"ऋग्वेदः सूक्तं ७.५७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २८:
 
{{सायणभाष्यम्|
‘ मध्वो वः ' इति सप्तर्चं द्वितीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं मरुद्देवताकम्। ' मध्वः सप्त ' इत्यनुक्रान्तम् । दशरात्रे षष्ठेऽहन्याग्निमारुत इदं मारुतनिविद्धानम्। सूत्रितं च - ' मध्वो वो नाम स प्रत्नथेत्याग्निमारुतम् ' ( आश्व. श्रौ. ८.८) इति ॥
 
 
मध्वो॑ वो॒ नाम॒ मारु॑तं यजत्रा॒ः प्र य॒ज्ञेषु॒ शव॑सा मदन्ति ।
Line ४० ⟶ ४२:
 
ये । रेजयन्ति । रोदसी इति । चित् । उर्वी इति । पिन्वन्ति । उत्सम् । यत् । अयासुः । उग्राः ॥१
 
हे “यजत्राः यजनीया मरुतः “वः युष्मदीयं “मारुतं मरुत्संबन्धि “नाम नामधेयं “मध्वः मधवो मादयितारः स्तोतारः “यज्ञेषु यागेषु “शवसा बलेन “प्र “मदन्ति प्रकर्षेण स्तुवन्ति । उच्चैः स्तुवन्तीत्यर्थः। "ये मरुतः "उर्वी विस्तीर्णे “रोदसी “चित् द्यावापृथिव्यावपि “रेजयन्ति कम्पयन्ति किंच “उत्सं मेघं “पिन्वन्ति वर्षयन्ति "उग्राः उद्गूर्णाः “यत् ये मरुतः “अयासुः यान्ति सर्वत्र गच्छन्ति । तेषां मरुतां युष्माकं नाम प्र मदन्तीति पूर्वेणान्वयः ।।
 
 
Line ५३ ⟶ ५७:
 
अस्माकम् । अद्य । विदथेषु । बर्हिः । आ । वीतये । सदत । पिप्रियाणाः ॥२
 
ये "मरुतः “गृणन्तं स्तुवन्तं जनं “निचेतारो “हि मृगयमाणा भवन्ति खलु अपि च “यजमानस्य “मन्म अभिमतं कामं “प्रणेतारः च भवन्ति । अपरोऽर्धर्चः प्रत्यक्षकृतः। हे मरुतः यूयं “पिप्रियाणाः प्रीयमाणाः सन्तः “अद्य अस्मिन् दिवसे “अस्माकं “विदथेषु यज्ञेषु “वीतये सोमस्य भक्षणाय “बर्हिः बर्हिषि कुशमये "आ “सदत आसीदत उपविशत ॥
 
 
Line ६६ ⟶ ७२:
 
आ । रोदसी इति । विश्वऽपिशः । पिशानाः । समानम् । अञ्जि । अञ्जते । शुभे । कम् ॥३
 
“इमे ईदृशाः “मरुतः “यथा यत्परिमाणं धनादिकं ददति “अन्ये मरुद्व्यतिरिक्ता देवाः “एतावत् धनादिकं “न दद्युरित्यर्थः । ते च “रुक्मैः रोचमानैराभरणैः “आयुधैः स्वकीयास्त्रैः “तनूभिः आत्मीयैः केवलैरङ्गैश्च “भ्राजन्ते सर्वदा भासन्ते । कश्चिदेकवाक्यतामाह। यथेमे मरुतो रुक्मादिभिर्भ्राजन्ते नैतावदेतद्व्यतिरिक्ता भ्राजन्त इति । अपि च “रोदसी द्यावापृथिव्यौ “पिशानाः प्रकाशयन्तः “विश्वपिशः व्याप्तदीप्तय एवंभूताः मरुतः “शुभे शोभायै “समानं सदृशरूपम् “अञ्जि आभरणम् “आ “अञ्जते स्वकीयावयवेष्वभिव्यक्तीकुर्वन्ति । "कम् इति पूरणः ।।
 
 
Line ७९ ⟶ ८७:
 
मा । वः । तस्याम् । अपि । भूम । यजत्राः । अस्मे इति । वः । अस्तु । सुऽमतिः । चनिष्ठा ॥४
 
हे “मरुतः “वः युष्मदीया “सा प्रसिद्धा “दिद्युत् हेतिः “ऋधक् “अस्तु अस्मत्तः पृथग्भवतु । “यत् यद्यपि वयं “वः युष्माकम् “आगः अपराधं “पुरुषता पुरुषतया मनुष्यत्वेन “कराम करवाम। मनुष्याणां हि प्रमादः सुलभ इत्यर्थः । हे “यजत्राः यजनीया मरुतः “वः युष्मदीयायां “तस्यां दिद्युति “अपि ईषदपि “मा “भूम । “चनिष्ठा अन्नवत्तमा । अतिशयेनान्नप्रदेत्यर्थः। “वः युष्मदीया “सुमतिः अनुग्रहबुद्धिः “अस्मे अस्मासु “अस्तु ॥
 
 
Line ९२ ⟶ १०२:
 
प्र । नः । अवत । सुमतिऽभिः । यजत्राः । प्र । वाजेभिः । तिरत । पुष्यसे । नः ॥५
 
“अत्र अस्मिन् “कृते “चित् अस्मदीये यज्ञकर्मण्येव “मरुतो “रणन्त रमन्ताम् । कीदृशा मरुतः । “अनवद्यासः अनिन्दिताः “शुचयः दीप्तियुक्ताः “पावकाः शोधका एवंभूता इति । किंच हे मरुतः “यजत्राः यजनीया यूयं “नः अस्मान् “सुमतिभिः अनुग्रहबुद्धिभिः सुष्टुतिभिर्हेतुभिर्वा “प्र “अवत प्रकर्षेण पालयत । तथा “नः अस्मान् “वाजेभिः वाजैरन्नैः “पुष्यसे पोषार्थं “प्र “तिरत प्रवर्धयत ॥
 
 
Line १०५ ⟶ ११७:
 
ददात । नः । अमृतस्य । प्रऽजायै । जिगृत । रायः । सूनृता । मघानि ॥६
 
“उत अपि च “स्तुतासः एवमस्माभिः स्तुताः “मरुतः “हवींषि “व्यन्तु भक्षयन्तु । कीदृशाः । “विश्वेभिः विश्वैः “नामभिः उदकैः सहिताः “नरः नेतारः। शेषः प्रत्यक्षस्तुतः। हे मरुतः “नः अस्मदीयायै “प्रजायै संततये “अमृतस्य अमृतमुदकं “ददात दत्त । तथा हविषो दातुर्यजमानस्य “सूनृता सुभृतानि सुष्ठु नृत्यन्ति शोभनयोग्यानि "मघानि धनानि “जिगृत उद्गिरत प्रयच्छतेत्यर्थः ॥
 
 
Line ११८ ⟶ १३२:
 
ये । नः । त्मना । शतिनः । वर्धयन्ति । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥७
 
हे “मरुतः “स्तुतासः एवमस्माभिः स्तुताः “विश्वे सर्वे यूयम् “ऊती ऊत्या रक्षया सहिताः “सूरीन् स्तोतॄन् “अच्छ अभिलक्ष्य “सर्वताता सर्वतातौ यज्ञे "आ "जिगात आगच्छत । "ये मरुतः “त्मना आत्मनैव “नः अस्मान् “शतिनः शतसंख्याकान् “वर्धयन्ति। यथा वयं पुत्रपौत्रादिभिः शतिनो भवेम तथा वर्धयन्तीत्यर्थः । ते यूयमा जिगातेति पूर्वेण संबन्धः। एवंभूता मरुतः यूयं सर्वदा अस्मान् पालयत ॥ ॥ २७ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.५७" इत्यस्माद् प्रतिप्राप्तम्