"ऋग्वेदः सूक्तं ७.५४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १९:
 
{{सायणभाष्यम्|
‘वास्तोष्पते' इति तृचात्मकमेकविंशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वास्तोष्पत्यम् । तथा चानुक्रम्यते- ‘ वास्तोष्पते वास्तोष्पत्यम् ' इति । स्मार्ते गृहनिर्माणे 'वास्तोष्पते ' इति चतसृभिः प्रत्यृचं जुहुयात् । सूत्रितं च - वास्तोष्पते प्रति जानीह्यस्मानिति चतसृभिः प्रत्यृचं हुत्वा ' (आश्व. गृ. २. ९. ९) इति ॥
 
 
वास्तो॑ष्पते॒ प्रति॑ जानीह्य॒स्मान्स्वा॑वे॒शो अ॑नमी॒वो भ॑वा नः ।
Line ३१ ⟶ ३३:
 
यत् । त्वा । ईमहे । प्रति । तत् । नः । जुषस्व । शम् । नः । भव । द्विऽपदे । शम् । चतुःऽपदे ॥१
 
हे "वास्तोष्पते गृहस्य पालयितर्देव त्वम् "अस्मान् त्वदीयान् स्तोतॄनिति “प्रति “जानीहि प्रबुध्यस्व । तदनन्तरं "नः अस्माकं “स्वावेशः शोभननिवेशः "अनमीवः अरोगकृच्च “भव । किंच वयं “त्वा त्वां “यत् धनम् "ईमहे याचामहे त्वमपि "तत् धनं "नः अस्मभ्यं “प्रति “जुषस्व प्रयच्छ । अपि च "नः अस्माकं "द्विपदे पुत्रपौत्रादिजनाय “शं सुखकरः “भव । "चतुष्पदे अस्मदीयाय गवाश्वादिवर्गाय च "शं सुखकरो भव ॥
 
 
Line ४४ ⟶ ४८:
 
अजरासः । ते । सख्ये । स्याम । पिताऽइव । पुत्रान् । प्रति । नः । जुषस्व ॥२
 
हे "वास्तोष्पते गृहस्य पालयितर्देव त्वं "नः अस्माकं "प्रतरणः प्रवर्धकः “गयस्फानः गयस्य अस्मदीयस्य धनस्य स्फाययिता प्रवर्धकः “एधि भव । हे “इन्दो सोमवदाह्लादक "ते त्वया सह “सख्ये सति वयं "गोभिः पशुभिः "अश्वेभिः अश्वैश्च सहिताः “अजरासः जरारहिताः "स्याम भवेम । विनाशरहिता इत्यर्थः । "पितेव “पुत्रान् यथा पिता पुत्रान् रक्षकत्वेन सेवते तथा त्वमपि “नः अस्मान् "प्रति "जुषस्व सेवस्व ॥
 
 
Line ५८ ⟶ ६४:
पाहि । क्षेमे । उत । योगे । वरम् । नः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥३
 
हे "वास्तोष्पते देव “शग्मया सुखकर्या “रण्वया रमणीयया “गातुमत्या धनवत्या “ते त्वया देयया “संसदा स्थानेन “सक्षीमहि वयं संगच्छेमहि । त्वमपि "क्षेमे प्राप्तस्य रक्षणे “उत अपि च “योगे अप्राप्तस्य प्रापणे “वरं वरणीयं "नः अस्मदीयं धनं "पाहि रक्ष । हे वास्तोष्पते "यूयं त्वं “नः अस्मान् सर्वदा कल्याणैः “पात पाहि ॥ ॥ २१ ॥
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.५४" इत्यस्माद् प्रतिप्राप्तम्