"ऋग्वेदः सूक्तं ७.५३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १९:
 
{{सायणभाष्यम्|
‘प्र द्यावा यज्ञैः ' इति तृचात्मकं विंशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं द्यावापृथिव्यम् । अनुक्रम्यते च --- प्र द्यावा द्यावापृथिव्यम्' इति । चतुर्थेऽहनि वैश्वदेवशस्त्र इदं द्यावापृथिव्यनिविद्धानम् । सूत्रितं च – ' आ देवो यातु प्र द्यावेति वासिष्ठम्' (आश्व. श्रौ. ८. ८) इति । द्यावापृथिव्ये पशौ वपापुरोडाशयोः ‘प्र द्यावा ' इति द्वे ऋचौ याज्ये। सूत्रितं च – प्र द्यावा यज्ञैः पृथिवी नमोभिरिति द्वे ' (आश्व. श्रौ. ३.८) इति ॥
 
 
प्र द्यावा॑ य॒ज्ञैः पृ॑थि॒वी नमो॑भिः स॒बाध॑ ईळे बृह॒ती यज॑त्रे ।
Line ३२ ⟶ ३४:
ते इति । चित् । हि । पूर्वे । कवयः । गृणन्तः । पुरः । मही इति । दधिरे । देवपुत्रे इति देवऽपुत्रे ॥१
 
“यजत्रे यजनीये "बृहती बृहत्यौ महत्यौ "द्यावा “पृथिवी द्यावापृथिव्यौ "यज्ञैः यागैः "नमोभिः स्तोत्रैश्चाहं स्तोता "सबाधः बाधासहितः । ऋत्विजां संबाधयुक्त इत्यर्थः । “प्र “ईळे प्रकर्षेण स्तौमि । “मही महत्यौ "देवपुत्रे । देवाः पुत्रा ययोस्ते । “ते “चिद्धि तादृश्यौ खल्वपि द्यावापृथिव्यौ “पूर्वे पुरातनाः "कवयः गृणन्तः स्तुवन्तः "पुरः "दधिरे पुरस्तात् स्थापयामासुः ॥
 
 
आग्रयणे द्यावापृथिव्यैककपालस्य ‘प्र पूर्वजे ' इति याज्या । सूत्रितं च -- ‘ मही द्यौः पृथिवी च नः प्र पूर्वजे पितरा नव्यसीभिः' (आश्व. श्रौ. २. ९) इति ॥
 
प्र पू॑र्व॒जे पि॒तरा॒ नव्य॑सीभिर्गी॒र्भिः कृ॑णुध्वं॒ सद॑ने ऋ॒तस्य॑ ।
Line ४४ ⟶ ५०:
 
आ । नः । द्यावापृथिवी इति । दैव्येन । जनेन । यातम् । महि । वाम् । वरूथम् ॥२
 
हे अस्मदीयाः स्तोतारो यूयं "नव्यसीभिः नवतराभिः “गीर्भिः स्तुतिरूपाभिर्वाग्भिः “ऋतस्य यज्ञस्य “सदने स्थानभूते "पूर्वजे पूर्वं प्रजाते "पितरा पितरौ विश्वस्य मातापितृभूते द्यावापृथिव्यौ “प्र “कृणुध्वं पुरस्कुरुत । अथ प्रत्यक्षस्तुतिः । हे "द्यावापृथिवी द्यावापृथिव्यौ युवां “दैव्येन देवसंबन्धिना “जनेन सह “नः अस्मानभि “आ “यातम् आगच्छतम् । किमर्थम् आयातमित्युच्यते । “वां युवयोः "वरूथम् अस्माभिर्वरणीयं “महि महत्। यद्धनमस्तीति शेषः। तद्धनमस्मभ्यं दीयतामित्यर्थः ॥
 
 
Line ५८ ⟶ ६६:
अस्मे इति । धत्तम् । यत् । असत् । अस्कृधोयु । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥३
 
“उतो "हि अपि च खलु हे “द्यावापृथिवी द्यावापृथिव्यौ “वां युवयोः "सुदासे शोभनहविर्दानाय यजमानाय देयानि “पुरूणि बहूनि "रत्नधेयानि रमणीयानि धनानि "सन्ति भवन्ति । तेषां मध्ये "यत् धनम् अस्कृधोयु । कृधुको ह्रस्वः । अह्रस्वमनल्पम् "असत् भवेत्तद्धनम् "अस्मे अस्मभ्यं “धत्तं प्रयच्छतम् । हे द्यावापृथिव्यौ "यूयं युवां "नः अस्मान् सर्वदा कल्याणैः "पात पालयतम् ॥ ॥२०॥
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.५३" इत्यस्माद् प्रतिप्राप्तम्