"ऋग्वेदः सूक्तं ७.४८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २१:
 
{{सायणभाष्यम्|
‘ ऋभुक्षणः' इति चतुर्ऋचं पञ्चदशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमृभुदेवताकम् । अन्त्याया विकल्पेन विश्वे देवा देवता । तथा चानुक्रान्तम् - ऋभुक्षण आर्भवमन्त्या वैश्वदेवी वा ' इति । दशमेऽहनि वैश्वदेवशस्त्र आर्भवनिविद्धानम् । सूत्र्यते हि - ‘ ऋभुक्षण इत्यार्भवम् ' (आश्व. श्रौ. ८. १२) इति ॥
 
 
ऋभु॑क्षणो वाजा मा॒दय॑ध्वम॒स्मे न॑रो मघवानः सु॒तस्य॑ ।
Line ३३ ⟶ ३५:
 
आ । वः । अर्वाचः । क्रतवः । न । याताम् । विऽभ्वः । रथम् । नर्यम् । वर्तयन्तु ॥१
 
ऋभुक्षेत्यृभूणां ज्येष्ठस्याख्या वाज इति तु कनिष्ठस्य । अत्र ‘ऋभुक्षणो वाजाः' इति बहुवचनेन ऋभवस्त्रयो गृह्यन्ते । हे “ऋभुक्षणो “वाजाः "नरः नेतारः “मघवानः धनवन्तः एवंभूता हे ऋभवः यूयम् "अस्मे अस्मासु स्थितेन "सुतस्य अभिषुतेन सोमेन "मादयध्वं तृप्ता भवत । "न इति
संप्रत्यर्थे । इदानीं "यातां गच्छतां "वः युष्मदीयाः "क्रतवः कर्मणां कर्तारः "विभ्वः विभवः समर्था अश्वाः "अर्वाचः अर्वाञ्चोऽस्मदभिमुखाः सन्तः "नर्यं मनुष्यहितं "रथं युष्मदीयम् “आ “वर्तयन्तु आगमयन्तु ॥
 
 
Line ४६ ⟶ ५१:
 
वाजः । अस्मान् । अवतु । वाजऽसातौ । इन्द्रेण । युजा । तरुषेम । वृत्रम् ॥२
 
हे ऋभवः “ऋभुभिः युष्माभिर्वयम् “ऋभुः । उरु भवन्तीत्यृभवः । सन्तः "विभुभिः युष्माभिः "विभ्वः विभवश्च सन्तः “शवांसि शत्रूणां बलानि “शवसा युष्मदीयेन बलेन “अभि "स्याम अभिभवेम । तथा “वाजसातौ संग्रामे “वाजः एतत्संज्ञक ऋभुः "अस्मानवतु पालयतु । अपि च "युजा सहायभूतेन “इन्द्रेण "वृत्रं शत्रुं वयं “तरुषेम हनाम । प्रायेणर्भवोऽपीन्द्रेण सह स्तूयन्त इति ॥
 
 
Line ५९ ⟶ ६६:
 
इन्द्रः । विऽभ्वा । ऋभुक्षाः । वाजः । अर्यः । शत्रोः । मिथत्या । कृणवन् । वि । नृम्णम् ॥३
 
“ते तादृशाः इन्द्रः ऋभवश्व "पूर्वीः बह्वीरस्मच्छत्रुसेनाः “शासा शासनेन स्वकीययाज्ञया । यद्वा । विशस्यते हिंस्यतेऽनेनेति शासशब्द आयुधवाची । तेन "अभि "सन्ति अभिभवन्ति । “चिद्धि इतीमौ पूरणौ । किंच "उपरताति ॥ सप्तम्या लुक् ॥ उपरैः उपलैः पाषाणसदृशैरायुधैस्तायते विस्तार्यत इत्युपरताति युद्धम् । तस्मिन् "विश्वान् समस्तान् "अर्यः अरीञ्छत्रून् "वन्वन् हिंसन्ति । "विभ्वा “ऋभुक्षाः "वाजः एतत्संज्ञका ऋभवश्च “इन्द्रः च "अर्यः शत्रूणामभिगन्तारः सन्तः "शत्रोः संबन्धि "नृम्णं बलं "मिथत्या । मेथतेरिदं रूपम् । मिथतिर्हिंसा । तया "वि कृणवन् विकुर्वन्तु । विनाशयन्वित्यर्थः ॥
 
 
Line ७३ ⟶ ८२:
सम् । अस्मे इति । इषम् । वसवः । ददीरन् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥४
 
हे "देवासः देवाः द्योतमाना ऋभवः यूयं "नु अद्य "नः अस्मभ्यं "वरिवः धनं "कर्तन कुरुत प्रयच्छत । तथा "विश्वे सर्वे ऋभवो यूयं "सजोषाः सह प्रीयमाणाः सन्तः “नः अस्माकम् "अवसे रक्षणाय "भूत भवत । अपि च "वसवः प्रशस्या ऋभवः “इषम् अन्नम् "अस्मे अस्मभ्यं "सं "ददीरन् संप्रयच्छेयुः । हे ऋभवः यूयम् अस्मान् सर्वदा कल्याणैः रक्षत ॥ ॥ १५ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.४८" इत्यस्माद् प्रतिप्राप्तम्