानक्ता अहोरात्रे "सुदुघेव “धेनुः कामधुग्धेनुरिव "नः अस्मान् “सुविताय कल्याणाय “आ “श्रयेताम् ॥
 
 
Line १२६ ⟶ १४६:
 
ऊर्ध्वम् । नः । अध्वरम् । कृतम् । हवेषु । ता । देवेषु । वनथः । वार्याणि ॥७
 
हे दैव्या होतारौ "विप्रा मेधाविनौ “जातवेदसा जातधनौ “मानुषेषु मनुष्यैः क्रियमाणेषु “यज्ञेषु "कारू कर्मणां कर्तारौ "वां युवां “यजध्यै यष्टुं “मन्ये स्तौमि । किंच “हवेषु हवनेषु स्तोत्रेषु सत्सु “नः अस्माकम् "अध्वरम् अकुटिलं यज्ञम् “ऊर्ध्वं देवाभिमुखं “कृतं कुरुतं च । अपि च "ता तौ युवां “देवेषु विद्यमानानि “वार्याणि धनानि “वनथः संभजथः । तान्यस्मभ्यं संप्रयच्छथ इत्यर्थः।।
 
 
Line १३९ ⟶ १६१:
 
सरस्वती । सारस्वतेभिः । अर्वाक् । तिस्रः । देवीः । बर्हिः । आ । इदम् । सदन्तु ॥८
 
एतदाद्यृक्चतुष्टयं द्वितीयाष्टकस्याष्टमाध्याये (ऋ. सं. ३. ४. ८-११ ) यद्यपि व्याख्यातं तथापि व्यवधानात् संक्षेपतोऽत्रापि व्याख्यायते । “भारती भरतस्यादित्यस्य पत्नी “भारतीभिः “सजोषाः सहिता “इळा “मनुष्येभिः मनुष्यलोकभवैः “देवैः सार्धम् “अग्निः “आ गच्छतु । “सरस्वती “सारस्वतेभिः सारस्वतैः मध्यमस्थानैर्देवैः सार्धम् “अर्वाक् अस्मदभिमुखमागच्छतु । आगत्य “तिस्रो "देवीः देव्यः ॥ प्रथमार्थे द्वितीया ॥ “बर्हिः “इदम् “आ “सदन्तु ॥
 
 
Line १५२ ⟶ १७६:
 
यतः । वीरः । कर्मण्यः । सुऽदक्षः । युक्तऽग्रावा । जायते । देवऽकामः ॥९
 
“देव द्योतमान हे “त्वष्टः “रराणः रममाणस्त्वं “नः अस्माकं “तुरीपं त्वरितमाप्नुवत् “पोषयित्नु पोषकरं “तत रेतः “वि “स्यस्व विशेषेणावसानं प्रापय । विमोचयेत्यर्थः । “यतः रेतसः “कर्मण्यः कर्मसु साधुः “सुदक्षः सुबल: "युक्तग्रावा सोमसुत् "देवकामः “वीरः पुत्रः “जायते ॥
 
 
Line १६५ ⟶ १९१:
 
सः । इत् । ऊं इति । होता । सत्यऽतरः । यजाति । यथा । देवानाम् । जनिमानि । वेद ॥१०
 
हे “वनस्पते “देवान् “उप “अव “सृज । अथ परोक्षस्तुतिः । “अग्निः वनस्पतिः “शमिता शामित्ररूपः सन् “हविः “सूदयाति प्रेरयतु । “सेत् स एव वनस्पतिः “होता देवानामाह्वाता “सत्यतर: अपि सन् “यजाति यजतु । “देवानां “जनिमानि जननानि “यथा स्वयं “वेद तथा ॥
 
 
Line १७८ ⟶ २०६:
 
बर्हिः । नः । आस्ताम् । अदितिः । सुऽपुत्रा । स्वाहा । देवाः । अमृताः । मादयन्ताम् ॥११
 
हे "अग्ने “समिधानः “अर्वाक् अस्मदभिमुखस्त्वम् “इन्द्रेण “तुरेभिः त्वरितैः "देवैः च “सरथं समानरथं यथा भवति तथा “आ “याहि आगच्छ । “नः अस्माकं “बर्हिः अधि “आस्ताम् “अदितिः च “सुपुत्रा कल्याणपुत्रा । “स्वाहा “देवाः च सर्वे "अमृताः सन्तः “मादयन्ताम् इति ॥ ॥ ३ ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.२" इत्यस्माद् प्रतिप्राप्तम्